कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
आमन्त्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम्
समुत्सुको गन्तुकामो नहुषो दानवं प्रति ॥ १ ॥
मूलम्
आमन्त्र्य स मुनीन्सर्वान्वशिष्ठं तपतांवरम्
समुत्सुको गन्तुकामो नहुषो दानवं प्रति ॥ १ ॥
विश्वास-प्रस्तुतिः
ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः
आशीर्भिरभिनन्द्यैनमायुपुत्रं महाबलम् ॥ २ ॥
मूलम्
ततस्ते मुनयः सर्वे वशिष्ठाद्यास्तपोधनाः
आशीर्भिरभिनन्द्यैनमायुपुत्रं महाबलम् ॥ २ ॥
विश्वास-प्रस्तुतिः
आकाशे देवताः सर्वा जघ्नुर्वै दुन्दुभीन्मुदा
पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि ॥ ३ ॥
मूलम्
आकाशे देवताः सर्वा जघ्नुर्वै दुन्दुभीन्मुदा
पुष्पवृष्टिं प्रचक्रुस्ते नहुषस्य च मूर्धनि ॥ ३ ॥
विश्वास-प्रस्तुतिः
अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः
ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च ॥ ४ ॥
मूलम्
अथ देवः सहस्राक्षः सुरैः सार्द्धं समागतः
ददौ शस्त्राणि चास्त्राणि सूर्यतेजोपमानि च ॥ ४ ॥
विश्वास-प्रस्तुतिः
देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम
तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ॥ ५ ॥
मूलम्
देवेभ्यो नृपशार्दूलो जगृहे द्विजसत्तम
तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन्
स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर ॥ ६ ॥
मूलम्
अथ ता देवताः सर्वाः सहस्राक्षमथाब्रुवन्
स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर ॥ ६ ॥
विश्वास-प्रस्तुतिः
देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम्
आहूय मातलि तं तु आदिदेश ततो द्विज ॥ ७ ॥
मूलम्
देवानां मतमाज्ञाय वज्रपाणिः स्वसारथिम्
आहूय मातलि तं तु आदिदेश ततो द्विज ॥ ७ ॥
विश्वास-प्रस्तुतिः
एनं गच्छ महात्मानमुह्यतां स्यन्दनेन वै
सध्वजेन महाप्राज्ञमायुजं समरोद्यतम् ॥ ८ ॥
मूलम्
एनं गच्छ महात्मानमुह्यतां स्यन्दनेन वै
सध्वजेन महाप्राज्ञमायुजं समरोद्यतम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
स चोवाच सहस्राक्षं करिष्ये तवशासनम्
एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम् ॥ ९ ॥
मूलम्
स चोवाच सहस्राक्षं करिष्ये तवशासनम्
एवमुक्त्वा जगामाशु ह्यायुपुत्रं रणोद्यतम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
राजानं प्रत्युवाचैव देवराजस्य भाषितम्
विजयी भव धर्मज्ञ रथेनानेन सङ्गरे ॥ १० ॥
मूलम्
राजानं प्रत्युवाचैव देवराजस्य भाषितम्
विजयी भव धर्मज्ञ रथेनानेन सङ्गरे ॥ १० ॥
विश्वास-प्रस्तुतिः
इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर
जहि त्वं दानवं सङ्ख्ये तं हुण्डं पापचेतनम् ॥ ११ ॥
मूलम्
इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर
जहि त्वं दानवं सङ्ख्ये तं हुण्डं पापचेतनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
समाकर्ण्य स राजेन्द्र सानन्दपुलकोद्गमः
प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः ॥ १२ ॥
मूलम्
समाकर्ण्य स राजेन्द्र सानन्दपुलकोद्गमः
प्रसादाद्देवदेवस्य वशिष्ठस्य महात्मनः ॥ १२ ॥
विश्वास-प्रस्तुतिः
दानवं सूदयिष्यामि समरे पापचेतनम्
देवानां च विशेषेण मम मायापचारितम् ॥ १३ ॥
मूलम्
दानवं सूदयिष्यामि समरे पापचेतनम्
देवानां च विशेषेण मम मायापचारितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवमुक्ते महावाक्ये नहुषेण महात्मना
अथायातः स्वयं देवः शङ्खचक्रगदाधरः ॥ १४ ॥
मूलम्
एवमुक्ते महावाक्ये नहुषेण महात्मना
अथायातः स्वयं देवः शङ्खचक्रगदाधरः ॥ १४ ॥
विश्वास-प्रस्तुतिः
चक्राच्चक्रं समुत्पाट्य सूर्यबिम्बोपमं महत्
ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम् ॥ १५ ॥
मूलम्
चक्राच्चक्रं समुत्पाट्य सूर्यबिम्बोपमं महत्
ज्वलता तेजसा दीप्तं सुवृत्तारं शुभावहम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
नहुषाय ददौ देवो हर्षेण महता किल
तस्मै शूलं ददौ शम्भुः सुतीक्ष्णं तेजसान्वितम् ॥ १६ ॥
मूलम्
नहुषाय ददौ देवो हर्षेण महता किल
तस्मै शूलं ददौ शम्भुः सुतीक्ष्णं तेजसान्वितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
तेन शूलवरेणासौ शोभते समरोद्यतः
द्वितीयः शङ्करश्चासौ त्रिपुरघ्नो यथा प्रभुः ॥ १७ ॥
मूलम्
तेन शूलवरेणासौ शोभते समरोद्यतः
द्वितीयः शङ्करश्चासौ त्रिपुरघ्नो यथा प्रभुः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम्
चन्द्र तेजःप्रतीकाशं शङ्खं च नादमङ्गलम् ॥ १८ ॥
मूलम्
ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम्
चन्द्र तेजःप्रतीकाशं शङ्खं च नादमङ्गलम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
वज्रमिन्द्रस्तथा शक्तिं वायुश्चापं समार्गणम्
आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने ॥ १९ ॥
मूलम्
वज्रमिन्द्रस्तथा शक्तिं वायुश्चापं समार्गणम्
आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने ॥ १९ ॥
विश्वास-प्रस्तुतिः
शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च
ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे ॥ २० ॥
मूलम्
शस्त्राण्यस्त्राणि दिव्यानि बहूनि विविधानि च
ददुर्देवा महात्मानस्तस्मै राज्ञे महौजसे ॥ २० ॥
विश्वास-प्रस्तुतिः
कुञ्जल उवाच-
अथ आयुसुतो वीरो दैवतैः परिमानितः
आशीर्भिर्नन्दितश्चापि मुनिभिस्तत्त्ववेदिभिः ॥ २१ ॥
मूलम्
कुञ्जल उवाच-
अथ आयुसुतो वीरो दैवतैः परिमानितः
आशीर्भिर्नन्दितश्चापि मुनिभिस्तत्त्ववेदिभिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम्
घण्टारवैः प्रणदन्तं क्षुद्रघण्टासमाकुलम् ॥ २२ ॥
मूलम्
आरुरोह रथं दिव्यं भास्वरं रत्नमालिनम्
घण्टारवैः प्रणदन्तं क्षुद्रघण्टासमाकुलम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
रथेन तेन दिव्येन शुशुभे नृपनदन्नः
दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल ॥ २३ ॥
मूलम्
रथेन तेन दिव्येन शुशुभे नृपनदन्नः
दिविमार्गे यथा सूर्यस्तेजसा स्वेन वै किल ॥ २३ ॥
विश्वास-प्रस्तुतिः
प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः
जगाम शीघ्रं वेगेन यथा वायुः सदागतिः ॥ २४ ॥
मूलम्
प्रतपंस्तेजसा तद्वद्दैत्यानां मस्तकेषु सः
जगाम शीघ्रं वेगेन यथा वायुः सदागतिः ॥ २४ ॥
यत्रासौ दानवः पापस्तिष्ठते स्वबलैर्युतः
तेन मातलिना सार्द्धं वाहकेन महात्मना २५