११५

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा
यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान् ॥ १ ॥

मूलम्

ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरो महात्मा
यथैव कालः कुपितः सलोकान्संहर्तुमैच्छत्तु तथा सुदानवान् ॥ १ ॥

विश्वास-प्रस्तुतिः

महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान्
वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् ॥ २ ॥

मूलम्

महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान दानवान्
वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् ॥ २ ॥

विश्वास-प्रस्तुतिः

वायुर्यथा मेघचयं च दिव्यं सञ्चालयेत्स्वेन बलेन तेजसा
तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः ॥ ३ ॥

मूलम्

वायुर्यथा मेघचयं च दिव्यं सञ्चालयेत्स्वेन बलेन तेजसा
तथा स राजा असुरान्मदोत्कटाननाशयद्बाणवरैः सुतीक्ष्णैः ॥ ३ ॥

विश्वास-प्रस्तुतिः

न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः
मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात् ॥ ४ ॥

मूलम्

न शेकुर्दानवाः सर्वे बाणवर्षं महात्मनः
मृताः केचिद्द्रुताः केचित्केचिन्नष्टा महाहवात् ॥ ४ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
महातेजं महाप्राज्ञं महादानवनाशनम्
चुक्रोध हुण्डो दुष्टात्मा दृष्ट्वा तं नृपनन्दनम् ॥ ५ ॥

मूलम्

सूत उवाच-
महातेजं महाप्राज्ञं महादानवनाशनम्
चुक्रोध हुण्डो दुष्टात्मा दृष्ट्वा तं नृपनन्दनम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे
त्वामद्य च नयिष्यामि आयुपुत्र यमान्तिकम् ॥ ६ ॥

मूलम्

स्थितो गत्वेदमाभाष्य तिष्ठतिष्ठेति चाहवे
त्वामद्य च नयिष्यामि आयुपुत्र यमान्तिकम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

नहुष उवाच-
स्थितोस्मि समरे पश्य त्वामहं हन्तुमागतः
अहं त्वां तु हनिष्यामि दानवं पापचेतनम् ॥ ७ ॥

मूलम्

नहुष उवाच-
स्थितोस्मि समरे पश्य त्वामहं हन्तुमागतः
अहं त्वां तु हनिष्यामि दानवं पापचेतनम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान्
छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे ॥ ८ ॥

मूलम्

इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान्
छत्रेण ध्रियमाणेन शुशुभे सोऽपि संयुगे ॥ ८ ॥

विश्वास-प्रस्तुतिः

इन्द्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत्
वाहयतु रथं मेऽद्य हुण्डस्य सम्मुखं भवान् ॥ ९ ॥

मूलम्

इन्द्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत्
वाहयतु रथं मेऽद्य हुण्डस्य सम्मुखं भवान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः
तुरगांश्चोदयामास महावातजवोपमान् ॥ १० ॥

मूलम्

इत्युक्तस्तेन वीरेण मातलिर्लघुविक्रमः
तुरगांश्चोदयामास महावातजवोपमान् ॥ १० ॥

विश्वास-प्रस्तुतिः

उत्पेतुश्च ततो वाहा हंसा इव यथाम्बरे
छत्रेण इन्दुवर्णेन रथेनापि पताकिना ॥ ११ ॥

मूलम्

उत्पेतुश्च ततो वाहा हंसा इव यथाम्बरे
छत्रेण इन्दुवर्णेन रथेनापि पताकिना ॥ ११ ॥

विश्वास-प्रस्तुतिः

नभस्तलं तु सम्प्राप्य यथा सूर्यो विराजते
आयुपुत्रस्तथा सङ्ख्ये तेजसा विक्रमेण तु ॥ १२ ॥

मूलम्

नभस्तलं तु सम्प्राप्य यथा सूर्यो विराजते
आयुपुत्रस्तथा सङ्ख्ये तेजसा विक्रमेण तु ॥ १२ ॥

विश्वास-प्रस्तुतिः

अथ हुण्डो रथस्थोऽपि राजमानः स्वतेजसा
सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः ॥ १३ ॥

मूलम्

अथ हुण्डो रथस्थोऽपि राजमानः स्वतेजसा
सर्वायुधैश्च संयुक्तस्तद्वद्वीरव्रते स्थितः ॥ १३ ॥

विश्वास-प्रस्तुतिः

उभयोर्वीरयोर्युद्धं देवविस्मयकारकम्
तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् ॥ १४ ॥

मूलम्

उभयोर्वीरयोर्युद्धं देवविस्मयकारकम्
तदा आसीन्महाप्राज्ञ दारुणं भीतिदायकम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

सुबाणैर्निशितैस्तीक्ष्णैः कङ्कपत्रैः शिलीमुखैः
हुण्डेन ताडितो राजा सुबाह्वोरन्तरे तदा ॥ १५ ॥

मूलम्

सुबाणैर्निशितैस्तीक्ष्णैः कङ्कपत्रैः शिलीमुखैः
हुण्डेन ताडितो राजा सुबाह्वोरन्तरे तदा ॥ १५ ॥

विश्वास-प्रस्तुतिः

सुभाले पञ्चभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा
सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः ॥ १६ ॥

मूलम्

सुभाले पञ्चभिर्बाणैर्विद्धः क्रुद्धोऽभवत्तदा
सविद्धस्तु तदा बाणैरधिकं शुशुभे नृपः ॥ १६ ॥

विश्वास-प्रस्तुतिः

सारुणः करमालाभिरुदयंश्च दिवाकरः
रुधिरेण तु दिग्धाङ्गो हेमबाणैस्तनुस्थितैः ॥ १७ ॥

मूलम्

सारुणः करमालाभिरुदयंश्च दिवाकरः
रुधिरेण तु दिग्धाङ्गो हेमबाणैस्तनुस्थितैः ॥ १७ ॥

विश्वास-प्रस्तुतिः

सूर्यवच्छोभते राजा पूर्वकालस्य चाम्बरे
दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् ॥ १८ ॥

मूलम्

सूर्यवच्छोभते राजा पूर्वकालस्य चाम्बरे
दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः
इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः ॥ १९ ॥

मूलम्

तिष्ठतिष्ठ क्षणं दैत्य पश्य मे लाघवं पुनः
इत्युक्त्वा तु रणे दैत्यं जघान दशभिः शरैः ॥ १९ ॥

विश्वास-प्रस्तुतिः

मुखे भाले हतस्तेन मूर्च्छितो निपपात ह
पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः ॥ २० ॥

मूलम्

मुखे भाले हतस्तेन मूर्च्छितो निपपात ह
पश्यामानैः सुरैर्दिव्यै रथोपरि महाबलः ॥ २० ॥

विश्वास-प्रस्तुतिः

देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः
जयजयेति राजेन्द्र शङ्खान्दध्मुः पुनः पुनः ॥ २१ ॥

मूलम्

देवैश्च चारणैः सिद्धैः कृतः शब्दः सुहर्षजः
जयजयेति राजेन्द्र शङ्खान्दध्मुः पुनः पुनः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सकोलाहलशब्दस्तु तुमलो देवतेरितः
कर्णरन्ध्रमाविवेश हुण्डस्य मूर्छितस्य च ॥ २२ ॥

मूलम्

सकोलाहलशब्दस्तु तुमलो देवतेरितः
कर्णरन्ध्रमाविवेश हुण्डस्य मूर्छितस्य च ॥ २२ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा सधनुरादाय बाणमाशीविषोपमम्
स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः ॥ २३ ॥

मूलम्

श्रुत्वा सधनुरादाय बाणमाशीविषोपमम्
स्थीयतां स्थीयतां युद्धे न मृतोस्मि त्वया हतः ॥ २३ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः
एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः ॥ २४ ॥

मूलम्

इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः
एकविंशतिभिर्बाणैर्नहुषं चाहनत्पुनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः
चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै ॥ २५ ॥

मूलम्

एकेन मुष्टिमध्ये तु चतुर्भिर्बाहुमध्यतः
चतुर्भिश्च महाश्वांश्च छत्रमेकेन तेन वै ॥ २५ ॥

विश्वास-प्रस्तुतिः

पञ्चभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः
ध्वजदण्डं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः ॥ २६ ॥

मूलम्

पञ्चभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः
ध्वजदण्डं त्रिभिस्तीक्ष्णैर्दानवः शिखिपत्रिभिः ॥ २६ ॥

विश्वास-प्रस्तुतिः

आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः
लाघवं तस्य सन्दृष्ट्वा देवता विस्मयङ्गताः ॥ २७ ॥

मूलम्

आदानं तु निदानं तु लक्षमोक्षं दुरात्मनः
लाघवं तस्य सन्दृष्ट्वा देवता विस्मयङ्गताः ॥ २७ ॥

विश्वास-प्रस्तुतिः

तस्य पौरुषमापश्य स राजा दानवोत्तमम्
शूरोसि कृतविद्योसि धीरोसि रणपण्डितः ॥ २८ ॥

मूलम्

तस्य पौरुषमापश्य स राजा दानवोत्तमम्
शूरोसि कृतविद्योसि धीरोसि रणपण्डितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः
मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः ॥ २९ ॥

मूलम्

इत्युक्वा दानवं तं तु धनुर्विस्फार्य भूपतिः
मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः ॥ २९ ॥

विश्वास-प्रस्तुतिः

त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले
तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ॥ ३० ॥

मूलम्

त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले
तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ॥ ३० ॥

विश्वास-प्रस्तुतिः

एकेन छत्रं तस्यापि चकर्त लघुविक्रमः
दशभिः सारथिस्तस्य प्रेषितो यममन्दिरम् ॥ ३१ ॥

मूलम्

एकेन छत्रं तस्यापि चकर्त लघुविक्रमः
दशभिः सारथिस्तस्य प्रेषितो यममन्दिरम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः
सर्वाङ्गेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम् ॥ ३२ ॥

मूलम्

दंशनं दशभिश्छित्त्वा शरैश्च विदलीकृतः
सर्वाङ्गेषु च त्रिंशद्भिर्विव्याध दनुजेश्वरम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः
अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः ॥ ३३ ॥

मूलम्

हताश्वो विरथो जातो बाणपाणिर्धनुर्धरः
अभ्यधावत्स वेगेन वर्षयन्निशितैः शरैः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

खड्गचर्मधरो दैत्यो राजानं तमधावत
धावमानस्य हुण्डस्य खड्गं चिच्छेद भूपतिः ॥ ३४ ॥

मूलम्

खड्गचर्मधरो दैत्यो राजानं तमधावत
धावमानस्य हुण्डस्य खड्गं चिच्छेद भूपतिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः
अथ हुण्डः स दुष्टात्मा समालोक्य समन्ततः ॥ ३५ ॥

मूलम्

क्षुरप्रैर्निशितैर्बाणैश्चर्म चिच्छेद भूपतिः
अथ हुण्डः स दुष्टात्मा समालोक्य समन्ततः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः
वज्रवेगं समायान्तं ददृशे नृपतिस्तदा ॥ ३६ ॥

मूलम्

जग्राह मुद्गरं तूर्णं मुमोच लघुविक्रमः
वज्रवेगं समायान्तं ददृशे नृपतिस्तदा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

मुद्गरं स्वनवन्तं चापातयदम्बरात्ततः
दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात् ॥ ३७ ॥

मूलम्

मुद्गरं स्वनवन्तं चापातयदम्बरात्ततः
दशभिर्निशितैर्बाणैः क्षुरप्रैश्च स्वविक्रमात् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि
गदामुद्यम्य वेगेन राजानमभ्यधावत ॥ ३८ ॥

मूलम्

मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि
गदामुद्यम्य वेगेन राजानमभ्यधावत ॥ ३८ ॥

विश्वास-प्रस्तुतिः

खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे
सगदं पतितं भूमौ साङ्गदं कटकान्वितम् ॥ ३९ ॥

मूलम्

खड्गेन तीक्ष्णधारेण तस्य बाहुं विचिच्छिदे
सगदं पतितं भूमौ साङ्गदं कटकान्वितम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

महारावं ततः कृत्वा वज्रस्फोटसमं तदा
रुधिरेणापि दिग्धाङ्गो धावमानो महाहवे ॥ ४० ॥

मूलम्

महारावं ततः कृत्वा वज्रस्फोटसमं तदा
रुधिरेणापि दिग्धाङ्गो धावमानो महाहवे ॥ ४० ॥

विश्वास-प्रस्तुतिः

क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम्
दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः ॥ ४१ ॥

मूलम्

क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम्
दुर्निवार्यः समायातः पार्श्वं तस्य च भूपतेः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

नहुषेण महाशक्त्या ताडितो हृदि दानवः
पतितः सहसा भूमौ वज्राहत इवाचलः ॥ ४२ ॥

मूलम्

नहुषेण महाशक्त्या ताडितो हृदि दानवः
पतितः सहसा भूमौ वज्राहत इवाचलः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्मिन्दैत्ये गते भूमावितरे दानवा गताः
विविशुः कति दुर्गेषु कति पातालमाश्रिताः ॥ ४३ ॥

मूलम्

तस्मिन्दैत्ये गते भूमावितरे दानवा गताः
विविशुः कति दुर्गेषु कति पातालमाश्रिताः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

देवाः प्रहर्षमाजग्मुर्गन्धर्वाः सिद्धचारणाः
हते तस्मिन्महापापे नहुषेण महात्मना ॥ ४४ ॥

मूलम्

देवाः प्रहर्षमाजग्मुर्गन्धर्वाः सिद्धचारणाः
हते तस्मिन्महापापे नहुषेण महात्मना ॥ ४४ ॥

विश्वास-प्रस्तुतिः

तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे
तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ॥ ४५ ॥

मूलम्

तस्मिन्हते दैत्यवरे महाहवे देवाश्च सर्वे प्रमुदं प्रलेभिरे
तां देवरूपां तपसा प्रवर्द्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ॥ ४५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने पञ्चदशाधिकशततमोऽध्यायः ११५