कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
अथासौ नारदः स्वर्गादायुराजानमागतः
आगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥ १ ॥
मूलम्
अथासौ नारदः स्वर्गादायुराजानमागतः
आगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥ १ ॥
विश्वास-प्रस्तुतिः
पुत्रापहरणं तेऽद्य क्षेमं जातं महामते
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥ २ ॥
मूलम्
पुत्रापहरणं तेऽद्य क्षेमं जातं महामते
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥ २ ॥
विश्वास-प्रस्तुतिः
सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः
सर्वकलाभिसम्पूर्ण आगमिष्यति ते सुतः ॥ ३ ॥
मूलम्
सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः
सर्वकलाभिसम्पूर्ण आगमिष्यति ते सुतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः
आत्मगेहे महाराज कालो नीतो न संशयः ॥ ४ ॥
मूलम्
येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः
आत्मगेहे महाराज कालो नीतो न संशयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्याप्यन्तं स वै कर्त्ता महावीर्यो महाबलः
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥ ५ ॥
मूलम्
तस्याप्यन्तं स वै कर्त्ता महावीर्यो महाबलः
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥ ५ ॥
विश्वास-प्रस्तुतिः
इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा
इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥ ६ ॥
मूलम्
इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा
इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥ ६ ॥
विश्वास-प्रस्तुतिः
एवमाभाष्य राजानमायुं देवर्षिसत्तमः
जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ ॥
मूलम्
एवमाभाष्य राजानमायुं देवर्षिसत्तमः
जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ ॥
विश्वास-प्रस्तुतिः
गते तस्मिन्महाभागे नारदे देवसम्मिते
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥ ८ ॥
मूलम्
गते तस्मिन्महाभागे नारदे देवसम्मिते
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥ ८ ॥
विश्वास-प्रस्तुतिः
दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥ ९ ॥
मूलम्
दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥ १० ॥
मूलम्
येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥ १० ॥
विश्वास-प्रस्तुतिः
इत्याह नारदो भद्रे मा कृथाः शोकमेव च
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥ ११ ॥
मूलम्
इत्याह नारदो भद्रे मा कृथाः शोकमेव च
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥ १२ ॥
मूलम्
भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥ १२ ॥
विश्वास-प्रस्तुतिः
यथोक्तं देवऋषिणा तत्तथैव भविष्यति
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥ १३ ॥
मूलम्
यथोक्तं देवऋषिणा तत्तथैव भविष्यति
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥ १३ ॥
विश्वास-प्रस्तुतिः
भविष्यति न सन्देहः प्रतिभात्येनमेव हि
इत्येवं चिन्तयित्वा तु ननाम द्विजपुङ्गवम् ॥ १४ ॥
मूलम्
भविष्यति न सन्देहः प्रतिभात्येनमेव हि
इत्येवं चिन्तयित्वा तु ननाम द्विजपुङ्गवम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥ १५ ॥
मूलम्
नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥ १५ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तु सा देवी विरराम सुदुःखिता
आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ ॥
मूलम्
एवमुक्त्वा तु सा देवी विरराम सुदुःखिता
आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः १०७