१०६

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्
अपश्यन्ती सुबालं तं देवोपममनौपमम् ॥ १ ॥

मूलम्

आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्
अपश्यन्ती सुबालं तं देवोपममनौपमम् ॥ १ ॥

विश्वास-प्रस्तुतिः

हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ ॥

मूलम्

हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ ॥

विश्वास-प्रस्तुतिः

तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः
सम्प्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥ ३ ॥

मूलम्

तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः
सम्प्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

दत्तात्रेयेण पुण्येन सन्तुष्टेन महात्मना
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ ॥

मूलम्

दत्तात्रेयेण पुण्येन सन्तुष्टेन महात्मना
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ ॥

विश्वास-प्रस्तुतिः

हा पुत्र वत्स मे तात हा बालगुणमन्दिर
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥ ५ ॥

मूलम्

हा पुत्र वत्स मे तात हा बालगुणमन्दिर
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

सोमवंशस्य सर्वस्य भूषणोसि न संशयः
केन त्वमपनीतोसि मम प्राणैः समन्वितः ॥ ६ ॥

मूलम्

सोमवंशस्य सर्वस्य भूषणोसि न संशयः
केन त्वमपनीतोसि मम प्राणैः समन्वितः ॥ ६ ॥

विश्वास-प्रस्तुतिः

राजसुलक्षणैर्दिव्यैः सम्पूर्णः कमलेक्षणः
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥ ७ ॥

मूलम्

राजसुलक्षणैर्दिव्यैः सम्पूर्णः कमलेक्षणः
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ ॥

मूलम्

स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ ॥

विश्वास-प्रस्तुतिः

किं वा छलं कृतं कस्य पूर्वजन्मनि पापया
कर्मणस्तस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ ॥

मूलम्

किं वा छलं कृतं कस्य पूर्वजन्मनि पापया
कर्मणस्तस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ ॥

विश्वास-प्रस्तुतिः

रत्नापहारिणी जाता पुत्ररत्नं हृतं मम
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥ १० ॥

मूलम्

रत्नापहारिणी जाता पुत्ररत्नं हृतं मम
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥ १० ॥

विश्वास-प्रस्तुतिः

किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्
प्राप्तं मया न सन्देहः पुत्रशोकान्वितं भृशम् ॥ ११ ॥

मूलम्

किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्
प्राप्तं मया न सन्देहः पुत्रशोकान्वितं भृशम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

किं वा शिशुविरोधश्च कृतो जन्मान्तरे मया
तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ ॥

मूलम्

किं वा शिशुविरोधश्च कृतो जन्मान्तरे मया
तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥ १३ ॥

मूलम्

याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा
इन्दुमती महाभाग शोकेन करुणाकुला ॥ १४ ॥

मूलम्

एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा
इन्दुमती महाभाग शोकेन करुणाकुला ॥ १४ ॥

विश्वास-प्रस्तुतिः

पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती
निःश्वासान्मुञ्चमाना सा वत्सहीना यथा हि गौः ॥ १५ ॥

मूलम्

पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती
निःश्वासान्मुञ्चमाना सा वत्सहीना यथा हि गौः ॥ १५ ॥

विश्वास-प्रस्तुतिः

आयू राजा स शोकेन दुःखेन महतान्वितः
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥ १६ ॥

मूलम्

आयू राजा स शोकेन दुःखेन महतान्वितः
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥ १७ ॥

मूलम्

तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥ १७ ॥

विश्वास-प्रस्तुतिः

दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥ १८ ॥

मूलम्

दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत
इति चिन्तापरो राजा दुःखितः प्रारुदद्भृशम् ॥ १९ ॥

मूलम्

तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत
इति चिन्तापरो राजा दुःखितः प्रारुदद्भृशम् ॥ १९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः १०६