सिद्ध उवाच-
विश्वास-प्रस्तुतिः
श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः
ज्ञानस्य नास्ति वै देहो हस्तौ पादौ च चक्षुषी ॥ १ ॥
मूलम्

नासाकर्णौ न ज्ञानस्य नास्ति चैवास्थिसङ्ग्रहः
केन दृष्टं तु वै ज्ञानं कानि लिङ्गानि तस्य वै ॥ २ ॥

आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित्
दिवाप्रकाशकः सूर्यो रात्रौ प्रकाशयेच्छशी ॥ ३ ॥

गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमी
तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ॥ ४ ॥

न विन्दन्ति हि मूढास्ते मोहिता विष्णुमायया
कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ॥ ५ ॥

तत्पदं तेन दृश्येत चन्द्रसूर्यादिभिर्न च
हस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम् ॥ ६ ॥

तस्य सर्वत्र गतिरस्ति सर्वं गृह्णाति पश्यति
सर्वमाघ्राति विप्रेन्द्र शृणोत्येवं न संशयः ॥ ७ ॥

नास्ति ज्ञानसमो दीपः सर्वान्धकारनाशने
स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ॥ ८ ॥

कायमध्ये स्थितं ज्ञानं न विन्दन्ति कुबुद्धयः
ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ॥ ९ ॥

प्राणिनां हृदये नित्यं निहितं सर्वदा द्विज
कामादीन्सुमहाभोगान्महामोहादिकांस्तथा ॥ १० ॥

विवेकवह्निना सर्वान्दिधक्षति सदैव यः
सर्वशान्तिमयोभूत्वा इन्द्रियार्थं प्रमर्द्दयेत् ॥ ११ ॥

ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम्
तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकम् ॥ १२ ॥

तस्माच्छान्तिं कुरुष्व त्वं सर्वसौख्यप्रवर्द्धिनीम्
समः शत्रौ च मित्रे च यथात्मनि तथापरे ॥ १३ ॥

भव स्वनियतो नित्यं जिताहारो जितेन्द्रियः
मैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेत् ॥ १४ ॥

निःसङ्गो निःस्पृहो भूत्वा एकान्तस्थानमाश्रितः
सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि ॥ १५ ॥

एकस्थानस्थितो वत्स त्रैलोक्ये यद्भविष्यति
वृत्तान्तं वेत्स्यसि त्वं तु मत्प्रसादान्न संशयः ॥ १६ ॥

कुञ्जल उवाच-
सिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशितम्
तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः ॥ १७ ॥

त्रैलोक्ये वर्त्तते यद्यदेकस्थाने स्थितो ह्यहम्
तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः ॥ १८ ॥

एतत्ते सर्वमाख्यातमात्मवृत्तान्तमेव हि
अन्यत्किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम ॥ १९ ॥

च्यवन उवाच-
कीरयोनिं कथं प्राप्तो भवाञ्ज्ञानवतां वरः
तन्मे त्वं कारणं ब्रूहि सर्वसन्देहनाशनम् ॥ २० ॥

संसर्गाज्जायते पापं संसर्गात्पुण्यमेव हि
तस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च ॥ २१ ॥

लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः
बन्धयित्वा समानीतो विक्रयार्थं समुद्यतः ॥ २२ ॥

चाटुकांर सुरूपं तं पटुवाक्यं समीक्ष्य च
गृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः ॥ २३ ॥

ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तम
समे बालस्वभावेन कौतुकात्करसंस्थितः ॥ २४ ॥

तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तम
शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः ॥ २५ ॥

मामेवं वदते सोपि ताततातेति आस्यताम्
स्नातुं गच्छ महाभाग देवमर्चय साम्प्रतम् ॥ २६ ॥

इत्यादिचाटुकैर्वाक्यैर्मामेवं परिभाषयेत्
तस्यवाक्यविनोदेन विस्मृतं ज्ञानमुत्तमम् ॥ २७ ॥

पुष्पार्थं फलभोगार्थं गतोहं वनमेव च
नीतः शुको बिडालेन मम दुःखस्य हेतवे ॥ २८ ॥

मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिः
बिडालेन हतः पक्षी तेनैव भक्षितो हि सः ॥ २९ ॥

श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम्
महता दुःखभावेन असुखेनातिदुःखितः ॥ ३० ॥

तस्य दुःखेन मुग्धोस्मि तीव्रेणापि सुपीडितः
महता मोहजालेन बद्धोऽहं द्विजपुङ्गव ॥ ३१ ॥

प्रालपं रामचन्द्रेति शुकराजेति पण्डित
श्लोकराजेति तं विप्र मोहाच्चलितमानसः ॥ ३२ ॥

ततोऽहं दुःखसन्तप्तः सञ्जातः स्वेनकर्मणा
वियोगेनापि विप्रेन्द्र शुकस्य शृणु साम्प्रतम् ॥ ३३ ॥

विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम्
संस्मरञ्छोकसन्तप्तस्तं शुकं चाटुकारकम् ॥ ३४ ॥

वत्सवत्सेति नित्यं वै प्रलपञ्छृणु भार्गव
गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ॥ ३५ ॥

त्वां विना कश्च मां वत्स बोधयिष्यति साम्प्रतम्
कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम् ॥ ३६ ॥

अस्मिन्सुनिर्जनोद्याने विहाय क्व गतो भवान्
केन दोषेण लिप्तोस्मि तन्मे कथय साम्प्रतम् ॥ ३७ ॥

एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः
एवमादि प्रलप्याहं शोकेनापि सुपीडितः ॥ ३८ ॥

मृतोहं तेन मोहेन तद्भावेनापि मोहितः
मरणे यादृशो भावो मतिश्चासीच्च यादृशी ॥ ३९ ॥

तादृशेनापि भावेन जातोऽहं द्विजसत्तम
गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ॥ ४० ॥

स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितम्
मया पापेन मूढेन किं कृतं ह्यकृतात्मना ॥ ४१ ॥

गर्भयोगसमारूढः पुनस्तं चिन्तयाम्यहम्
तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकम् ॥ ४२ ॥

गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमम्
तस्यवाक्योदकैः स्वच्छैः कायस्य मलमेव च ॥ ४३ ॥

सबाह्याभ्यन्तरं विप्र क्षालितं निर्मलं कृतम्
तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ॥ ४४ ॥

शुकस्य ध्यानभावेन मरणे समुपस्थिते
तस्मिन्काले मृतो विप्र तद्भावेनापि भावितः ॥ ४५ ॥

तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले
मरणे यादृशो भावः प्राणिनां परिजायते ॥ ४६ ॥

तादृशाः स्युस्तु सत्वास्ते तद्रूपास्तत्परायणाः
तद्गुणास्तत्स्वरूपास्ते भावभूता भवन्ति हि ॥ ४७ ॥

मृत्यकालस्य विप्रेन्द्र भावेनापि न संशयः
अतुलं प्राप्तवाञ्ज्ञानमहमत्र महामते ॥ ४८ ॥

तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यति
वर्तमानं महाप्राज्ञ ज्ञानेनापि महामते ॥ ४९ ॥

सर्वं विदाम्यहं ह्यत्र संस्थितोपि न संशयः
तारणाय मनुष्याणां संसारे परिवर्तताम् ॥ ५० ॥

नास्ति तीर्थं गुरुसमं बन्धच्छेदकरं द्विज
एतत्ते सर्वमाख्यातं शृणु भार्गवनन्दन ॥ ५१ ॥

यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितम्
स्थलजाच्चोदकात्सर्वं बाह्यं मलं प्रणश्यति ॥ ५२ ॥

जन्मान्तरकृतान्पापान्गुरुतीर्थं प्रणाशयेत्
संसारतारणायैव जङ्गमं तीर्थमुत्तमम् ॥ ५३ ॥

विष्णुरुवाच-
शुक एवं महाप्राज्ञश्च्यवनाय महात्मने
तत्त्वं प्रकाशयित्वा तु विरराम नृपोत्तम ॥ ५४ ॥

एतत्ते सर्वमाख्यातं जङ्गमं तीर्थमुत्तमम्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥ ५५ ॥

वेन उवाच-
नाहं राज्यस्य कामार्थी नान्यत्किञ्चित्प्रकामये
सदेहो गन्तुमिच्छामि तव कायं जनार्दन ॥ ५६ ॥

एवं वरमहं मन्ये यदि दातुमिहेच्छसि
विष्णुरुवाच-
यज त्वमश्वमेधेन राजसूयेन भूपते ॥ ५७ ॥
मूलम्
एवं वरमहं मन्ये यदि दातुमिहेच्छसि
विष्णुरुवाच-
यज त्वमश्वमेधेन राजसूयेन भूपते ॥ ५७ ॥
विश्वास-प्रस्तुतिः
गो भू स्वर्णाम्बुधान्यानां कुरु दानं महामते
दानान्नश्यति वै पापं ब्रह्मवध्यादिघोरकम् ॥ ५८ ॥

चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयः
तस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते ॥ ५९ ॥

यादृशेनापि भावेन मामुद्दिश्य ददाति यः
तादृशं तस्य वै भावं सत्यमेवं करोम्यहम् ॥ ६० ॥

ऋषीणां दर्शनात्स्पर्शाद्भ्रष्टस्ते पापसञ्चयः
आगमिष्यसि यज्ञान्ते मम देहं न संशयः ॥ ६१ ॥

एवमाभाष्य तं वेनमन्तर्द्धानं गतो हरिः ६२