कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
अशोकसुन्दरी पुण्या रम्भया सह हर्षिता
नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ १ ॥
मूलम्
अशोकसुन्दरी पुण्या रम्भया सह हर्षिता
नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ १ ॥
विश्वास-प्रस्तुतिः
अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥ २ ॥
मूलम्
अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥ २ ॥
विश्वास-प्रस्तुतिः
सदैव चिन्त्यमाना च त्वामहं तपसि स्थिता
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥ ३ ॥
मूलम्
सदैव चिन्त्यमाना च त्वामहं तपसि स्थिता
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥ ३ ॥
विश्वास-प्रस्तुतिः
नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ ४ ॥
मूलम्
नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
अनया रम्भया सार्द्धमावां गच्छाव भामिनि
समारोप्य रथे तां तु तां रम्भां तु मनोरमाम् ॥ ५ ॥
मूलम्
अनया रम्भया सार्द्धमावां गच्छाव भामिनि
समारोप्य रथे तां तु तां रम्भां तु मनोरमाम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति
जगाम लघुवेगेन ताभ्यां सह महायशाः ॥ ६ ॥
मूलम्
तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति
जगाम लघुवेगेन ताभ्यां सह महायशाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तमाश्रमगतं विप्रं समालोक्य प्रणम्य च
तया सार्द्धं महातेजा हर्षेण महतान्वितः ॥ ७ ॥
मूलम्
तमाश्रमगतं विप्रं समालोक्य प्रणम्य च
तया सार्द्धं महातेजा हर्षेण महतान्वितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
यथा युद्धं रणे जातं निहतो दानवाधमः
निवेदयामास सर्वं वशिष्ठाय महात्मने ॥ ८ ॥
मूलम्
यथा युद्धं रणे जातं निहतो दानवाधमः
निवेदयामास सर्वं वशिष्ठाय महात्मने ॥ ८ ॥
विश्वास-प्रस्तुतिः
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्
हर्षेण महताविष्ट आशीर्भिरभिनन्द्य तम् ॥ ९ ॥
मूलम्
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्
हर्षेण महताविष्ट आशीर्भिरभिनन्द्य तम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुङ्गवः
विवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥ १० ॥
मूलम्
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुङ्गवः
विवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥ १० ॥
विश्वास-प्रस्तुतिः
आशीर्भिरभिनन्द्यैव मिथुनं प्रेषितं पुनः
मातरं पितरं पश्य द्रुतं गत्वा महामते ॥ ११ ॥
मूलम्
आशीर्भिरभिनन्द्यैव मिथुनं प्रेषितं पुनः
मातरं पितरं पश्य द्रुतं गत्वा महामते ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥ १२ ॥
मूलम्
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥ १२ ॥
विश्वास-प्रस्तुतिः
एवं सम्प्रेषितो वीरो मुनिना ब्रह्मसूनुना
तेनैव रथवर्येण जगाम लघुविक्रमः ॥ १३ ॥
मूलम्
एवं सम्प्रेषितो वीरो मुनिना ब्रह्मसूनुना
तेनैव रथवर्येण जगाम लघुविक्रमः ॥ १३ ॥
विश्वास-प्रस्तुतिः
नमस्कृत्य द्विजेन्द्रं तं गतो मातलिना तदा
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥ १४ ॥
मूलम्
नमस्कृत्य द्विजेन्द्रं तं गतो मातलिना तदा
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः
आयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥ १५ ॥
मूलम्
सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः
आयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥ १५ ॥
विश्वास-प्रस्तुतिः
तामुवाच महाभागां देवीमिन्दुमतीं प्रति
मुञ्च शोकं महाभागे तनयं पश्य सस्नुषम् ॥ १६ ॥
मूलम्
तामुवाच महाभागां देवीमिन्दुमतीं प्रति
मुञ्च शोकं महाभागे तनयं पश्य सस्नुषम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
निहत्य दानवं पापं तव पुत्रापहारकम्
समायान्तं सभायां च वीरश्रियासमन्वितम् ॥ १७ ॥
मूलम्
निहत्य दानवं पापं तव पुत्रापहारकम्
समायान्तं सभायां च वीरश्रियासमन्वितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
सुवृत्तं सङ्गरे तस्य नहुषेण यथा कृतम्
तस्यै निवेदयामास इन्दुमत्यै च मेनिका ॥ १८ ॥
मूलम्
सुवृत्तं सङ्गरे तस्य नहुषेण यथा कृतम्
तस्यै निवेदयामास इन्दुमत्यै च मेनिका ॥ १८ ॥
विश्वास-प्रस्तुतिः
मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥ १९ ॥
मूलम्
मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥ २० ॥
मूलम्
सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥ २० ॥
विश्वास-प्रस्तुतिः
एवमाभाष्य तां देवी राजानमिदमब्रवीत्
तव पुत्रो महाबाहुः समायातो हि साम्प्रतम् ॥ २१ ॥
मूलम्
एवमाभाष्य तां देवी राजानमिदमब्रवीत्
तव पुत्रो महाबाहुः समायातो हि साम्प्रतम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
आख्याति च महाराज एषा मे वै वराप्सराः
भर्तारमेवमाभाष्य विरराम सुहर्षिता ॥ २२ ॥
मूलम्
आख्याति च महाराज एषा मे वै वराप्सराः
भर्तारमेवमाभाष्य विरराम सुहर्षिता ॥ २२ ॥
विश्वास-प्रस्तुतिः
समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां प्रति
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ ॥
मूलम्
समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां प्रति
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ ॥
विश्वास-प्रस्तुतिः
पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥ २४ ॥
मूलम्
पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
सञ्जातं सत्यमेवं वै मुनिना भाषितं पुरा
अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ ॥
मूलम्
सञ्जातं सत्यमेवं वै मुनिना भाषितं पुरा
अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ ॥
विश्वास-प्रस्तुतिः
दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति
शुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥ २६ ॥
मूलम्
दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति
शुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥ २६ ॥
विश्वास-प्रस्तुतिः
पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्
सदा हनिष्यति परं दानवं पापचेतनम् ॥ २७ ॥
मूलम्
पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्
सदा हनिष्यति परं दानवं पापचेतनम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥ २८ ॥
मूलम्
सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवं सम्भाष्य तां देवीं राजा चेन्दुमतीं तदा
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥ २९ ॥
मूलम्
एवं सम्भाष्य तां देवीं राजा चेन्दुमतीं तदा
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥ २९ ॥
विश्वास-प्रस्तुतिः
हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥ ३० ॥
मूलम्
हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वोपपन्नं सुरवर्गयुक्तमानन्दरूपं परमार्थमेकम्
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ ३१ ॥
मूलम्
सर्वोपपन्नं सुरवर्गयुक्तमानन्दरूपं परमार्थमेकम्
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ ३१ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ११६