कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन्सुरराज तुल्ये
सकौतुका मङ्गलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र ॥ १ ॥
मूलम्

देवतानां वरा नार्यो रम्भाद्यप्सरसस्तथा
किन्नर्यः कौतुकोत्सुक्यो जगुः स्वरेण सत्तम ॥ २ ॥

गन्धर्वाणां तथा नार्यो रूपालङ्कारसंयुताः
कौतुकाय गतास्तत्र यत्र राजा स तिष्ठति ॥ ३ ॥

पुरं महोदयं नाम हुण्डस्यापि दुरात्मनः
नन्दनोपवनैर्दिव्यैः सर्वत्र समलङ्कृतम् ॥ ४ ॥

सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितः
सपताकैर्महादण्डैः शोभमानं पुरोत्तमम् ॥ ५ ॥

कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैः
सर्वश्रियान्वितैर्दिव्यैर्भ्राजमानं पुरोत्तमम् ॥ ६ ॥

वनैश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः
जलपूर्णैः सुशोभैस्तु पद्मै रक्तोत्पलान्वितैः ॥ ७ ॥

प्राकारैश्च महारत्नैरट्टालकशतैरपि
परिखाभिः सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम् ॥ ८ ॥

अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितम्
सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः ॥ ९ ॥

नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयम्
राजश्रेष्ठो महावीरो नहुषो ददृशे पुरम् ॥ १० ॥

पुरप्रान्ते वनं दिव्यं दिव्यवृक्षैरलङ्कृतम्
तद्विवेश महावीरो नन्दनं हि यथाऽमरः ॥ ११ ॥

रथेन सह धर्मात्मा तेन मातलिना सह
प्रविष्टः स तु राजेन्द्रो वनमध्ये सरित्तटे ॥ १२ ॥

तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः
गन्धर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् ॥ १३ ॥

सूताश्च मागधाः सर्वे तं स्तुवन्ति नृपोत्तमम्
राजानमायुपुत्रं तं भ्राजमानं यथा रविम् ॥ १४ ॥

शुश्राव गीतं मधुरं नहुषः किन्नरेरितम् ॥ १५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः १११