कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
तदेव गानं च सुराङ्गनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः
समाकुला चापि बभूव तत्र सा शम्भुपुत्री परिचिन्तयाना ॥ १ ॥
मूलम्
तदेव गानं च सुराङ्गनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः
समाकुला चापि बभूव तत्र सा शम्भुपुत्री परिचिन्तयाना ॥ १ ॥
विश्वास-प्रस्तुतिः
आसनात्तूर्णमुत्थाय महोत्साहेन संयुता
तूर्णं गता वरारोहा तपोभावसमन्विता ॥ २ ॥
मूलम्
आसनात्तूर्णमुत्थाय महोत्साहेन संयुता
तूर्णं गता वरारोहा तपोभावसमन्विता ॥ २ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा देवसङ्काशं दिव्यरूपसमप्रभम्
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाभिशोभितम् ॥ ३ ॥
मूलम्
तं दृष्ट्वा देवसङ्काशं दिव्यरूपसमप्रभम्
दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाभिशोभितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनन्दनम्
दीप्तिमन्तं यथा सूर्यं दिव्यलक्षणसंयुतम् ॥ ४ ॥
मूलम्
दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनन्दनम्
दीप्तिमन्तं यथा सूर्यं दिव्यलक्षणसंयुतम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
किं वा देवो महाप्राज्ञो गन्धर्वो वा भविष्यति
किं वा नागसुतः सोयं किंवा विद्याधरो भवेत् ॥ ५ ॥
मूलम्
किं वा देवो महाप्राज्ञो गन्धर्वो वा भविष्यति
किं वा नागसुतः सोयं किंवा विद्याधरो भवेत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
देवेषु नैव पश्यामि कुतो यक्षेषु जायते
अनया लीलया वीरः सहस्राक्षोपि जायते ॥ ६ ॥
मूलम्
देवेषु नैव पश्यामि कुतो यक्षेषु जायते
अनया लीलया वीरः सहस्राक्षोपि जायते ॥ ६ ॥
विश्वास-प्रस्तुतिः
शम्भुरेष भवेत्किंवा किंवा चायं मनोभवः
किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः ॥ ७ ॥
मूलम्
शम्भुरेष भवेत्किंवा किंवा चायं मनोभवः
किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः ॥ ७ ॥
विश्वास-प्रस्तुतिः
एवं समा चिन्तयती च यावत्तावत्त्वरं रूपगुणाधिपा सा
समेत्य रम्भासु महासखीभिरुवाच तां शम्भुसुतां प्रहस्य ॥ ८ ॥
मूलम्
एवं समा चिन्तयती च यावत्तावत्त्वरं रूपगुणाधिपा सा
समेत्य रम्भासु महासखीभिरुवाच तां शम्भुसुतां प्रहस्य ॥ ८ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः ११२