११९

एकोनविंशत्यधिकशततमोऽध्यायः

विश्वास-प्रस्तुतिः

कपिञ्जल उवाच-
यस्याः प्रहसनात्तात सुहृद्यानि भवन्ति वै
पुष्पाणि दिव्यगन्धीनि दुर्लभानि सुरासुरैः ॥ १ ॥

मूलम्

कस्मात्तु देवताः सर्वाः प्रवाञ्छन्ति महामते
शङ्करः सुखमायाति हास्यपुष्पैः सुपूजितः ॥ २ ॥

को गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्
कामोदा सा भवेत्का तु कस्य पुत्री वराङ्गना ॥ ३ ॥

हास्यात्तस्या महाभाग सुपुष्पाणि भवन्ति च
को गुणस्तत्कथां ब्रूहि सकलां विस्तरेण च ॥ ४ ॥

कुञ्जल उवाच-
पुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम्
ममन्थुः सागरं क्षीरममृतार्थं समुद्यताः ॥ ५ ॥

मथनाद्देवदैत्यानां कन्यारत्नचतुष्टयम्
वरुणेन दर्शितं पूर्वं सोमेनैव तथा पुनः ॥ ६ ॥

पश्चात्सन्दर्शितं पुण्यममृतं कलशे स्थितम्
कन्या चतुष्टयं पूर्वं देवानां हितमिच्छति ॥ ७ ॥

सुलक्ष्मीर्नाम सा चैका द्वितीया वारुणी तथा
ज्येष्ठा नाम तथा ख्याता कामोदान्या प्रचक्षते ॥ ८ ॥

तासां मध्ये वरा श्रेष्ठा पूर्वं जाता महामते
तस्माज्ज्येष्ठेति विख्याता लोके पूज्या सदैव हि ॥ ९ ॥

वारुणीपानरूपा च पयःफेनसमुद्भवा
अमृतस्य तरङ्गाच्च कामोदाख्या बभूव ह ॥ १० ॥

सोमो राजा तथा लक्ष्मीर्जज्ञाते अमृतादपि
त्रैलोक्यभूषणः सोमः सञ्जातः शङ्करप्रियः ॥ ११ ॥

मृत्युरोगहरा जाता सुराणां वारुणी तथा
ज्येष्ठासु पुण्यदा जाता लोकानां हितमिच्छताम् ॥ १२ ॥

अमृतादुत्थिता देवी कामोदा नाम पुण्यदा
विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति ॥ १३ ॥

विष्णुप्रीतिकरी सा तु भविष्यति सदैव हि
तुलसी नाम सा पुण्या भविष्यति न संशयः ॥ १४ ॥

तया सह जगन्नाथो रमिष्यति न संशयः
तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति ॥ १५ ॥

मेने तस्योपकाराणां किमस्मै च ददाम्यहम्
इत्येवं चिन्तयेन्नित्यं तस्य प्रीतिकरो भवेत् ॥ १६ ॥

एवं कामोद नामासौ पूर्वं जाता समुद्रजा
यदा सा हसते देवी हर्षगद्गदभाषिणी ॥ १७ ॥

मूलम्

एवं कामोद नामासौ पूर्वं जाता समुद्रजा
यदा सा हसते देवी हर्षगद्गदभाषिणी ॥ १७ ॥

विश्वास-प्रस्तुतिः

सौहृद्यानि सुगन्धीनि मुखात्तस्याः पतन्ति वै
अम्लानानि सुपुष्पाणि यो गृह्णाति समुद्यतः ॥ १८ ॥

पूजयेच्छङ्करं देवं ब्रह्माणं माधवं तथा
तस्य देवाः प्रतुष्यन्ति यदिच्छति ददन्ति तत् ॥ १९ ॥

रोदित्येषा यदा सा च केन दुःखेन दुःखिता
नेत्राश्रुभ्यो हि तस्यास्तु प्रभवन्ति पतन्ति च ॥ २० ॥

तानि चैव महाभाग हृद्यानि सुमहान्ति च
सौरभेण विना तैस्तु यः पूजयति शङ्करम् ॥ २१ ॥

तस्य दुःखं च सन्तापो जायते नात्र संशयः
पुष्पैस्तु तादृशैर्देवान्सकृदर्चति पापधीः ॥ २२ ॥

तस्य दुःखं प्रकुर्वन्ति देवास्तत्र न संशयः
एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् ॥ २३ ॥

अथ कृष्णो विचिन्त्यैव दृष्ट्वा विक्रमसाहसम्
विहुण्डस्यापि पापस्य उद्यमं साहसं तदा ॥ २४ ॥

नारदं प्रेषयामास मोहयैनं दुरासदम्
नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः ॥ २५ ॥

गच्छमानं दुरात्मानं कामोदां प्रति दानवम्
गत्वा तमाह दैत्येन्द्रं नारदः प्रहसन्निव ॥ २६ ॥

क्व यासि त्वं च दैत्येन्द्र सत्वरं च समातुरः
साम्प्रतं केन कार्येण कस्यार्थं केन नोदितः ॥ २७ ॥

ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृताञ्जलि
कामोदपुष्पार्थमहं प्रस्थितो द्विजसत्तम ॥ २८ ॥

तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम्
विप्रवर्यं पुनः प्राह कार्यकारणमात्मनः ॥ २९ ॥

नन्दनस्य वनोद्देशे काचिन्नारी वरानना
तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ॥ ३० ॥

तया प्रोक्तोऽस्मि विप्रेन्द्र पुष्पैः कामोदसम्भवैः
पूजयस्व महादेवं पुष्पैस्तु सप्तकोटिभिः ॥ ३१ ॥

ततस्ते सुप्रिया भार्या भविष्यामि न संशयः
तदर्थे प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ॥ ३२ ॥

तामहं कामयिष्यामि सिन्धुजां शुणु साम्प्रतम्
मनोल्लासैर्महाहासैर्हासयिष्याम्यहं पुनः ॥ ३३ ॥

प्रीता सती महाभागा हसिष्यति पुनः पुनः
तद्धास्यं गद्गदं विप्र मम कार्यप्रवर्द्धनम् ॥ ३४ ॥

तस्माद्धास्यात्पतिष्यन्ति दिव्यानि कुसुमानि च
तैस्तु देवमुमाकान्तं पूजयिष्यामि साम्प्रतम् ॥ ३५ ॥

तेन पूजाप्रदानेन तुष्टो दास्यति मे फलम्
ईश्वरः सर्वभूतेशः शङ्करो लोकभावनः ॥ ३६ ॥

नारद उवाच-
तत्र दैत्य न गन्तव्यं कामोदाख्ये पुरोत्तमे
विष्णुरस्ति सुमेधावी सर्वदैत्यक्षयावहः ॥ ३७ ॥

येनोपायेन पुष्पाणि कामोदाख्यानि दानव
तव हस्ते प्रयास्यन्ति तमुपायं वदाम्यहम् ॥ ३८ ॥

गङ्गातोयेषु दिव्यानि पतिष्यन्ति न संशयः
वाहितानि जलैर्दिव्यैरागमिष्यन्ति साम्प्रतम् ॥ ३९ ॥

तानि त्वं तु प्रतिगृहाण सुहृद्यानि महान्ति च
गृहीत्वा तानि पुष्पाणि साधयस्व मनीप्सितम् ॥ ४० ॥

नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः
ततश्च स तु धर्मात्मा चिन्तयामास वै पुनः ॥ ४१ ॥

कथमश्रूणि सा मुञ्चेत्केनोपायेन दुःखिता
चिन्तयानस्य तस्यैवं क्षणं वै नारदस्य च ॥ ४२ ॥

ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ॥ ४३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकोनविंशत्यधिकशततमोऽध्यायः ११९