कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
नहुषः प्रियया सार्द्धं तया चैव सरम्भया
ऐन्द्रेणापि स दिव्येन स्यन्दनेन वरेण च ॥ १ ॥
मूलम्
नहुषः प्रियया सार्द्धं तया चैव सरम्भया
ऐन्द्रेणापि स दिव्येन स्यन्दनेन वरेण च ॥ १ ॥
विश्वास-प्रस्तुतिः
नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम्
दिव्यैर्मङ्गलकैर्युक्तं भवनैरुपशोभितम् ॥ २ ॥
मूलम्
नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम्
दिव्यैर्मङ्गलकैर्युक्तं भवनैरुपशोभितम् ॥ २ ॥
विश्वास-प्रस्तुतिः
हेमतोरणसंयुक्तं पताकाभिरलङ्कृतम्
नानावादित्रनादैश्च बन्दिचारणशोभितम् ॥ ३ ॥
मूलम्
हेमतोरणसंयुक्तं पताकाभिरलङ्कृतम्
नानावादित्रनादैश्च बन्दिचारणशोभितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
देवरूपोपमैः पुण्यैः पुरुषैः समलङ्कृतम्
नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यन्दनैस्तथा ॥ ४ ॥
मूलम्
देवरूपोपमैः पुण्यैः पुरुषैः समलङ्कृतम्
नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यन्दनैस्तथा ॥ ४ ॥
विश्वास-प्रस्तुतिः
नानामङ्गलशब्दैश्च वेदध्वनिसमाकुलम्
गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः ॥ ५ ॥
मूलम्
नानामङ्गलशब्दैश्च वेदध्वनिसमाकुलम्
गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः ॥ ५ ॥
विश्वास-प्रस्तुतिः
सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम्
वेदमङ्गलघोषैश्च ब्राह्मणैश्चैव पूजितः ॥ ६ ॥
मूलम्
सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम्
वेदमङ्गलघोषैश्च ब्राह्मणैश्चैव पूजितः ॥ ६ ॥
विश्वास-प्रस्तुतिः
ददृशे पितरं वीरो मातरं च सुपुण्यकाम्
हर्षेण महताविष्टः पितुः पादौ ननाम सः ॥ ७ ॥
मूलम्
ददृशे पितरं वीरो मातरं च सुपुण्यकाम्
हर्षेण महताविष्टः पितुः पादौ ननाम सः ॥ ७ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी सा तु तयोः पादौ पुनः पुनः
ननाम भक्त्या भावेन उभयोः सा वरानना ॥ ८ ॥
मूलम्
अशोकसुन्दरी सा तु तयोः पादौ पुनः पुनः
ननाम भक्त्या भावेन उभयोः सा वरानना ॥ ८ ॥
विश्वास-प्रस्तुतिः
रम्भा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत्
नमस्कृत्वा समाभाष्य स्वगुरुं नृपनन्दनः ॥ ९ ॥
मूलम्
रम्भा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत्
नमस्कृत्वा समाभाष्य स्वगुरुं नृपनन्दनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
अनामयं च पप्रच्छ मातरं पितरं प्रति
एवमुक्तो महाभागः सानन्दपुलकोद्गमः ॥ १० ॥
मूलम्
अनामयं च पप्रच्छ मातरं पितरं प्रति
एवमुक्तो महाभागः सानन्दपुलकोद्गमः ॥ १० ॥
विश्वास-प्रस्तुतिः
आयुरुवाच-
अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ
भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत् ॥ ११ ॥
मूलम्
आयुरुवाच-
अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ
भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
कृतकृत्योस्मि सञ्जातस्त्वयि जाते महौजसि
स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः ॥ १२ ॥
मूलम्
कृतकृत्योस्मि सञ्जातस्त्वयि जाते महौजसि
स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
इन्दुमत्युवाच-
पर्वणि प्राप्य इन्दोस्तु तेजो दृष्ट्वा महोदधिः
वृद्धिं याति महाभाग तथाहं तव दर्शनात् ॥ १३ ॥
मूलम्
इन्दुमत्युवाच-
पर्वणि प्राप्य इन्दोस्तु तेजो दृष्ट्वा महोदधिः
वृद्धिं याति महाभाग तथाहं तव दर्शनात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
वर्द्धितास्मि सुहृष्टास्मि आनन्देन समाकुला
दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद ॥ १४ ॥
मूलम्
वर्द्धितास्मि सुहृष्टास्मि आनन्देन समाकुला
दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवं सम्भाष्य तं पुत्रमालिङ्ग्य तनयोत्तमम्
शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् ॥ १५ ॥
मूलम्
एवं सम्भाष्य तं पुत्रमालिङ्ग्य तनयोत्तमम्
शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
अभिनन्द्य सुतं प्राप्तं नहुषं देवरूपिणम्
आशीर्भिश्चार्चयद्देवी पुण्या इन्दुमती तदा ॥ १६ ॥
मूलम्
अभिनन्द्य सुतं प्राप्तं नहुषं देवरूपिणम्
आशीर्भिश्चार्चयद्देवी पुण्या इन्दुमती तदा ॥ १६ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
अथासौ मातरं पुण्यां देवीमिन्दुमतीं सुतः
कथयामास वृत्तान्तं यथाहरणमात्मनः ॥ १७ ॥
मूलम्
सूत उवाच-
अथासौ मातरं पुण्यां देवीमिन्दुमतीं सुतः
कथयामास वृत्तान्तं यथाहरणमात्मनः ॥ १७ ॥
विश्वास-प्रस्तुतिः
स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः
हुण्डेनापि यथा युद्धं हुण्डस्यापि निपातनम् ॥ १८ ॥
मूलम्
स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः
हुण्डेनापि यथा युद्धं हुण्डस्यापि निपातनम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
समासेन समस्तं तदाख्यातं स्वयमेव हि
मातापित्रोर्यथा वृत्तं तयोरानन्ददायकम् ॥ १९ ॥
मूलम्
समासेन समस्तं तदाख्यातं स्वयमेव हि
मातापित्रोर्यथा वृत्तं तयोरानन्ददायकम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम्
हर्षेण महताविष्टौ सञ्जातौ पूर्णमानसौ ॥ २० ॥
मूलम्
मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम्
हर्षेण महताविष्टौ सञ्जातौ पूर्णमानसौ ॥ २० ॥
विश्वास-प्रस्तुतिः
नहुषो धनुरादाय इन्द्रस्य स्यन्दनेन वै
जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् ॥ २१ ॥
मूलम्
नहुषो धनुरादाय इन्द्रस्य स्यन्दनेन वै
जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
पित्रे समर्पयामास वसुपूर्णां वसुन्धराम्
पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः ॥ २२ ॥
मूलम्
पित्रे समर्पयामास वसुपूर्णां वसुन्धराम्
पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः ॥ २२ ॥
विश्वास-प्रस्तुतिः
पितरं याजयामास राजसूयादिभिस्तदा
महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः ॥ २३ ॥
मूलम्
पितरं याजयामास राजसूयादिभिस्तदा
महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः ॥ २३ ॥
विश्वास-प्रस्तुतिः
सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः
सुसम्पूर्णौ कृतौ तौ तु पितरौ चायुसूनुना ॥ २४ ॥
मूलम्
सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः
सुसम्पूर्णौ कृतौ तौ तु पितरौ चायुसूनुना ॥ २४ ॥
विश्वास-प्रस्तुतिः
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम्
अभ्यषिञ्चन्महात्मानं नहुषं वीरमर्दनम् ॥ २५ ॥
मूलम्
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम्
अभ्यषिञ्चन्महात्मानं नहुषं वीरमर्दनम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा
अभिषिञ्च्य स्वराज्ये तं समेतं शिवकन्यया ॥ २६ ॥
मूलम्
मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा
अभिषिञ्च्य स्वराज्ये तं समेतं शिवकन्यया ॥ २६ ॥
विश्वास-प्रस्तुतिः
भार्यायुक्तः स्वकायेन आयु राजा महायशाः
दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः ॥ २७ ॥
मूलम्
भार्यायुक्तः स्वकायेन आयु राजा महायशाः
दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः ॥ २७ ॥
विश्वास-प्रस्तुतिः
ऐन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः
हरलोकं जगामाथ मुनिभिर्देवपूजितः ॥ २८ ॥
मूलम्
ऐन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः
हरलोकं जगामाथ मुनिभिर्देवपूजितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा
हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः ॥ २९ ॥
मूलम्
स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा
हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः ॥ २९ ॥
विश्वास-प्रस्तुतिः
पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम्
जनितव्यं महाभाग किमन्यैः शोककारकैः ॥ ३० ॥
मूलम्
पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम्
जनितव्यं महाभाग किमन्यैः शोककारकैः ॥ ३० ॥
विश्वास-प्रस्तुतिः
यथा जातः स धर्मात्मा नहुषः पितृतारकः
कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपण्डितः ॥ ३१ ॥
मूलम्
यथा जातः स धर्मात्मा नहुषः पितृतारकः
कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपण्डितः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः
अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिञ्जल ॥ ३२ ॥
मूलम्
एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः
अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिञ्जल ॥ ३२ ॥
विश्वास-प्रस्तुतिः
एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम्
आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः ॥ ३३ ॥
मूलम्
एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम्
आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः ॥ ३३ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः ११७