१२१

कामोदोवाच-

विश्वास-प्रस्तुतिः

न विदुर्देवताः सर्वा यस्यान्तं रूपमेव च
यस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते ॥ १ ॥

मूलम्

यस्या मायाप्रपञ्चस्तु संसारः शृणु नारद
कस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः ॥ २ ॥

पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिः
संसारं सरते विप्र हरिः कस्माद्व्रजेद्वद ॥ ३ ॥

नारद उवाच-
शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा
भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ॥ ४ ॥

इन्द्रस्य वचनात्सद्यो गतोऽसौ दानवैः सह
योद्धुं विहाय गोविन्दो भृगोश्चैव मखोत्तमम् ॥ ५ ॥

मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैः
आगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः ॥ ६ ॥

हरिं क्रुद्धः स योगीन्द्रः शशाप भृगुरेव तम्
दशजन्मानि भुङ्क्ष्व त्वं मच्छापकलुषीकृतः ॥ ७ ॥

कर्मणः स्वस्य सम्भोगं सम्भोक्ष्यति जनार्दनः
तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः ॥ ८ ॥

इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः
कृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा ॥ ९ ॥

रुरोद करुणं बाला हाहेति वदती मुहुः
गङ्गातीरोपविष्टा सा जलान्ते शृणु नन्दन ॥ १० ॥

सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुञ्चति
तान्यश्रूणि प्रमुक्तानि गङ्गातोये पतन्त्यपि ॥ ११ ॥

जले चैव निमज्जन्ति तस्याश्चाप्यश्रुबिन्दवः
सम्भवन्ति पुनस्तात पद्मरूपाणि तानि च ॥ १२ ॥

गङ्गातोये प्रफुल्लानि वाहितानि प्रयान्ति वै
ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः ॥ १३ ॥

दुःखजानि न जानाति मुनिना कथितान्यपि
हर्षेण महताविष्टः परिजग्राह सोऽसुरः ॥ १४ ॥

पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम्
सप्तकोटिभिर्दैत्येन्द्रो विष्णुमायाप्रमोहितः ॥ १५ ॥

अथ क्रुद्धा जगद्धात्री शङ्करं वाक्यमब्रवीत्
पश्यैतस्य विकर्म त्वं दानवस्य महामते ॥ १६ ॥

शोकोत्पन्नानि पद्मानि गङ्गातोयगतानि वै
अयमेष प्रगृह्णाति कामाकुलितचेतनः ॥ १७ ॥

मूलम्

शोकोत्पन्नानि पद्मानि गङ्गातोयगतानि वै
अयमेष प्रगृह्णाति कामाकुलितचेतनः ॥ १७ ॥

विश्वास-प्रस्तुतिः

पूजयेच्चापि दुष्टात्मा शोकसन्तापकारकैः
दुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत् ॥ १८ ॥

यादृशेनापि भावेन मामेव परिपूजयेत्
तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति ॥ १९ ॥

सत्यध्यानविहीनोयं कामोदा न्यस्तमानसः
सञ्जातः पापचारित्रो जहि देवि स्वतेजसा ॥ २० ॥

एवमाकर्ण्य तद्वाक्यं शम्भोश्चैव महात्मनः
अस्यैव सङ्क्षयं शम्भो करिष्ये तव शासनात् ॥ २१ ॥

एवमुक्त्वा ततो देवी तस्यापि वधकाङ्क्षया
वर्त्तते हि विहुण्डस्य वधोपायं व्यचिन्तयत् ॥ २२ ॥

कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः
पूजयेच्छङ्करं नाथं सुपुष्पैः पारिजातजैः ॥ २३ ॥

समेत्य दानवः पापो दिव्यां पूजां विनाशयेत्
कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः ॥ २४ ॥

विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः
सस्मार दानवः पापः कामबाणैः प्रपीडितः ॥ २५ ॥

तस्याः स्मरणमात्रेण कन्दर्पेण बलीयसा
विरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः ॥ २६ ॥

कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः
परिगृह्य समायातः पूजनार्थी महेश्वरम् ॥ २७ ॥

देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैः
तां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत् ॥ २८ ॥

नेत्राभ्यां तस्य दुष्टस्य बिन्दवस्तेऽश्रुसम्भवाः
अविरलास्ततो वत्स पतन्ति लिङ्गमस्तके ॥ २९ ॥

देवी ब्राह्मणरूपेण तमुवाच महामते
को भवान्पूजयेद्देवं शोकाकुलमनाः सदा ॥ ३० ॥

पतन्त्यश्रूणि देवस्य मस्तके शोकजानि ते
अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ॥ ३१ ॥

विहुण्ड उवाच-
पूर्वं दृष्टा मया नारी सर्वसौभाग्यसम्पदा
सर्वलक्षणसम्पन्ना कामस्यायतनं महत् ॥ ३२ ॥

तस्या मोहेन सन्दग्धः कामेनाकुलतां गतः
तया प्रोक्तं हि सम्भोगे देहि मे दायमुत्तमम् ॥ ३३ ॥

कामोदसम्भवैः पुष्पैः पूजयस्व महेश्वरम्
तेषां पुष्पकृतां मालां मम कण्ठे परिक्षिप ॥ ३४ ॥

कोटिभिः सप्तसङ्ख्यातैः पूजयस्व महेश्वरम्
तदर्थं पूजयाम्येव ईश्वरं फलदायकम् ॥ ३५ ॥

कामोदसम्भवैः पुष्पैर्दुर्लभैर्देवदानवैः
श्रीदेव्युवाच-
क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः ॥ ३६ ॥

ईश्वरस्यापि सम्बन्धो नास्ति किञ्चित्त्वयैव हि
कामोदाया वरं रूपं कीदृशं वद साम्प्रतम् ॥ ३७ ॥

क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च
विहुण्ड उवाच-
भावं ध्यानं न जानामि न दृष्टा सा मया कदा ॥ ३८ ॥

गङ्गातोयगतान्येव परिगृह्णामि नित्यशः
तैरहं पूजयाम्येकं शङ्करं प्रवदाम्यहम् ॥ ३९ ॥

ममाग्रे कथितं विप्र शुक्रेणापि महात्मना
वचनात्तस्य देवेशमर्चयामि दिनदिने ॥ ४० ॥

मूलम्

ममाग्रे कथितं विप्र शुक्रेणापि महात्मना
वचनात्तस्य देवेशमर्चयामि दिनदिने ॥ ४० ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि साम्प्रतम्
श्रीदेव्युवाच-
कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसम्भवैः ॥ ४१ ॥

लिङ्गमर्चयसे दुष्ट प्रभाते नित्यमेव च
यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया ॥ ४२ ॥

अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि
दिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि ॥ ४३ ॥

असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः
तस्माद्दण्डं प्रदास्यामि भुङ्क्ष्व स्वकर्मजं फलम् ॥ ४४ ॥

तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम्
रे रे दुष्ट दुराचार मम कर्मप्रदूषक ॥ ४५ ॥

हन्मि त्वामिह खड्गेन अनेनापि न संशयः
इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे ॥ ४६ ॥

हन्तुकामः स दुष्टात्मा अभ्यधावत दानवः
सा देवी विप्ररूपेण सङ्क्रुद्धा परमेश्वरी ॥ ४७ ॥

स्वस्थानमागतं दृष्ट्वा हुङ्कारं विससर्ज ह
तेन हुङ्कारनादेन पतितो दानवाधमः ॥ ४८ ॥

निश्चेष्टः कामरूपेण वज्राहत इवाचलः
पतिते दानवे तस्मिन्सर्वलोकविनाशके ॥ ४९ ॥

लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः
एतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति ॥ ५० ॥

गङ्गातीरे वरारोहा दुःखव्याकुलमानसा
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ ५१ ॥

विष्णुरुवाच-
एवमुक्त्वा सुपुत्रं तं कुञ्जलो अण्डजेश्वरः
विरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते ॥ ५२ ॥