१०८

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः
नहुषं तं समाहूय इदं वचनमब्रवीत् ॥ १ ॥

मूलम्

ब्रह्मपुत्रो महातेजा वशिष्ठस्तपतां वरः
नहुषं तं समाहूय इदं वचनमब्रवीत् ॥ १ ॥

विश्वास-प्रस्तुतिः

वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम्
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ ॥ २ ॥

मूलम्

वनं गच्छ स्वशीघ्रेण वन्यमानय पुष्कलम्
समाकर्ण्य मुनेर्वाक्यं नहुषो वनमाययौ ॥ २ ॥

विश्वास-प्रस्तुतिः

तत्र किञ्चित्सुवृत्तान्तं शुश्राव नहुषो बलः
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ॥ ३ ॥

मूलम्

तत्र किञ्चित्सुवृत्तान्तं शुश्राव नहुषो बलः
अयमेष स धर्मात्मा नहुषो नाम वीर्यवान् ॥ ३ ॥

विश्वास-प्रस्तुतिः

आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ॥ ४ ॥

मूलम्

आयोः पुत्रो महाप्राज्ञो बाल्यान्मात्रा वियोजितः
अस्यैवातिवियोगेन आयुभार्या प्ररोदिति ॥ ४ ॥

विश्वास-प्रस्तुतिः

अशोकसुन्दरी तेपे तपः परमदुष्करम्
कदा पश्यति सा देवी पुत्रमिन्दुमती शुभा ॥ ५ ॥

मूलम्

अशोकसुन्दरी तेपे तपः परमदुष्करम्
कदा पश्यति सा देवी पुत्रमिन्दुमती शुभा ॥ ५ ॥

विश्वास-प्रस्तुतिः

नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः
तपस्तेपे निरालम्बा शिवस्य तनया वरा ॥ ६ ॥

मूलम्

नाहुषं नाम धर्मज्ञं हृतं पूर्वं तु दानवैः
तपस्तेपे निरालम्बा शिवस्य तनया वरा ॥ ६ ॥

विश्वास-प्रस्तुतिः

अशोकसुन्दरी बाला आयुपुत्रस्य कारणात्
अनेनापि कदा सा हि सङ्गता तु भविष्यति ॥ ७ ॥

मूलम्

अशोकसुन्दरी बाला आयुपुत्रस्य कारणात्
अनेनापि कदा सा हि सङ्गता तु भविष्यति ॥ ७ ॥

विश्वास-प्रस्तुतिः

एवं सांसारिकं वाक्यं दिवि चारणभाषितम्
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ॥ ८ ॥

मूलम्

एवं सांसारिकं वाक्यं दिवि चारणभाषितम्
शुश्राव स हि धर्मात्मा नहुषो विभ्रमान्वितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ॥ ९ ॥

मूलम्

स गत्वा वन्यमादाय वशिष्ठस्याश्रमं प्रति
वन्यं निवेद्य धर्मात्मा वशिष्ठाय महात्मने ॥ ९ ॥

विश्वास-प्रस्तुतिः

बद्धाञ्जलिपुटोभूत्वा भक्त्या नमितकन्धरः
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् ॥ १० ॥

मूलम्

बद्धाञ्जलिपुटोभूत्वा भक्त्या नमितकन्धरः
तमुवाच महाप्राज्ञं वशिष्ठं तपतां वरम् ॥ १० ॥

विश्वास-प्रस्तुतिः

भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम्
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ॥ ११ ॥

मूलम्

भगवञ्छ्रूयतां वाक्यमपूर्वं चारणेरितम्
एष वै नहुषो नाम्ना आयुपुत्रो वियोजितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

मात्रा सह सुदुःखैस्तु इन्दुमत्या हि दानवैः
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् ॥ १२ ॥

मूलम्

मात्रा सह सुदुःखैस्तु इन्दुमत्या हि दानवैः
शिवस्य तनया बाला तपस्तेपे सुदुश्चरम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

निमित्तमस्य धीरस्य नहुषस्येति वै गुरो
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् ॥ १३ ॥

मूलम्

निमित्तमस्य धीरस्य नहुषस्येति वै गुरो
एवमाभाषितं तैस्तु तत्सर्वं हि मया श्रुतम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

कोसावायुः स धर्मात्मा कासा त्विन्दुमती शुभा
अशोकसुन्दरी कासा नहुषेति क उच्यते ॥ १४ ॥

मूलम्

कोसावायुः स धर्मात्मा कासा त्विन्दुमती शुभा
अशोकसुन्दरी कासा नहुषेति क उच्यते ॥ १४ ॥

विश्वास-प्रस्तुतिः

एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च ॥ १५ ॥

मूलम्

एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति
अन्यः कोपि महाप्राज्ञः कुत्रासौ नहुषेति च ॥ १५ ॥

विश्वास-प्रस्तुतिः

तत्सर्वं तात मे ब्रूहि कारणान्तरमेव हि
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली ॥ १६ ॥

मूलम्

तत्सर्वं तात मे ब्रूहि कारणान्तरमेव हि
वशिष्ठ उवाच-
आयु राजा स धर्मात्मा सप्तद्वीपाधिपो बली ॥ १६ ॥

विश्वास-प्रस्तुतिः

भार्या इन्दुमती तस्य सत्यरूपा यशस्विनी
तस्यामुत्पादितः पुत्रो भवान्वै गुणमन्दिरम् ॥ १७ ॥

मूलम्

भार्या इन्दुमती तस्य सत्यरूपा यशस्विनी
तस्यामुत्पादितः पुत्रो भवान्वै गुणमन्दिरम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

आयुना राजराजेन सोमवंशस्य भूषणम्
हरस्य कन्या सुश्रोणी गुणरूपैरलङ्कृता ॥ १८ ॥

मूलम्

आयुना राजराजेन सोमवंशस्य भूषणम्
हरस्य कन्या सुश्रोणी गुणरूपैरलङ्कृता ॥ १८ ॥

विश्वास-प्रस्तुतिः

अशोकसुन्दरी नाम्ना सुभगा चारुहासिनी
तस्य हेतोस्तपस्तेपे निरालम्बा तपोवने ॥ १९ ॥

मूलम्

अशोकसुन्दरी नाम्ना सुभगा चारुहासिनी
तस्य हेतोस्तपस्तेपे निरालम्बा तपोवने ॥ १९ ॥

विश्वास-प्रस्तुतिः

तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः
गङ्गायास्तीरमाश्रित्य ध्यानयोग समाश्रिता ॥ २० ॥

मूलम्

तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः
गङ्गायास्तीरमाश्रित्य ध्यानयोग समाश्रिता ॥ २० ॥

विश्वास-प्रस्तुतिः

हुण्डश्च दानवेन्द्रो यो दृष्ट्वा चैकाकिनीं सतीम्
तपसा प्रज्वलन्तीं च सुभगां कमलेक्षणाम् ॥ २१ ॥

मूलम्

हुण्डश्च दानवेन्द्रो यो दृष्ट्वा चैकाकिनीं सतीम्
तपसा प्रज्वलन्तीं च सुभगां कमलेक्षणाम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च ॥ २२ ॥

मूलम्

रूपौदार्यगुणोपेतां कामबाणैः प्रपीडितः
तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च ॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी
मा हुण्ड साहसं कार्षीर्मा जल्पस्व पुनः पुनः ॥ २३ ॥

मूलम्

एवं सा तद्वचः श्रुत्वा तमुवाच तपस्विनी
मा हुण्ड साहसं कार्षीर्मा जल्पस्व पुनः पुनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

अप्राप्याहं त्वया वीर परभार्या विशेषतः
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः ॥ २४ ॥

मूलम्

अप्राप्याहं त्वया वीर परभार्या विशेषतः
दैवेन मे पुरा सृष्ट आयुपुत्रो महाबलः ॥ २४ ॥

विश्वास-प्रस्तुतिः

नहुषो नाम मेधावी भविष्यति न संशयः
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ॥ २५ ॥

मूलम्

नहुषो नाम मेधावी भविष्यति न संशयः
देवदत्तो महातेजा अन्यथा त्वं करिष्यसि ॥ २५ ॥

विश्वास-प्रस्तुतिः

ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः ॥ २६ ॥

मूलम्

ततः शाप्रं पदास्यामि येन भस्मी भविष्यसि
एवमाकर्ण्य तद्वाक्यं कामबाणैः प्रपीडितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

व्याजेनापि हृता तेन प्रणीता निजमन्दिरे
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः ॥ २७ ॥

मूलम्

व्याजेनापि हृता तेन प्रणीता निजमन्दिरे
ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः ॥ २७ ॥

विश्वास-प्रस्तुतिः

नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति
अजाते त्वयि सञ्जाता वदसे त्वं यथैव तत् ॥ २८ ॥

मूलम्

नहुषस्यैव हस्तेन तव मृत्युर्भविष्यति
अजाते त्वयि सञ्जाता वदसे त्वं यथैव तत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

स त्वमायुसुतो वीर हृतो हुण्डेन पापिना
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् ॥ २९ ॥

मूलम्

स त्वमायुसुतो वीर हृतो हुण्डेन पापिना
सूदेन रक्षितो दास्या प्रेषितो मम चाश्रमम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

भवन्तं वनमध्ये च दृष्ट्वा चारणकिन्नरैः
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ॥ ३० ॥

मूलम्

भवन्तं वनमध्ये च दृष्ट्वा चारणकिन्नरैः
यत्तु वै श्रावितं वत्स मया ते कथितं पुनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

जहि तं पापकर्तारं हुण्डाख्यं दानवाधमम्
नेत्राभ्यां हि प्रमुञ्चन्तीमश्रूणि परिमार्जय ॥ ३१ ॥

मूलम्

जहि तं पापकर्तारं हुण्डाख्यं दानवाधमम्
नेत्राभ्यां हि प्रमुञ्चन्तीमश्रूणि परिमार्जय ॥ ३१ ॥

विश्वास-प्रस्तुतिः

इतो गत्वा प्रपश्य त्वं गङ्गातीरं महाबलम्
निपात्य दानवेन्द्रं तं कारागृहात्समानय ॥ ३२ ॥

मूलम्

इतो गत्वा प्रपश्य त्वं गङ्गातीरं महाबलम्
निपात्य दानवेन्द्रं तं कारागृहात्समानय ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अशोकसुन्दरी याहि तस्या भर्ता भवस्व हि
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ॥ ३३ ॥

मूलम्

अशोकसुन्दरी याहि तस्या भर्ता भवस्व हि
एतत्ते सर्वमाख्यातं प्रश्नस्यास्य हि कारणम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

आभाष्य नहुषं विप्रो विरराम महामतिः ॥ ३४ ॥

मूलम्

आभाष्य नहुषं विप्रो विरराम महामतिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिन्त्यमानः
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ॥ ३५ ॥

मूलम्

आकर्ण्य सर्वं मुनिना प्रयुक्तमाश्चर्यभूतं स हि चिन्त्यमानः
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार ॥ ३५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्यानेऽष्टोत्तरशततमोऽध्यायः १०८