कपिञ्जल उवाच-
विश्वास-प्रस्तुतिः
गङ्गामुखे पुरा तात रोदमाना वराङ्गना
नेत्राभ्यामश्रुबिन्दूनि पतन्ति च महाजले ॥ १ ॥
मूलम्
गङ्गामुखे पुरा तात रोदमाना वराङ्गना
नेत्राभ्यामश्रुबिन्दूनि पतन्ति च महाजले ॥ १ ॥
विश्वास-प्रस्तुतिः
गङ्गामध्ये निमज्जन्ति भवन्ति कमलानि च
पुष्पाणि दिव्यरूपाणि सौगन्धानि महान्ति च ॥ २ ॥
मूलम्
गङ्गामध्ये निमज्जन्ति भवन्ति कमलानि च
पुष्पाणि दिव्यरूपाणि सौगन्धानि महान्ति च ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतन्ति च
गङ्गोदके महाभाग निर्मला अश्रुबिन्दवः ॥ ३ ॥
मूलम्
तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतन्ति च
गङ्गोदके महाभाग निर्मला अश्रुबिन्दवः ॥ ३ ॥
विश्वास-प्रस्तुतिः
अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः
तानि सौगन्धयुक्तानि पद्मानि विचिनोति सः ॥ ४ ॥
मूलम्
अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः
तानि सौगन्धयुक्तानि पद्मानि विचिनोति सः ॥ ४ ॥
विश्वास-प्रस्तुतिः
हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत्
सा का नारी समाचक्ष्व स वा को हि महामते ॥ ५ ॥
मूलम्
हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत्
सा का नारी समाचक्ष्व स वा को हि महामते ॥ ५ ॥
विश्वास-प्रस्तुतिः
अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति
एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव ॥ ६ ॥
मूलम्
अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति
एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव ॥ ६ ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
शृणु वत्स प्रवक्ष्यामि वृत्तान्तं देवनिर्मितम्
चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः ॥ ७ ॥
मूलम्
कुञ्जल उवाच-
शृणु वत्स प्रवक्ष्यामि वृत्तान्तं देवनिर्मितम्
चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः ॥ ७ ॥
विश्वास-प्रस्तुतिः
योसौ हुण्डो महावीर्यो नहुषेण हतो रणे
तस्य पुत्रस्तु विख्यातो विहुण्डस्तप आस्थितः ॥ ८ ॥
मूलम्
योसौ हुण्डो महावीर्यो नहुषेण हतो रणे
तस्य पुत्रस्तु विख्यातो विहुण्डस्तप आस्थितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम्
आयुपुत्रेण वीरेण नहुषेण बलीयसा ॥ ९ ॥
मूलम्
निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम्
आयुपुत्रेण वीरेण नहुषेण बलीयसा ॥ ९ ॥
विश्वास-प्रस्तुतिः
तपस्तपति सक्रोधाद्देवान्हन्तुं समुद्यतः
पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च ॥ १० ॥
मूलम्
तपस्तपति सक्रोधाद्देवान्हन्तुं समुद्यतः
पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च ॥ १० ॥
विश्वास-प्रस्तुतिः
जानन्ति देवताः सर्वा दुःसहं समराङ्गणे
हुण्डात्मजो विहुण्डस्तु त्रैलोक्यं हन्तुमुद्यतः ॥ ११ ॥
मूलम्
जानन्ति देवताः सर्वा दुःसहं समराङ्गणे
हुण्डात्मजो विहुण्डस्तु त्रैलोक्यं हन्तुमुद्यतः ॥ ११ ॥
विश्वास-प्रस्तुतिः
पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान्
एवं समुद्यतः पापी देवब्राह्मणकण्टकः ॥ १२ ॥
मूलम्
पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान्
एवं समुद्यतः पापी देवब्राह्मणकण्टकः ॥ १२ ॥
विश्वास-प्रस्तुतिः
उपद्रवं समारेभे प्रजाः पीडयते च सः
तस्यैव तेजसा दग्धा देवाश्चेन्द्रपुरोगमाः ॥ १३ ॥
मूलम्
उपद्रवं समारेभे प्रजाः पीडयते च सः
तस्यैव तेजसा दग्धा देवाश्चेन्द्रपुरोगमाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः
देवदेवं जगन्नाथं शङ्खचक्रगदाधरम् ॥ १४ ॥
मूलम्
शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः
देवदेवं जगन्नाथं शङ्खचक्रगदाधरम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
ऊचुश्च पाहि नो नित्यं विहुण्डस्य महाभयात्
श्रीविष्णुरुवाच-
वर्द्धन्तु देवताः सर्वाः सुसुखेन महेश्वराः ॥ १५ ॥
मूलम्
ऊचुश्च पाहि नो नित्यं विहुण्डस्य महाभयात्
श्रीविष्णुरुवाच-
वर्द्धन्तु देवताः सर्वाः सुसुखेन महेश्वराः ॥ १५ ॥
विश्वास-प्रस्तुतिः
विहुण्डं नाशयिष्यामि पापिष्ठं देवकण्टकम्
एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः ॥ १६ ॥
मूलम्
विहुण्डं नाशयिष्यामि पापिष्ठं देवकण्टकम्
एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्वयमेवस्थितस्तत्र नन्दने सुमहायशाः
मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम् ॥ १७ ॥
मूलम्
स्वयमेवस्थितस्तत्र नन्दने सुमहायशाः
मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी
चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी ॥ १८ ॥
मूलम्
विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी
चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी ॥ १८ ॥
विश्वास-प्रस्तुतिः
विहुण्डस्य वधार्थाय रूपलावण्यशालिनी
कुञ्जल उवाच-
स देवानां वधार्थाय दिव्यमार्गं जगाम ह ॥ १९ ॥
मूलम्
विहुण्डस्य वधार्थाय रूपलावण्यशालिनी
कुञ्जल उवाच-
स देवानां वधार्थाय दिव्यमार्गं जगाम ह ॥ १९ ॥
विश्वास-प्रस्तुतिः
नन्दनान्ते ततो मायामपश्यद्दितिजेश्वरः
तया विमोहितो दैत्यः कामबाणकृतान्तरः ॥ २० ॥
मूलम्
नन्दनान्ते ततो मायामपश्यद्दितिजेश्वरः
तया विमोहितो दैत्यः कामबाणकृतान्तरः ॥ २० ॥
विश्वास-प्रस्तुतिः
आत्मनाशं न जानाति कालरूपां वरस्त्रियम्
तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम् ॥ २१ ॥
मूलम्
आत्मनाशं न जानाति कालरूपां वरस्त्रियम्
तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
लुब्धो विहुण्डः पापात्मा तामुवाच वराङ्गनाम्
कासि कस्य वरारोहे ममचित्तप्रमाथिनि ॥ २२ ॥
मूलम्
लुब्धो विहुण्डः पापात्मा तामुवाच वराङ्गनाम्
कासि कस्य वरारोहे ममचित्तप्रमाथिनि ॥ २२ ॥
विश्वास-प्रस्तुतिः
सङ्गमं देहि मे भद्रे रक्षरक्ष वरानने
सङ्गमात्तव देवेशि यद्यदिच्छसि साम्प्रतम् ॥ २३ ॥
मूलम्
सङ्गमं देहि मे भद्रे रक्षरक्ष वरानने
सङ्गमात्तव देवेशि यद्यदिच्छसि साम्प्रतम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः
मायोवाच-
मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव ॥ २४ ॥
मूलम्
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः
मायोवाच-
मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव ॥ २४ ॥
विश्वास-प्रस्तुतिः
सप्तकोटिमितैश्चैव पुष्पैः पूजय शङ्करम्
कामोदसम्भवैर्दिव्यैः सौगन्धैर्देवदुर्लभैः ॥ २५ ॥
मूलम्
सप्तकोटिमितैश्चैव पुष्पैः पूजय शङ्करम्
कामोदसम्भवैर्दिव्यैः सौगन्धैर्देवदुर्लभैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
तेषां पुष्पकृतां मालां मम कण्ठे तु दानव
आरोपय महाभाग एतद्दायं प्रदेहि मे ॥ २६ ॥
मूलम्
तेषां पुष्पकृतां मालां मम कण्ठे तु दानव
आरोपय महाभाग एतद्दायं प्रदेहि मे ॥ २६ ॥
विश्वास-प्रस्तुतिः
तदाहं सुप्रिया भार्या भविष्यामि न संशयः
विहुण्ड उवाच-
एवं देवि करिष्यामि वरं दद्मि प्रयाचितम् ॥ २७ ॥
मूलम्
तदाहं सुप्रिया भार्या भविष्यामि न संशयः
विहुण्ड उवाच-
एवं देवि करिष्यामि वरं दद्मि प्रयाचितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः
बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम् ॥ २८ ॥
मूलम्
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः
बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम्
कामोदाख्यद्रुमो नास्ति वदन्त्येवं महाजनाः ॥ २९ ॥
मूलम्
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम्
कामोदाख्यद्रुमो नास्ति वदन्त्येवं महाजनाः ॥ २९ ॥
विश्वास-प्रस्तुतिः
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः
पप्रच्छ भार्गवं गत्वा भक्त्या नमित कन्धरः ॥ ३० ॥
मूलम्
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः
पप्रच्छ भार्गवं गत्वा भक्त्या नमित कन्धरः ॥ ३० ॥
विश्वास-प्रस्तुतिः
कामोदकं द्रुमं ब्रूहि कान्तं पुष्पसमन्वितम्
शुक्र उवाच-
कामोदः पादपो नास्ति योषिदेवास्ति दानव ॥ ३१ ॥
मूलम्
कामोदकं द्रुमं ब्रूहि कान्तं पुष्पसमन्वितम्
शुक्र उवाच-
कामोदः पादपो नास्ति योषिदेवास्ति दानव ॥ ३१ ॥
विश्वास-प्रस्तुतिः
यदा सा हसते चैव प्रसङ्गेन प्रहर्षिता
तद्धासाज्जज्ञिरे दैत्य सुगन्धीनि वराण्यपि ॥ ३२ ॥
मूलम्
यदा सा हसते चैव प्रसङ्गेन प्रहर्षिता
तद्धासाज्जज्ञिरे दैत्य सुगन्धीनि वराण्यपि ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सुमान्येतानि दिव्यानि कामोदाया न संशयः
हृद्यानि पीतपुष्पाणि सौरभेण युतानि च ॥ ३३ ॥
मूलम्
सुमान्येतानि दिव्यानि कामोदाया न संशयः
हृद्यानि पीतपुष्पाणि सौरभेण युतानि च ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तेनाप्येकेन पुष्पेण यः समर्चति शङ्करम्
तस्येप्सितं महाकामं सम्पूरयति शङ्करः ॥ ३४ ॥
मूलम्
तेनाप्येकेन पुष्पेण यः समर्चति शङ्करम्
तस्येप्सितं महाकामं सम्पूरयति शङ्करः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अस्याश्च रोदनाद्दैत्य प्रभवन्ति न संशयः
तादृशान्येव पुष्पाणि लोहितानि महान्ति च ॥ ३५ ॥
मूलम्
अस्याश्च रोदनाद्दैत्य प्रभवन्ति न संशयः
तादृशान्येव पुष्पाणि लोहितानि महान्ति च ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत्
एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् ॥ ३६ ॥
मूलम्
सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत्
एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
उवाच सा तु कुत्रास्ति कामोदा भृगुनन्दन
शुक्र उवाच-
गङ्गाद्वारे महापुण्ये महापातकनाशने ॥ ३७ ॥
मूलम्
उवाच सा तु कुत्रास्ति कामोदा भृगुनन्दन
शुक्र उवाच-
गङ्गाद्वारे महापुण्ये महापातकनाशने ॥ ३७ ॥
विश्वास-प्रस्तुतिः
कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा
कामोदपत्तने नारी दिव्यभोगैरलङ्कृता ॥ ३८ ॥
मूलम्
कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा
कामोदपत्तने नारी दिव्यभोगैरलङ्कृता ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता
त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः ॥ ३९ ॥
मूलम्
तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता
त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
उपायेनापि पुण्येन तां प्रहासय दानव
एवमुक्त्वा तु योगीन्द्र सः शुक्रो दानवं प्रति ॥ ४० ॥
मूलम्
उपायेनापि पुण्येन तां प्रहासय दानव
एवमुक्त्वा तु योगीन्द्र सः शुक्रो दानवं प्रति ॥ ४० ॥
विश्वास-प्रस्तुतिः
विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ॥ ४१ ॥
मूलम्
विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ॥ ४१ ॥