रम्भोवाच-
विश्वास-प्रस्तुतिः
तप एतत्परित्यज्य किंवा लोकयसे शुभे
तपसः क्षरणं स्याद्वै पुरुषस्यापि चिन्तनात् ॥ १ ॥
मूलम्
तप एतत्परित्यज्य किंवा लोकयसे शुभे
तपसः क्षरणं स्याद्वै पुरुषस्यापि चिन्तनात् ॥ १ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दर्युवाच-
तपसि मे मनो लीनं नहुषस्यापि काम्यया
न मां चालयितुं शक्ता देवासुरमहोरगाः ॥ २ ॥
मूलम्
अशोकसुन्दर्युवाच-
तपसि मे मनो लीनं नहुषस्यापि काम्यया
न मां चालयितुं शक्ता देवासुरमहोरगाः ॥ २ ॥
विश्वास-प्रस्तुतिः
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम्
रन्तुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम् ॥ ३ ॥
मूलम्
एनं दृष्ट्वा महाभागे मे मनश्चलते भृशम्
रन्तुमिच्छाम्यहं गत्वा एवमुत्सुकतां गतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
एवं विपर्ययश्चासीन्मनसो मे वरावने
तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् ॥ ४ ॥
मूलम्
एवं विपर्ययश्चासीन्मनसो मे वरावने
तन्मे त्वं कारणं ब्रूहि यद्यस्ति ज्ञानमुत्तमम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः
कस्मान्मे धावते चेत उत्सुकं रन्तुमेव च ॥ ५ ॥
मूलम्
आयुपुत्रस्य भार्याहं देवैः सृष्टा महात्मभिः
कस्मान्मे धावते चेत उत्सुकं रन्तुमेव च ॥ ५ ॥
विश्वास-प्रस्तुतिः
रम्भोवाच-
सर्वेष्वेव महाभागे देहरूपेषु भामिनि
वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः ॥ ६ ॥
मूलम्
रम्भोवाच-
सर्वेष्वेव महाभागे देहरूपेषु भामिनि
वसत्यात्मा स्वयं ब्रह्मज्ञानरूपः सनातनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
यद्यपि प्रक्रियाबद्धैरिन्द्रियैरुपकारिभिः
मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा ॥ ७ ॥
मूलम्
यद्यपि प्रक्रियाबद्धैरिन्द्रियैरुपकारिभिः
मोहपाशमयैर्बद्धस्तथा सिद्धस्तु सर्वदा ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम्
अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुन्दरि ॥ ८ ॥
मूलम्
प्रकृतिं नैव जानाति ज्ञानविज्ञानकीं कलाम्
अयं शुद्धश्च धर्मज्ञ आत्मा वेत्ति च सुन्दरि ॥ ८ ॥
विश्वास-प्रस्तुतिः
गच्छन्त्यपि मनस्तापमेनं दृष्ट्वा महामतिम्
पापमेवं परित्यज्य सत्यमेवं प्रधावति ॥ ९ ॥
मूलम्
गच्छन्त्यपि मनस्तापमेनं दृष्ट्वा महामतिम्
पापमेवं परित्यज्य सत्यमेवं प्रधावति ॥ ९ ॥
विश्वास-प्रस्तुतिः
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः
अन्यं दृष्ट्वा विशङ्केत पुरुषं पापलक्षणम् ॥ १० ॥
मूलम्
भर्तायमायुपुत्रस्ते एतत्सत्यं न संशयः
अन्यं दृष्ट्वा विशङ्केत पुरुषं पापलक्षणम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं विधिः कृतो देवैः सत्यपाशेन बन्धितः
यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति ॥ ११ ॥
मूलम्
एवं विधिः कृतो देवैः सत्यपाशेन बन्धितः
यदस्या आयुपुत्रोपि भर्तृत्वमुपयास्यति ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवमाकर्णितं भद्रे आत्मना तं च सुन्दरि
तद्भावसत्यसम्बन्धं परिगृह्य स्थितः स्वयम् ॥ १२ ॥
मूलम्
एवमाकर्णितं भद्रे आत्मना तं च सुन्दरि
तद्भावसत्यसम्बन्धं परिगृह्य स्थितः स्वयम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
अन्यं भावं न जानाति आयुपुत्रं च विन्दति
प्रकृतिर्नैव ते देवि पतिं जानाति चागतम् ॥ १३ ॥
मूलम्
अन्यं भावं न जानाति आयुपुत्रं च विन्दति
प्रकृतिर्नैव ते देवि पतिं जानाति चागतम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति
आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः ॥ १४ ॥
मूलम्
एवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति
आत्मा सर्वं प्रजानाति आत्मा देवः सनातनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
अयमेष स वीरेन्द्रो नहुषो नाम वीर्यवान्
तस्माद्गच्छति चेतस्ते सत्यं सम्बन्धमिच्छते ॥ १५ ॥
मूलम्
अयमेष स वीरेन्द्रो नहुषो नाम वीर्यवान्
तस्माद्गच्छति चेतस्ते सत्यं सम्बन्धमिच्छते ॥ १५ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति
एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् ॥ १६ ॥
मूलम्
ज्ञात्वा चायोः सुतं भद्रे अन्यं चैव न गच्छति
एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
हुण्डं हत्वा महाघोरं समरे दानवाधमम्
त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् ॥ १७ ॥
मूलम्
हुण्डं हत्वा महाघोरं समरे दानवाधमम्
त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
हृतो दैत्येन वीरेन्द्रो निजपुण्येन शेषितः
बाल्यात्प्रभृति वीरेन्द्रो वियुक्तः स्वजनेन वै ॥ १८ ॥
मूलम्
हृतो दैत्येन वीरेन्द्रो निजपुण्येन शेषितः
बाल्यात्प्रभृति वीरेन्द्रो वियुक्तः स्वजनेन वै ॥ १८ ॥
विश्वास-प्रस्तुतिः
पितृमातृविहीनस्तु गतो वृद्धिं महावने
यास्यत्येव पितुर्गेहं त्वयैव सह साम्प्रतम् ॥ १९ ॥
मूलम्
पितृमातृविहीनस्तु गतो वृद्धिं महावने
यास्यत्येव पितुर्गेहं त्वयैव सह साम्प्रतम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
एवमाभाषितं श्रुत्वा रम्भायाः शिवनन्दिनी
हर्षेण महताविष्टा तामुवाच समुद्रजाम् ॥ २० ॥
मूलम्
एवमाभाषितं श्रुत्वा रम्भायाः शिवनन्दिनी
हर्षेण महताविष्टा तामुवाच समुद्रजाम् ॥ २० ॥
विश्वास-प्रस्तुतिः
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान्
मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम् ॥ २१ ॥
मूलम्
अयमेव स सत्यात्मा मम भर्ता सुवीर्यवान्
मनो मे धावतेऽत्यर्थं शोकाकुलितविह्वलम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम्
सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि ॥ २२ ॥
मूलम्
नास्ति चित्तसमो देवो जानाति सुविनिश्चितम्
सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि ॥ २२ ॥
विश्वास-प्रस्तुतिः
मनोभवसमानं तु पुरुषं दिव्यलक्षणम्
न धावति महाचेत एनं दृष्ट्वा यथा सखि ॥ २३ ॥
मूलम्
मनोभवसमानं तु पुरुषं दिव्यलक्षणम्
न धावति महाचेत एनं दृष्ट्वा यथा सखि ॥ २३ ॥
विश्वास-प्रस्तुतिः
तथा न धावते भद्रे पुंसमन्यं न मन्यते
एनं गन्तव्यमावाभ्यां सखीभिर्गृहमेव हि ॥ २४ ॥
मूलम्
तथा न धावते भद्रे पुंसमन्यं न मन्यते
एनं गन्तव्यमावाभ्यां सखीभिर्गृहमेव हि ॥ २४ ॥
विश्वास-प्रस्तुतिः
एवमाभाष्य सा रम्भा गमनायोपचक्रमे
गमनायोत्सुकां ज्ञात्वा नहुषस्यान्तिकं प्रति ॥ २५ ॥
मूलम्
एवमाभाष्य सा रम्भा गमनायोपचक्रमे
गमनायोत्सुकां ज्ञात्वा नहुषस्यान्तिकं प्रति ॥ २५ ॥
विश्वास-प्रस्तुतिः
तामुवाच ततो रम्भा कस्माद्देवि न गम्यते
सूत उवाच-
सख्या च रम्भया सार्द्धं नहुषं वीरलक्षणम् ॥ २६ ॥
मूलम्
तामुवाच ततो रम्भा कस्माद्देवि न गम्यते
सूत उवाच-
सख्या च रम्भया सार्द्धं नहुषं वीरलक्षणम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
तस्यान्तिकं सुसम्प्राप्य प्रेषयामास तां सखीम्
एनं गच्छ महाभागे नहुषं देवरूपिणम् ॥ २७ ॥
मूलम्
तस्यान्तिकं सुसम्प्राप्य प्रेषयामास तां सखीम्
एनं गच्छ महाभागे नहुषं देवरूपिणम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
कथयस्व कथामेतां तवार्थे आगता यतः
रम्भोवाच-
एवं सखि करिष्यामि सुप्रियं तव सुव्रते ॥ २८ ॥
मूलम्
कथयस्व कथामेतां तवार्थे आगता यतः
रम्भोवाच-
एवं सखि करिष्यामि सुप्रियं तव सुव्रते ॥ २८ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा गता रम्भा नहुषं राजनन्दनम्
चापबाणधरं वीरं द्वितीयमिव वासवम् ॥ २९ ॥
मूलम्
एवमुक्त्वा गता रम्भा नहुषं राजनन्दनम्
चापबाणधरं वीरं द्वितीयमिव वासवम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच गता रम्भा सख्या वचनमुत्तमम्
आयुपुत्र महाभाग रम्भाहंसमुपागता ॥ ३० ॥
मूलम्
प्रत्युवाच गता रम्भा सख्या वचनमुत्तमम्
आयुपुत्र महाभाग रम्भाहंसमुपागता ॥ ३० ॥
विश्वास-प्रस्तुतिः
शिवस्य कन्यया वीर तयाहं परिप्रेषिता
तवार्थं देवदेवेन देव्या देवेन वै पुरा ॥ ३१ ॥
मूलम्
शिवस्य कन्यया वीर तयाहं परिप्रेषिता
तवार्थं देवदेवेन देव्या देवेन वै पुरा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम्
दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेन्द्रैस्तपोधनैः ॥ ३२ ॥
मूलम्
भार्यारूपं वरं श्रेष्ठं सृष्टं लोकेषु दुर्लभम्
दुष्प्राप्यं तु नरश्रेष्ठैर्देवै सेन्द्रैस्तपोधनैः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
गन्धर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः
स्वयमेव समायातं तवार्थे शृणु साम्प्रतम् ॥ ३३ ॥
मूलम्
गन्धर्वैः पन्नगैः सिद्धैश्चारणैः पुण्यलक्षणैः
स्वयमेव समायातं तवार्थे शृणु साम्प्रतम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्त्रीरत्नं तन्महाप्राज्ञ सम्पूर्णं पुण्यनिर्मितम्
अशोकसुन्दरी नाम तवार्थं तपसि स्थिता ॥ ३४ ॥
मूलम्
स्त्रीरत्नं तन्महाप्राज्ञ सम्पूर्णं पुण्यनिर्मितम्
अशोकसुन्दरी नाम तवार्थं तपसि स्थिता ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अत्यर्थं तु तपस्तप्तं भवन्तमिच्छते सदा
एवं ज्ञात्वा महाभाग भजमानां भजस्व हि ॥ ३५ ॥
मूलम्
अत्यर्थं तु तपस्तप्तं भवन्तमिच्छते सदा
एवं ज्ञात्वा महाभाग भजमानां भजस्व हि ॥ ३५ ॥
विश्वास-प्रस्तुतिः
त्वामृते सा वरारोहा पुरुषं नैव याचते
नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः ॥ ३६ ॥
मूलम्
त्वामृते सा वरारोहा पुरुषं नैव याचते
नहुषेण तयोक्तं तु श्रुत्वावधारितं वचः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्रत्युत्तरं ददौ चाथ रम्भे मे श्रूयतां वचः
तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः ॥ ३७ ॥
मूलम्
प्रत्युत्तरं ददौ चाथ रम्भे मे श्रूयतां वचः
तत्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना
सर्वमेव विजानामि अस्यास्तु तप उत्तमम् ॥ ३८ ॥
मूलम्
ममाग्रे कथितं पूर्वं वशिष्ठेन महात्मना
सर्वमेव विजानामि अस्यास्तु तप उत्तमम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति
अहत्वा दानवं हुण्डं न गच्छामि वराङ्गनाम् ॥ ३९ ॥
मूलम्
श्रूयतां कारणं भद्रे यथासौख्यं भविष्यति
अहत्वा दानवं हुण्डं न गच्छामि वराङ्गनाम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सर्वमेतत्सुवृत्तान्तमहं जाने तथैव हि
ममार्थे तव सम्भूतिस्तपश्च चरितं त्वया ॥ ४० ॥
मूलम्
सर्वमेतत्सुवृत्तान्तमहं जाने तथैव हि
ममार्थे तव सम्भूतिस्तपश्च चरितं त्वया ॥ ४० ॥
विश्वास-प्रस्तुतिः
मम भार्या न सन्देहो भवती विधिना कृता
ममार्थे निश्चयं कृत्वा तप आचरितं त्वया ॥ ४१ ॥
मूलम्
मम भार्या न सन्देहो भवती विधिना कृता
ममार्थे निश्चयं कृत्वा तप आचरितं त्वया ॥ ४१ ॥
विश्वास-प्रस्तुतिः
हृता तस्मात्सुपापेन भवती नियमान्विता
सूतिगृहादहं तेन दानवेनाधमेन वै ॥ ४२ ॥
मूलम्
हृता तस्मात्सुपापेन भवती नियमान्विता
सूतिगृहादहं तेन दानवेनाधमेन वै ॥ ४२ ॥
विश्वास-प्रस्तुतिः
बालभावस्थितो देवि पितृमातृविना कृतः
तस्मात्तं तु हनिष्यामि हुण्डं वै दानवाधमम् ॥ ४३ ॥
मूलम्
बालभावस्थितो देवि पितृमातृविना कृतः
तस्मात्तं तु हनिष्यामि हुण्डं वै दानवाधमम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति
एवं कथय भद्रं ते रम्भे मत्प्रियकारिणीम् ॥ ४४ ॥
मूलम्
पश्चात्त्वामुपनेष्येऽहं वशिष्ठस्याश्रमं प्रति
एवं कथय भद्रं ते रम्भे मत्प्रियकारिणीम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं विसर्जिता तेन सत्वरं सा गता पुनः
अशोकसुन्दरीं देवीं कथयामास तस्य च ॥ ४५ ॥
मूलम्
एवं विसर्जिता तेन सत्वरं सा गता पुनः
अशोकसुन्दरीं देवीं कथयामास तस्य च ॥ ४५ ॥
विश्वास-प्रस्तुतिः
समासेन तथा सर्वं रम्भा सा द्विजसत्तम
अशोकसुन्दरी सा तु अवधार्य सुभाषितम् ॥ ४६ ॥
मूलम्
समासेन तथा सर्वं रम्भा सा द्विजसत्तम
अशोकसुन्दरी सा तु अवधार्य सुभाषितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नहुषस्य सुवीरस्य हर्षेण च समन्विता
तस्थौ तत्र तया सार्द्धं सुसख्या रम्भया तदा ॥ ४७ ॥
मूलम्
नहुषस्य सुवीरस्य हर्षेण च समन्विता
तस्थौ तत्र तया सार्द्धं सुसख्या रम्भया तदा ॥ ४७ ॥
विश्वास-प्रस्तुतिः
भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा ॥ ४८ ॥
मूलम्
भर्तुश्च कीदृशं वीर्यमिति पश्यामि वै सदा ॥ ४८ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३