सूत उवाच-
विश्वास-प्रस्तुतिः
अन्तर्द्धानं गते विष्णौ वेनो राजा महामतिः
क्व गतो देवदेवेश इति चिन्तापरोऽभवत् ॥ १ ॥
मूलम्
अन्तर्द्धानं गते विष्णौ वेनो राजा महामतिः
क्व गतो देवदेवेश इति चिन्तापरोऽभवत् ॥ १ ॥
विश्वास-प्रस्तुतिः
हर्षेण महताविष्टश्चिन्तयित्वा नृपोत्तमः
समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः ॥ २ ॥
मूलम्
हर्षेण महताविष्टश्चिन्तयित्वा नृपोत्तमः
समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः ॥ २ ॥
विश्वास-प्रस्तुतिः
तमुवाच महात्मानं हर्षेण महता तदा
त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात् ॥ ३ ॥
मूलम्
तमुवाच महात्मानं हर्षेण महता तदा
त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात् ॥ ३ ॥
विश्वास-प्रस्तुतिः
नीत उज्ज्वलतां वत्स वंशो मे साम्प्रतं पृथो
मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः ॥ ४ ॥
मूलम्
नीत उज्ज्वलतां वत्स वंशो मे साम्प्रतं पृथो
मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः ॥ ४ ॥
विश्वास-प्रस्तुतिः
यजेहमश्वमेधेन दास्ये दानान्यनेकशः
विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः ॥ ५ ॥
मूलम्
यजेहमश्वमेधेन दास्ये दानान्यनेकशः
विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
सम्भरस्व महाभाग सम्भारांस्त्वं नृपोत्तम
आमन्त्रय महाभाग ब्राह्मणान्वेदपारगान् ॥ ६ ॥
मूलम्
सम्भरस्व महाभाग सम्भारांस्त्वं नृपोत्तम
आमन्त्रय महाभाग ब्राह्मणान्वेदपारगान् ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं पृथुः समादिष्टो वेनेनापि महात्मना
प्रत्युवाच महात्मा स वेनं पितरमादरात् ॥ ७ ॥
मूलम्
एवं पृथुः समादिष्टो वेनेनापि महात्मना
प्रत्युवाच महात्मा स वेनं पितरमादरात् ॥ ७ ॥
विश्वास-प्रस्तुतिः
कुरु राज्यं महाराज भुङ्क्ष्व भोगान्मनोनुगान्
दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम् ॥ ८ ॥
मूलम्
कुरु राज्यं महाराज भुङ्क्ष्व भोगान्मनोनुगान्
दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परम्
धनुरादाय पृथ्वीशः सबाणं यत्नपूर्वकम् ॥ ९ ॥
मूलम्
एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परम्
धनुरादाय पृथ्वीशः सबाणं यत्नपूर्वकम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
आदिदेश भटान्सर्वान्घोषध्वं भूतले मम
पापमेव न कर्तव्यं कर्मणा त्रिविधेन वै ॥ १० ॥
मूलम्
आदिदेश भटान्सर्वान्घोषध्वं भूतले मम
पापमेव न कर्तव्यं कर्मणा त्रिविधेन वै ॥ १० ॥
विश्वास-प्रस्तुतिः
करिष्यन्ति च यत्पापं आज्ञां वेनस्य भूपतेः
उल्लङ्घ्य वध्यतां सो हि यास्यते नात्र संशयः ॥ ११ ॥
मूलम्
करिष्यन्ति च यत्पापं आज्ञां वेनस्य भूपतेः
उल्लङ्घ्य वध्यतां सो हि यास्यते नात्र संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनम्
यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः ॥ १२ ॥
मूलम्
दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनम्
यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः ॥ १२ ॥
विश्वास-प्रस्तुतिः
एवं शिक्षां प्रदत्वासौ राज्यं भृत्येषु वेनजः
निःक्षिप्य च गतो विप्रास्तपसोर्थे तपोवनम् ॥ १३ ॥
मूलम्
एवं शिक्षां प्रदत्वासौ राज्यं भृत्येषु वेनजः
निःक्षिप्य च गतो विप्रास्तपसोर्थे तपोवनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान्
शतवर्षप्रमाणं वै निराहारो बभूव ह ॥ १४ ॥
मूलम्
सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान्
शतवर्षप्रमाणं वै निराहारो बभूव ह ॥ १४ ॥
विश्वास-प्रस्तुतिः
तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह
तपस्तपसि कस्मात्त्वं तन्मे त्वं कारणं वद ॥ १५ ॥
मूलम्
तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह
तपस्तपसि कस्मात्त्वं तन्मे त्वं कारणं वद ॥ १५ ॥
विश्वास-प्रस्तुतिः
पृथुरुवाच-
वेन एष महाप्राज्ञः पिता मे कीर्तिवर्द्धनः
समाचरति यः पापमस्य राज्ये नराधमः ॥ १६ ॥
मूलम्
पृथुरुवाच-
वेन एष महाप्राज्ञः पिता मे कीर्तिवर्द्धनः
समाचरति यः पापमस्य राज्ये नराधमः ॥ १६ ॥
विश्वास-प्रस्तुतिः
शिरश्छेत्ता भवत्वेष तस्य देवो जनार्दनः
अदृष्टैश्च महाचक्रैर्हरिः शास्ता भवेत्स्वयम् ॥ १७ ॥
मूलम्
शिरश्छेत्ता भवत्वेष तस्य देवो जनार्दनः
अदृष्टैश्च महाचक्रैर्हरिः शास्ता भवेत्स्वयम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
मनसा कर्मणा वाचा कर्तुं वाञ्छति पातकम्
तेषां शिरांसि त्रुट्यन्तु फलं पक्वं यथा द्रुमात् ॥ १८ ॥
मूलम्
मनसा कर्मणा वाचा कर्तुं वाञ्छति पातकम्
तेषां शिरांसि त्रुट्यन्तु फलं पक्वं यथा द्रुमात् ॥ १८ ॥
विश्वास-प्रस्तुतिः
एतदेव वरं मन्ये त्वत्तः शृणु सुरेश्वर
प्रजानां दोषभावेन न लिप्यति पिता मम ॥ १९ ॥
मूलम्
एतदेव वरं मन्ये त्वत्तः शृणु सुरेश्वर
प्रजानां दोषभावेन न लिप्यति पिता मम ॥ १९ ॥
विश्वास-प्रस्तुतिः
तथा कुरुष्व देवेश वरं दातुं यदीच्छसि
ददस्व उत्तमं कामं चतुर्मुखनमोऽस्तु ते ॥ २० ॥
मूलम्
तथा कुरुष्व देवेश वरं दातुं यदीच्छसि
ददस्व उत्तमं कामं चतुर्मुखनमोऽस्तु ते ॥ २० ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
एवमस्तु महाभाग पिता ते पूततां गतः
विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो ॥ २१ ॥
मूलम्
ब्रह्मोवाच-
एवमस्तु महाभाग पिता ते पूततां गतः
विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो ॥ २१ ॥
विश्वास-प्रस्तुतिः
एवं पृथुं समुद्दिश्य वरं दत्वा गतो विभुः
पृथुरेव समायातो राज्यकर्मणि संस्थितः ॥ २२ ॥
मूलम्
एवं पृथुं समुद्दिश्य वरं दत्वा गतो विभुः
पृथुरेव समायातो राज्यकर्मणि संस्थितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत्
यस्तु चिन्तयते पापं त्रिविधेनापि कर्मणा ॥ २३ ॥
मूलम्
वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत्
यस्तु चिन्तयते पापं त्रिविधेनापि कर्मणा ॥ २३ ॥
विश्वास-प्रस्तुतिः
शिरश्छेदो भवेत्तस्य यथाचक्रैर्निकृन्तितः
तदाप्रभृति वै पापं नैव कोपि समाचरेत् ॥ २४ ॥
मूलम्
शिरश्छेदो भवेत्तस्य यथाचक्रैर्निकृन्तितः
तदाप्रभृति वै पापं नैव कोपि समाचरेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः
सर्वलोकाः समाचारैः परिवर्तन्ति नित्यशः ॥ २५ ॥
मूलम्
इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः
सर्वलोकाः समाचारैः परिवर्तन्ति नित्यशः ॥ २५ ॥
विश्वास-प्रस्तुतिः
दानभोगैः प्रवर्तन्ते सर्वधर्मपरायणाः
सर्वसौख्यैः प्रवर्द्धन्ते प्रसादात्तस्य भूपतेः ॥ २६ ॥
मूलम्
दानभोगैः प्रवर्तन्ते सर्वधर्मपरायणाः
सर्वसौख्यैः प्रवर्द्धन्ते प्रसादात्तस्य भूपतेः ॥ २६ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने चतुर्विंशत्यधिक शततमोऽध्यायः १२४