१२२

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

कुञ्जलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्प्रति
विरराम महाप्राज्ञः किञ्चिन्नोवाच तान्प्रति ॥ १ ॥

मूलम्

वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम्
को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते ॥ २ ॥

किं वा देवोऽथ गन्धर्वः किं वा विद्याधरो भवान्
कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम् ॥ ३ ॥

कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक
सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ॥ ४ ॥

किं वा च्छन्नेन रूपेण अनेनापि महामते
कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम् ॥ ५ ॥

कुञ्जल उवाच-
भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम्
विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम् ॥ ६ ॥

सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत
उपविश्यासने पुण्ये छायामाश्रयशीतलाम् ॥ ७ ॥

अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः
ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः ॥ ८ ॥

भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित्
तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि ॥ ९ ॥

नाहं देवो न गन्धर्वो नाहं विद्याधरः पुनः
योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १० ॥

कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः
वेदवेदाङ्गतत्त्वज्ञः सर्वकर्मप्रकाशकः ॥ ११ ॥

विद्याधरेति विख्यातः कुलशीलगुणैर्युतः
राजमानः श्रिया विप्र आचारैस्तपसा तदा ॥ १२ ॥

सम्बभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः
वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः ॥ १३ ॥

तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः
वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः ॥ १४ ॥

आचारेण सुसम्पन्नो विद्यादिसुगुणैः पुनः
नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः ॥ १५ ॥

अहमेको महामूर्खः सञ्जातः शृणु सत्तम
विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा ॥ १६ ॥

न शृणोमि न वै यामि गुरुगेहमनुत्तमम्
ततस्तु जनको मे तु मामेवं परिचिन्तयेत् ॥ १७ ॥

धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम्
सञ्जातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः ॥ १८ ॥

इति सञ्चिन्त्य धर्मात्मा मामुवाच सुदुःखितः
व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय ॥ १९ ॥

एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम्
नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् ॥ २० ॥

यत्र वै ताडनं नित्यं भ्रूभङ्गादि च क्रोशनम्
अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम ॥ २१ ॥

दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम्
तस्माद्दुःखमयं तात न यास्ये गुरुमन्दिरम् ॥ २२ ॥

विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः
भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः ॥ २३ ॥

डिम्भैः सार्द्धं सुखेनापि दिवारात्रमतन्द्रितः
मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः ॥ २४ ॥

विद्याधर उवाच-
मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु
विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला ॥ २५ ॥

ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय
पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा ॥ २६ ॥

तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज
पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने ॥ २७ ॥

यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम्
उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम् ॥ २८ ॥

मम लज्जा समुत्पन्ना जीवनाशकरी तदा
विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम् ॥ २९ ॥

इति चिन्तापरो जातो दुःखशोकसमाकुलः
कथं विद्यामहं जाने कथं विन्दाम्यहं गुणान् ॥ ३० ॥

कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम्
इत्येवं चिन्तयन्विप्र वार्द्धक्यमगमं पुनः ॥ ३१ ॥

देवतायतने दुःखी उपविष्टस्त्वहं कदा
मद्भाग्यैः प्रेरितः कश्चित्सिद्ध एकः समागतः ॥ ३२ ॥

निराश्रयो जिताहारः सदानन्दस्तु निःस्पृहः
एकान्तमास्थितो विप्र योगयुक्तो जितेन्द्रियः ॥ ३३ ॥

परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान्
तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ॥ ३४ ॥

अहं शुद्धेन भावेन भक्त्या नमितकन्धरः
नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ॥ ३५ ॥

दीनरूपो ह्यहं जातो मन्दभाग्यस्तथा पुनः
तेनाहं पृच्छितो विप्र कस्माद्भवान्प्रशोचति ॥ ३६ ॥

केनाभिप्रायभावेन दुःखमेव भुनक्ति वै
तेनेत्युक्तोस्मि विप्रेन्द्र ज्ञानिना योगिना तदा ॥ ३७ ॥

सुमूढेन मया तस्य पूर्ववृत्तान्तमेव हि
तमेवं श्रावितं सर्वं सर्वज्ञत्वं कथं व्रजेत् ॥ ३८ ॥

एतदर्थं महादुःखी भवान्मम गतिः सदा
स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम् ३९