१२०

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम्
सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः ॥ १ ॥

मूलम्

कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः
कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम् ॥ २ ॥

तया सम्पूजितो विप्रः सुवाक्यैः स्वागतादिभिः
दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः ॥ ३ ॥

सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे
अनामयं च पप्रच्छ आशीर्भिरभिनन्द्य ताम् ॥ ४ ॥

कामोदोवाच-
प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम्
कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम् ॥ ५ ॥

महामोहः समुत्पन्नो ममाङ्गे मुनिपुङ्गव
व्यापकः सर्वलोकानां ममाङ्गे मतिनाशकः ॥ ६ ॥

तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते
सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने ॥ ७ ॥

केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम
अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति ॥ ८ ॥

तदा प्रभृति दुःखेन व्यापिताहं महामते
तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः ॥ ९ ॥

नारद उवाच-
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः ॥ १० ॥

न जायते च देवेषु स्वप्नो निद्रा च सुन्दरि
आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः ॥ ११ ॥

सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः
अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे ॥ १२ ॥

महावातान्दोलनैश्च चलन्त्यापो वरानने
त्रुटन्त्यम्बुकणाः सूक्ष्मास्तस्मादुदकसञ्चयात् ॥ १३ ॥

बहिरेव पतन्त्येते निर्मलाम्बुकणाः शुभे
पुनर्लयं प्रयान्त्येते दृश्यादृश्या भवन्ति वै ॥ १४ ॥

तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि
आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः ॥ १५ ॥

पञ्चभूतात्मकानां च मुषित्वैव सुनिश्चलः
षड्विंशतिसु तत्वानां मध्ये चैष विराजते ॥ १६ ॥

शुद्धात्मा केवलो नित्यः प्रकृतेः सङ्गतिं गतः
तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा ॥ १७ ॥

आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते
अन्तरात्मा शुभं नाम तस्य एव प्रकथ्यते ॥ १८ ॥

पयसश्च यथा भिन्ना भवन्त्यम्बुकणाः शुभे
आत्मनस्तु तथा तेज अन्तरात्मा प्रकथ्यते ॥ १९ ॥

स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि
स वै तोयं स दीप्येत एते पञ्च पुरा कृताः ॥ २० ॥

आत्मनस्तेजसो भूता मलरूपा महात्मनः
तस्यापि सङ्गतिं प्राप्ता एकत्वं हि प्रयान्ति ते ॥ २१ ॥

स्वात्मभावप्रदोषेण नाशयन्ति वरानने
तत्पिण्डमन्यमिच्छन्ति वारं वारं वरानने ॥ २२ ॥

तेषां क्रीडाविहारोयं सृष्टिसम्बन्धकारणम्
उदकस्य तरङ्गस्तु जायते च विलीयते ॥ २३ ॥

पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः
अपां रूपस्य दृष्टान्तं तद्वदेषां न संशयः ॥ २४ ॥

आत्मा न नश्यते देवि तेजो वायुर्न नश्यति
न नश्यतो धराकाशौ न नश्यन्त्याप एव च ॥ २५ ॥

पञ्चैव आत्मना सार्द्धं प्रभवन्ति प्रयान्ति च
आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः ॥ २६ ॥

पिण्ड एव प्रणश्येत तेषां सञ्जात एव च
विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः ॥ २७ ॥

प्राणाः प्रयान्ति वै पिण्डात्पञ्चपञ्चात्मका द्विज
पिण्डान्ते वसते आत्मा प्रतिरूपस्तु तस्य च ॥ २८ ॥

अन्तरात्मा यथा चाग्नेः स्फुलिङ्गस्तु प्रकाशते
तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते ॥ २९ ॥

शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः
अन्तरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः ॥ ३० ॥

अन्नाहारेण सम्पुष्टैरन्तरात्मा सुखं व्रजेत्
सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति ॥ ३१ ॥

पश्चात्सञ्जायते निद्रा तामसी लयवर्द्धिनी
नाडीमार्गेण यः सूर्यो मेरुमुल्लङ्घ्य गच्छति ॥ ३२ ॥

तदा रात्रिः प्रजायेत यावन्नोदयते रविः
विषयान्धकारैर्मुक्तस्तु अन्तरात्मा प्रकाशते ॥ ३३ ॥

भावैस्तत्त्वात्मकानां तु पञ्चतत्त्वैः प्रपोषितैः
पूर्वजन्मस्थितैः पिण्डैरन्तरात्मा प्रगृह्यते ॥ ३४ ॥

स यास्यति च वै स्थानमुच्चावचं महामते
संसार अन्तरात्मा वै दोषैर्बद्धः प्रणीयते ॥ ३५ ॥

कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः
उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते ॥ ३६ ॥

शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता
तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात् ॥ ३७ ॥

आत्मनस्तु प्रभावेण उदानो बलवान्भवेत्
एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते ॥ ३८ ॥

ततो निद्रा महामाया तस्याङ्गेषु प्रयाति सा
हृदि कण्ठे तथा चास्ये नासिकाग्रे प्रतिष्ठति ॥ ३९ ॥

बाहू सङ्कुच्य सन्तिष्ठेद्धृद्गतो नाभिमण्डले
आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः ॥ ४० ॥

प्रजायते महातीव्रा बलरोधं करोति सः
यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः ॥ ४१ ॥

तथा चात्मासु संलग्नः प्राणवायुर्न संशयः
अन्तरात्मप्रसक्तस्तु प्राणवायुः शुभानने ॥ ४२ ॥

बुद्धिवद्रोहितो भद्रे अन्तरात्मा प्रधावति
पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति ॥ ४३ ॥

तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः
एवं नानाविधान्स्वप्नानन्तरात्मा प्रपश्यति ॥ ४४ ॥

उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति
गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति ॥ ४५ ॥

तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम्
जलं नदीं तडागं च पयः स्थानानि पश्यति ॥ ४६ ॥

अग्निं च पश्यते देवि बहुकाञ्चनमुत्तमम्
तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम् ॥ ४७ ॥

प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च
कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः ॥ ४८ ॥

स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि
तद्भाव्यञ्चवरारोहेविष्णोश्चैवभविष्यति ॥ ४९ ॥

तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः ॥ ५० ॥