कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम्
आमन्त्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः ॥ १ ॥
मूलम्
प्रणिपत्य प्रसाद्यैव वशिष्ठं तपतां वरम्
आमन्त्र्य निर्जगामाथ बाणपाणिर्धनुर्धरः ॥ १ ॥
विश्वास-प्रस्तुतिः
एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या
आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः ॥ २ ॥
मूलम्
एणस्य मांसं सुविपाच्यभोजितं बालस्तया रक्षित एव बुद्ध्या
आयोः सुपुत्रः सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः ॥ २ ॥
विश्वास-प्रस्तुतिः
तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन
तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ॥ ३ ॥
मूलम्
तेनैव मांसेन सुसंस्कृतेन मृष्टेन पक्वेन रसानुगेन
तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ॥ ३ ॥
विश्वास-प्रस्तुतिः
बुभुजे दानवो मांसं रसस्वादुसमन्वितम्
हर्षेणापि समाविष्टो जगामाशोकसुन्दरीम् ॥ ४ ॥
मूलम्
बुभुजे दानवो मांसं रसस्वादुसमन्वितम्
हर्षेणापि समाविष्टो जगामाशोकसुन्दरीम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
तामुवाच ततस्तूर्णं कामोपहतचेतनः
आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते ॥ ५ ॥
मूलम्
तामुवाच ततस्तूर्णं कामोपहतचेतनः
आयुपुत्रो मया भद्रे भक्षितः पतिरेव ते ॥ ५ ॥
विश्वास-प्रस्तुतिः
मामेव भज चार्वङ्गि भुङ्क्ष्व भोगान्मनोनुगान्
किं करिष्यसि तेन त्वं मानुषेण गतायुषा ॥ ६ ॥
मूलम्
मामेव भज चार्वङ्गि भुङ्क्ष्व भोगान्मनोनुगान्
किं करिष्यसि तेन त्वं मानुषेण गतायुषा ॥ ६ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी
भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः ॥ ७ ॥
मूलम्
प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी
भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः
एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः ॥ ८ ॥
मूलम्
तस्य मृत्युर्न वै दृष्टो देवैरपि महात्मभिः
एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः
अद्यैव भक्षितं मांसमायुपुत्रस्य सुन्दरि ॥ ९ ॥
मूलम्
तामुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः
अद्यैव भक्षितं मांसमायुपुत्रस्य सुन्दरि ॥ ९ ॥
विश्वास-प्रस्तुतिः
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः
एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् ॥ १० ॥
मूलम्
जातमात्रस्य बालस्य नहुषस्य दुरात्मनः
एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः
तप एव मया तप्तं मनसा नियमेन वै
आयुसुतश्चिरायुश्च सत्येनैव भविष्यति ॥ ११ ॥
मूलम्
प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः
तप एव मया तप्तं मनसा नियमेन वै
आयुसुतश्चिरायुश्च सत्येनैव भविष्यति ॥ ११ ॥
विश्वास-प्रस्तुतिः
इतो गच्छ दुराचार यदि जीवितुमिच्छसि
अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः ॥ १२ ॥
मूलम्
इतो गच्छ दुराचार यदि जीवितुमिच्छसि
अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः ॥ १२ ॥
विश्वास-प्रस्तुतिः
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति
परित्यज्य महाराज एतामन्यां समाश्रय ॥ १३ ॥
मूलम्
एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति
परित्यज्य महाराज एतामन्यां समाश्रय ॥ १३ ॥
विश्वास-प्रस्तुतिः
सूदेन प्रेषितो दैत्यः स हुण्डः पापचेतनः
निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति ॥ १४ ॥
मूलम्
सूदेन प्रेषितो दैत्यः स हुण्डः पापचेतनः
निर्जगाम त्वरायुक्तः स स्वां भार्यां प्रियां प्रति ॥ १४ ॥
विश्वास-प्रस्तुतिः
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम्
तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च ॥ १५ ॥
मूलम्
चेष्टितं नैव जानाति दास्या सूदेन यत्कृतम्
तस्यै निवेदितं सर्वं प्रियायै वृत्तमेव च ॥ १५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
अशोकसुन्दरी सा च महता तपसा किल
दुःखशोकेन सन्तप्ता कृशीभूता तपस्विनी ॥ १६ ॥
मूलम्
सूत उवाच-
अशोकसुन्दरी सा च महता तपसा किल
दुःखशोकेन सन्तप्ता कृशीभूता तपस्विनी ॥ १६ ॥
विश्वास-प्रस्तुतिः
चिन्तयन्ती प्रियं कान्तं तं ध्यायति पुनः पुनः
किं न कुर्वन्ति वै दैत्या उपायैर्विविधैरपि ॥ १७ ॥
मूलम्
चिन्तयन्ती प्रियं कान्तं तं ध्यायति पुनः पुनः
किं न कुर्वन्ति वै दैत्या उपायैर्विविधैरपि ॥ १७ ॥
विश्वास-प्रस्तुतिः
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा
वर्तन्ते दनुजश्रेष्ठा नानाभावैश्च सर्वदा ॥ १८ ॥
मूलम्
उपायज्ञाः सदा बुद्ध्या उद्यमेनापि सर्वदा
वर्तन्ते दनुजश्रेष्ठा नानाभावैश्च सर्वदा ॥ १८ ॥
विश्वास-प्रस्तुतिः
मायोपायेन योगेन हृताहं पापिना पुरा
तथा स घातितः पुत्र आयोश्चैव भविष्यति ॥ १९ ॥
मूलम्
मायोपायेन योगेन हृताहं पापिना पुरा
तथा स घातितः पुत्र आयोश्चैव भविष्यति ॥ १९ ॥
विश्वास-प्रस्तुतिः
यं दृष्ट्वा दैवयोगेन भवितारमनामयम्
उद्यमेनापि पश्येत किं वा नश्यति वा न वा ॥ २० ॥
मूलम्
यं दृष्ट्वा दैवयोगेन भवितारमनामयम्
उद्यमेनापि पश्येत किं वा नश्यति वा न वा ॥ २० ॥
विश्वास-प्रस्तुतिः
किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम्
भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति ॥ २१ ॥
मूलम्
किं वा स उद्यमः श्रेष्ठः किं वा तत्कर्मजं फलम्
भाविभावः कथं नश्येत्ततो वेदः प्रतिष्ठति ॥ २१ ॥
विश्वास-प्रस्तुतिः
विशेषो भावितो देवैः स कथं चान्यथा भवेत्
एवमेवं महाभागा चिन्तयन्ती पुनः पुनः ॥ २२ ॥
मूलम्
विशेषो भावितो देवैः स कथं चान्यथा भवेत्
एवमेवं महाभागा चिन्तयन्ती पुनः पुनः ॥ २२ ॥
विश्वास-प्रस्तुतिः
किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः
सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः ॥ २३ ॥
मूलम्
किन्नरो विद्वरो नाम बृहद्वंशोमहातनुः
सनाभ्योर्धनरः कायः पक्षाभ्यां हि विवर्जितः ॥ २३ ॥
विश्वास-प्रस्तुतिः
द्विभुजो वंशहस्तस्तु हारकङ्कणशोभितः
दिव्यगन्धानुलिप्ताङ्गो भार्यया सह चागतः ॥ २४ ॥
मूलम्
द्विभुजो वंशहस्तस्तु हारकङ्कणशोभितः
दिव्यगन्धानुलिप्ताङ्गो भार्यया सह चागतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
तामुवाच निरानन्दां स सुतां शङ्करस्यहि
किमर्थं चिन्तसे देवि विद्वरं विद्धि चागतम् ॥ २५ ॥
मूलम्
तामुवाच निरानन्दां स सुतां शङ्करस्यहि
किमर्थं चिन्तसे देवि विद्वरं विद्धि चागतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः
दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति ॥ २६ ॥
मूलम्
किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः
दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति ॥ २६ ॥
विश्वास-प्रस्तुतिः
हुण्डेन पापचारेण वधार्थं तस्य धीमतः
कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे ॥ २७ ॥
मूलम्
हुण्डेन पापचारेण वधार्थं तस्य धीमतः
कृतमेवाखिलं कर्म हृतश्चायुसुतः शुभे ॥ २७ ॥
विश्वास-प्रस्तुतिः
स तु वै रक्षितो देवैरुपायैर्विविधैरपि
हुण्ड एवं विजानाति आयुपुत्रो हृतो मया ॥ २८ ॥
मूलम्
स तु वै रक्षितो देवैरुपायैर्विविधैरपि
हुण्ड एवं विजानाति आयुपुत्रो हृतो मया ॥ २८ ॥
विश्वास-प्रस्तुतिः
भक्षितस्तु विशालाक्षि इति जानाति वै शुभे
भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः ॥ २९ ॥
मूलम्
भक्षितस्तु विशालाक्षि इति जानाति वै शुभे
भवतां श्रावयित्वा हि गतोसौ दानवोऽधमः ॥ २९ ॥
विश्वास-प्रस्तुतिः
स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः
पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति ॥ ३० ॥
मूलम्
स्वेनकर्मविपाकेन पुण्यस्यापि महायशाः
पूर्वजन्मार्जितेनैव तव भर्त्ता स जीवति ॥ ३० ॥
विश्वास-प्रस्तुतिः
पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम्
स्वर्जितस्य महाभागे नाशमिच्छन्ति घातकाः ॥ ३१ ॥
मूलम्
पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम्
स्वर्जितस्य महाभागे नाशमिच्छन्ति घातकाः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दुष्टात्मानो महापापाः परतेजोविदूषकाः
तेषां यशोविनाशार्थं प्रपञ्चन्ति दिने दिने ॥ ३२ ॥
मूलम्
दुष्टात्मानो महापापाः परतेजोविदूषकाः
तेषां यशोविनाशार्थं प्रपञ्चन्ति दिने दिने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः
हन्तुमिच्छन्ति तं पुण्यं पुण्यकर्माभिरक्षितम् ॥ ३३ ॥
मूलम्
नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः
हन्तुमिच्छन्ति तं पुण्यं पुण्यकर्माभिरक्षितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पापिनश्चैव हुण्डाद्या मोहनस्तम्भनादिभिः
पीडयन्ति महापापा नानाभेदैर्बलाविलैः ॥ ३४ ॥
मूलम्
पापिनश्चैव हुण्डाद्या मोहनस्तम्भनादिभिः
पीडयन्ति महापापा नानाभेदैर्बलाविलैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि
पुण्यस्यापि महाभागे पुण्यवन्तं सुरक्षितम् ॥ ३५ ॥
मूलम्
सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि
पुण्यस्यापि महाभागे पुण्यवन्तं सुरक्षितम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
वैफल्यं यान्ति तेषां वै उपायाः पापिनां शुभे
यन्त्रतन्त्राणि मन्त्राश्च शस्त्राग्निविषबन्धनाः ॥ ३६ ॥
मूलम्
वैफल्यं यान्ति तेषां वै उपायाः पापिनां शुभे
यन्त्रतन्त्राणि मन्त्राश्च शस्त्राग्निविषबन्धनाः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
रक्षयन्ति महात्मानं देवपुण्यैः सुरक्षितम्
कर्तारो भस्मतां यान्ति स वै तिष्ठति पुण्यभाक् ॥ ३७ ॥
मूलम्
रक्षयन्ति महात्मानं देवपुण्यैः सुरक्षितम्
कर्तारो भस्मतां यान्ति स वै तिष्ठति पुण्यभाक् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे
पुण्यस्य सञ्चयं सर्वे तपसां निधिमेव तु ॥ ३८ ॥
मूलम्
आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे
पुण्यस्य सञ्चयं सर्वे तपसां निधिमेव तु ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः
सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः ॥ ३९ ॥
मूलम्
तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः
सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
मा कृथा दारुणं दुःखं मुञ्च शोकमकारणम्
स हि जीवति धर्मात्मा मात्रा पित्रा विना वने ॥ ४० ॥
मूलम्
मा कृथा दारुणं दुःखं मुञ्च शोकमकारणम्
स हि जीवति धर्मात्मा मात्रा पित्रा विना वने ॥ ४० ॥
विश्वास-प्रस्तुतिः
तपोवनेव सत्येकस्तपस्वि परिपालितः
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदस्य पारगः ॥ ४१ ॥
मूलम्
तपोवनेव सत्येकस्तपस्वि परिपालितः
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदस्य पारगः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
यथा शशी विराजेत स्वकलाभिः स्वतेजसा
तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे ॥ ४२ ॥
मूलम्
यथा शशी विराजेत स्वकलाभिः स्वतेजसा
तथा विराजते सोऽपि स्वकलाभिः सुमध्यमे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा
राजते परवीरघ्नो रिपुहा सुरवल्लभः ॥ ४३ ॥
मूलम्
विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा
राजते परवीरघ्नो रिपुहा सुरवल्लभः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
हुण्डं निहत्य दैत्येन्द्रं त्वामेवं हि प्रलप्स्यते
त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः ॥ ४४ ॥
मूलम्
हुण्डं निहत्य दैत्येन्द्रं त्वामेवं हि प्रलप्स्यते
त्वया सार्द्धं स्त्रिया चैव पृथिव्यामेकभूपतिः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
भविष्यति महायोगी यथा स्वर्गे तु वासवः
त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ॥ ४५ ॥
मूलम्
भविष्यति महायोगी यथा स्वर्गे तु वासवः
त्वं तस्मात्प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
ययातिं नामधर्मज्ञं प्रजापालनतत्परम्
तथा कन्याशतं चापि रूपौदार्यगुणान्वितम् ॥ ४६ ॥
मूलम्
ययातिं नामधर्मज्ञं प्रजापालनतत्परम्
तथा कन्याशतं चापि रूपौदार्यगुणान्वितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यासां पुण्यैर्महाराज इन्द्रलोकं प्रयास्यति
इन्द्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः ॥ ४७ ॥
मूलम्
यासां पुण्यैर्महाराज इन्द्रलोकं प्रयास्यति
इन्द्रत्वं भोक्ष्यते देवि नहुषः पुण्यविक्रमः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति
प्रजापालो महाराजः सर्वजीवदयापरः ॥ ४८ ॥
मूलम्
ययातिर्नाम धर्मात्मा आत्मजस्ते भविष्यति
प्रजापालो महाराजः सर्वजीवदयापरः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रास्तु चत्वारो भविष्यन्ति महौजसः
बलवीर्यसमोपेता धनुर्वेदस्य पारगाः ॥ ४९ ॥
मूलम्
तस्य पुत्रास्तु चत्वारो भविष्यन्ति महौजसः
बलवीर्यसमोपेता धनुर्वेदस्य पारगाः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः
उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः ॥ ५० ॥
मूलम्
प्रथमश्च तुरुर्नाम पुरुर्नाम द्वितीयकः
उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः ॥ ५० ॥
विश्वास-प्रस्तुतिः
एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः
भविष्यन्ति महात्मानः सर्वतेजः समन्विताः ॥ ५१ ॥
मूलम्
एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः
भविष्यन्ति महात्मानः सर्वतेजः समन्विताः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः
तेषां नामानि भद्रं ते गदतः शृणु साम्प्रतम् ॥ ५२ ॥
मूलम्
यदोश्चैव सुता वीराः सिंहतुल्यपराक्रमाः
तेषां नामानि भद्रं ते गदतः शृणु साम्प्रतम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
भोजश्च भीमकश्चापि अन्धकः कुञ्जरस्तथा
वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति ॥ ५३ ॥
मूलम्
भोजश्च भीमकश्चापि अन्धकः कुञ्जरस्तथा
वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति ॥ ५३ ॥
विश्वास-प्रस्तुतिः
षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः
कालदंष्ट्रो महावीर्यः समरे कालजिद्बली ॥ ५४ ॥
मूलम्
षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः
कालदंष्ट्रो महावीर्यः समरे कालजिद्बली ॥ ५४ ॥
विश्वास-प्रस्तुतिः
यदोः पुत्रा महावीर्या यादवाख्या वरानने
तेषां तु पुत्राः पौत्रास्ते भविष्यन्ति सहस्रशः ॥ ५५ ॥
मूलम्
यदोः पुत्रा महावीर्या यादवाख्या वरानने
तेषां तु पुत्राः पौत्रास्ते भविष्यन्ति सहस्रशः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
एवं नहुषवंशो वै तव देवि भविष्यति
दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय ॥ ५६ ॥
मूलम्
एवं नहुषवंशो वै तव देवि भविष्यति
दुःखमेवं परित्यज्य सुखेनानुप्रवर्तय ॥ ५६ ॥
विश्वास-प्रस्तुतिः
समेष्यति महाप्राज्ञस्तव भर्ता शुभानने
निहत्य दानवं हुण्डं त्वामेवं परिणेष्यति ॥ ५७ ॥
मूलम्
समेष्यति महाप्राज्ञस्तव भर्ता शुभानने
निहत्य दानवं हुण्डं त्वामेवं परिणेष्यति ॥ ५७ ॥
विश्वास-प्रस्तुतिः
दुःखजातानि सोष्णानि नेत्राभ्यां हि पतन्ति च
अश्रूणि चेन्दुमत्याश्च सम्मार्जयति मानदः ॥ ५८ ॥
मूलम्
दुःखजातानि सोष्णानि नेत्राभ्यां हि पतन्ति च
अश्रूणि चेन्दुमत्याश्च सम्मार्जयति मानदः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति
सुखिनं पितरं कृत्वा प्रजापालो भविष्यति ॥ ५९ ॥
मूलम्
आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति
सुखिनं पितरं कृत्वा प्रजापालो भविष्यति ॥ ५९ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं देवानां कथनं शुभे
दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय ॥ ६० ॥
मूलम्
एतत्ते सर्वमाख्यातं देवानां कथनं शुभे
दुःखं शोकं परित्यज्य सुखेन परिवर्त्तय ॥ ६० ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दर्युवाच-
कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि
सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय ॥ ६१ ॥
मूलम्
अशोकसुन्दर्युवाच-
कदा ह्येष्यति मे भर्त्ता विहितो दैवतैर्यदि
सत्यं वद स्वधर्मज्ञ मम सौख्यं विवर्द्धय ॥ ६१ ॥
विश्वास-प्रस्तुतिः
विद्वर उवाच-
अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुन्दरि
एवमुक्त्वा जगामाथ गन्धर्वो विबुधालयम् ॥ ६२ ॥
मूलम्
विद्वर उवाच-
अचिराद्द्रक्ष्यसि भर्तारं त्वमेवं शृणु सुन्दरि
एवमुक्त्वा जगामाथ गन्धर्वो विबुधालयम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
अशोकसुन्दरी सा च तपस्तेपे हि तत्र वै
कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा ॥ ६३ ॥
मूलम्
अशोकसुन्दरी सा च तपस्तेपे हि तत्र वै
कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा ॥ ६३ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने नवाधिकशततमोऽध्यायः १०९