१०५

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

गता सा नन्दन-वनं
सखीभिः सह क्रीडितुम्
तत्राकर्ण्य महद्-वाक्यम्
अप्रियं तु तदा पितुः ॥ १ ॥

मूलम्

गता सा नन्दनवनं सखीभिः सह क्रीडितुम्
तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः ॥ १ ॥

विश्वास-प्रस्तुतिः

चारणानां सु-सिद्धानां
भाषतां हर्षणेन तु
आयोर् गेहे महावीर्यो
विष्णु-तुल्य-पराक्रमः ॥ २ ॥

मूलम्

चारणानां सुसिद्धानां भाषतां हर्षणेन तु
आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः ॥ २ ॥

विश्वास-प्रस्तुतिः

भविष्यति सुत-श्रेष्ठो
हुण्डस्यान्तं करिष्यति
एवंविधं महद्-वाक्यम्
अप्रियं दुःखदायकम् ॥ ३ ॥

मूलम्

भविष्यति सुतश्रेष्ठो हुण्डस्यान्तं करिष्यति
एवंविधं महद्वाक्यमप्रियं दुःखदायकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

समाकर्ण्य समायाता
पितुर् अग्रे निवेदितम्
समासेन तया तस्य
पुरतो दुःखदायकम् ॥ ४ ॥

मूलम्

समाकर्ण्य समायाता पितुरग्रे निवेदितम्
समासेन तया तस्य पुरतो दुःखदायकम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

पितुरग्रे जगादाथ
पिता श्रुत्वाविस्मितः
शापम् अशोकसुन्दर्याः
सस्मार च पुरा-कृतम् ॥ ५ ॥

मूलम्

पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः
शापमशोकसुन्दर्याः सस्मार च पुराकृतम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

एतस्यार्थे तपस् तेपे
सेयं चाशोकसुन्दरी
गर्भस्य नाशनायैव
इन्दुमत्याः स दानवः ॥ ६ ॥

मूलम्

एतस्यार्थे तपस्तेपे सेयं चाशोकसुन्दरी
गर्भस्य नाशनायैव इन्दुमत्याः स दानवः ॥ ६ ॥

विश्वास-प्रस्तुतिः

विचक्रे उद्यमं दुष्टः
कालाकृष्टो दुरात्मवान्
छिद्रान्वेषी ततो भूत्वा
इन्दुमत्यास् तु नित्यशः ॥ ७ ॥

मूलम्

विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान्
छिद्रान्वेषी ततो भूत्वा इन्दुमत्यास्तु नित्यशः ॥ ७ ॥

विश्वास-प्रस्तुतिः

यदा पश्यति तां राज्ञीं
रूपौदार्य-गुणान्विताम्
दिव्य-तेजः-समायुक्तां
रक्षितां विष्णु-तेजसा ॥ ८ ॥

मूलम्

यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम्
दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा ॥ ८ ॥

विश्वास-प्रस्तुतिः

दिव्येन तेजसा युक्तां
सूर्य-बिम्बोपमां तु ताम्
तस्याः पार्श्वे महाभाग
रक्षणार्थं स्थितः सदा ॥ ९ ॥

मूलम्

दिव्येन तेजसा युक्तां सूर्यबिम्बोपमां तु ताम्
तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा ॥ ९ ॥

विश्वास-प्रस्तुतिः

दूरात् स दानवो दुष्टस्
तस्याश्च बहु दर्शयन्
नाना-विद्यां महोग्रां च
भीषिकां सुविभीषिकाम् ॥ १० ॥

मूलम्

दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन्
नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम् ॥ १० ॥

विश्वास-प्रस्तुतिः

गर्भस्य तेजसा युक्ता
रक्षिता विष्णु-तेजसा
भयं न जायते तस्या
मनस्य् एव कदा पुनः ॥ ११ ॥

मूलम्

गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा
भयं न जायते तस्या मनस्येव कदापुनः ॥ ११ ॥

विश्वास-प्रस्तुतिः

विफलो दानवो जात
उद्यमश्च निरर्थकः
मनीप्सितं नैव जातं
हुण्डस्यापि दुरात्मनः ॥ १२ ॥

मूलम्

विफलो दानवो जात उद्यमश्च निरर्थकः
मनीप्सितं नैव जातं हुण्डस्यापि दुरात्मनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं वर्षशतं पूर्णं
पश्यमानस्य तस्य च
प्रसूता सा हि पुत्रं च
स्वर्भानोस् तनया तदा ॥ १३ ॥

मूलम्

एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च
प्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा ॥ १३ ॥

विश्वास-प्रस्तुतिः

रात्राव् एव सुतश्रेष्ठ
तस्याः पुत्रो व्यजायत
तेजसा ऽतीव भात्य् एष
यथा सूर्यो नभस्-तले ॥ १४ ॥

मूलम्

रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत
तेजसातीव भात्येष यथा सूर्यो नभस्तले ॥ १४ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
अथ दासी महा-दुष्टा
काचित् सूति-गृहागता
अ-शौचाचार-संयुक्ता
महा-मङ्गल-वादिनी ॥ १५ ॥

मूलम्

सूत उवाच-
अथ दासी महादुष्टा काचित्सूतिगृहागता
अशौचाचारसंयुक्ता महामङ्गलवादिनी ॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्याः सर्वं समाज्ञाय
स हुण्डो दानवाधमः
दास्या अङ्गं प्रविश्यैव
प्रविष्टश् चायु-मन्दिरे ॥ १६ ॥

मूलम्

तस्याः सर्वं समाज्ञाय स हुण्डो दानवाधमः
दास्या अङ्गं प्रविश्यैव प्रविष्टश्चायुमन्दिरे ॥ १६ ॥

विश्वास-प्रस्तुतिः

महाजने प्रसुप्ते
निद्रयातीव-मोहिते
तं पुत्रं देव-गर्भाभम्
अपहृत्य बहिर् गतः ॥ १७ ॥

मूलम्

महाजने प्रसुप्ते च निद्रयातीवमोहिते
तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥ १७ ॥

विश्वास-प्रस्तुतिः

काञ्चनाख्यपुरे प्राप्तः
स्वकीये दानवाधमः
समाहूय प्रियां भार्यां
विपुलां वाक्यम् अब्रवीत् ॥ १८ ॥

मूलम्

काञ्चनाख्यपुरे प्राप्तः स्वकीये दानवाधमः
समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

वधस्वैनं महापापं
बालरूपं रिपुं मम
पश्चात् सूदस्य वै हस्ते
भोजनार्थं प्रदीयताम् ॥ १९ ॥

मूलम्

वधस्वैनं महापापं बालरूपं रिपुं मम
पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

नानाभेदैर् विभेदैश् च
पाचयस्व हि निर्घृणम्
सूद-हस्तान् महाभागे
पश्चाद् भोक्ष्ये न संशयः ॥ २० ॥

मूलम्

नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम्
सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः ॥ २० ॥

विश्वास-प्रस्तुतिः

वाक्यम् आकर्ण्य तद्भर्तुर्
विपुला विस्मिताभवत्
कस्मान् निर्घृणतां याति
भर्त्ता मम सुनिष्ठुरः ॥ २१ ॥

मूलम्

वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत्
कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः ॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वलक्षणसम्पन्नं
देवगर्भोपमं सुतम्
कस्य कस्मात् प्रभक्ष्येत
क्षमाहीनः सुनिर्घृणः ॥ २२ ॥

मूलम्

सर्वलक्षणसम्पन्नं देवगर्भोपमं सुतम्
कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः ॥ २२ ॥

विश्वास-प्रस्तुतिः

इत्येवं चिन्तयामास
कारुण्येन समन्विता
पुनः पप्रच्छ भर्तारं
कस्माद् भक्ष्यसि बालकम् ॥ २३ ॥

मूलम्

इत्येवं चिन्तयामास कारुण्येन समन्विता
पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

कस्माद् भवसि सङ्क्रुद्धो
अतीव निरपत्रपः
सर्वं मे कारणं ब्रूहि
तत्त्वेन दनुजेश्वर ॥ २४ ॥

मूलम्

कस्माद्भवसि सङ्क्रुद्धो अतीव निरपत्रपः
सर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर ॥ २४ ॥

विश्वास-प्रस्तुतिः

आत्मदोषं च वृत्तान्तं
समासेन निवेदितम्
शापमशोकसुन्दर्या
हुण्डेनापि दुरात्मना ॥ २५ ॥

मूलम्

आत्मदोषं च वृत्तान्तं समासेन निवेदितम्
शापमशोकसुन्दर्या हुण्डेनापि दुरात्मना ॥ २५ ॥

विश्वास-प्रस्तुतिः

तया ज्ञातं तु तत्सर्वं
कारणं दानवस्य वै
वध्यो ऽयं बालकः सत्यं
नो वा भर्त्ता मरिष्यति ॥ २६ ॥

मूलम्

तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै
वध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

इत्येवं प्रविचार्यैव
विपुला क्रोधमूर्च्छिता
मेकलां तु समाहूय
सैरन्ध्रीं वाक्यम् अब्रवीत् ॥ २७ ॥

मूलम्

इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता
मेकलां तु समाहूय सैरन्ध्रीं वाक्यमब्रवीत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

जह्य् एनं बालकं दुष्टं
मेकलेऽद्य महानसे
सूद-हस्ते प्रदेहि त्वं
हुण्ड-भोजन-हेतवे ॥ २८ ॥

मूलम्

जह्येनं बालकं दुष्टं मेकलेऽद्य महानसे
सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥ २८ ॥

विश्वास-प्रस्तुतिः

मेकला बालकं गृह्य
सूदम् आहूय चाब्रवीत्
राजादेशं कुरुष्वाद्य
पचस्वैनं हि बालकम् ॥ २९ ॥

मूलम्

मेकला बालकं गृह्य सूदमाहूय चाब्रवीत्
राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवम् आकर्णितं तेन
सूदेनापि महात्मना
आदाय बालकं हस्ताच्
छस्त्रम् उद्यम्य चोद्यतः ॥ ३० ॥

मूलम्

एवमाकर्णितं तेन सूदेनापि महात्मना
आदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः ॥ ३० ॥

विश्वास-प्रस्तुतिः

एष वै देवदेवस्य
दत्तात्रेयस्य तेजसा
रक्षितस् त्वायुपुत्रश् च
जहास पुनः पुनः ॥ ३१ ॥

मूलम्

एष वै देवदेवस्य दत्तात्रेयस्य तेजसा
रक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

हसन्तं तं समालोक्य
स सूदः कृपयान्वितः
सैरन्ध्री च कृपायुक्ता
सूदं तं प्रत्यभाषत ॥ ३२ ॥

मूलम्

हसन्तं तं समालोक्य स सूदः कृपयान्वितः
सैरन्ध्री च कृपायुक्ता सूदं तं प्रत्यभाषत ॥ ३२ ॥

विश्वास-प्रस्तुतिः

नैष वध्यस् त्वया सूद
शिशुर् एव महामते
दिव्यलक्षणसम्पन्नः
कस्य जातः सुसत्कुले ॥ ३३ ॥

मूलम्

नैष वध्यस्त्वया सूद शिशुरेव महामते
दिव्यलक्षणसम्पन्नः कस्य जातः सुसत्कुले ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सूद उवाच-
सत्यम् उक्तं त्वया भद्रे
वाक्यं वै कृपयान्वितम्
राजलक्षण-सम्पन्नो
रूपवान् कस्य बालकः ॥ ३४ ॥

मूलम्

सूद उवाच-
सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम्
राजलक्षणसम्पन्नो रूपवान्कस्य बालकः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

कस्माद् भोक्ष्यति दुष्टात्मा
हुण्डोऽयं दानवाधमः
येन वै रक्षितो वंशः
पूर्वम् एव सुकर्मणा ॥ ३५ ॥

मूलम्

कस्माद्भोक्ष्यति दुष्टात्मा हुण्डोऽयं दानवाधमः
येन वै रक्षितो वंशः पूर्वमेव सुकर्मणा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

आपत्स्व् अपि स जीवेत
दुर्गेषु नान्यथा भवेत्
सिन्धुवेगेन नीतस् तु
वह्निमध्ये गतो ऽथवा ॥ ३६ ॥

मूलम्

आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत्
सिन्धुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा ॥ ३६ ॥

विश्वास-प्रस्तुतिः

जीवते नात्र सन्देहो
यश्च कर्म-सहायवान्
तस्माद्धि क्रियते कर्म
धर्म-पुण्य-समन्वितम् ॥ ३७ ॥

मूलम्

जीवतेनात्र सन्देहो यश्च कर्मसहायवान्
तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः

आयुष्मन्तो नरास् तेन
प्रवदन्ति सुखं ततः
तारकं पालकं कर्म
रक्षते जाग्रते हि तत् ॥ ३८ ॥

मूलम्

आयुष्मन्तो नरास्तेन प्रवदन्ति सुखं ततः
तारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

मुक्तिदं जायते नित्यं मैत्र-स्थान-प्रदायकम्
दान-पुण्यान्वितं कर्म
प्रिय-वाक्य-समन्वितम् ॥ ३९ ॥

मूलम्

मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम्
दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

उपकारयुतं यश्च
करोति शुभ-कृत् तदा
तमेव रक्षते कर्म
सर्वदैव न संशयः ॥ ४० ॥

मूलम्

उपकारयुतं यश्च करोति शुभकृत्तदा
तमेव रक्षते कर्म सर्वदैव न संशयः ॥ ४० ॥

विश्वास-प्रस्तुतिः

अन्ययोनिं प्रयाति स्म
प्रेरितः स्वेन कर्मणा
किं करोति पिता माता
अन्ये स्व-जन-बान्धवाः ॥ ४१ ॥

मूलम्

अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणा
किं करोति पिता माता अन्ये स्वजनबान्धवाः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

कर्मणा निहतो यस्तु
न स्युस् तस्य च रक्षणे

सूत उवाच-
येनैव कर्मणा चैव
रक्षितश् चायुनन्दनः ॥ ४२ ॥

मूलम्

कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणे
सूत उवाच-
येनैव कर्मणा चैव रक्षितश्चायुनन्दनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्मात् कृपान्वितो जातः
सूदः कर्मवशानुगः
सैरन्ध्री च तथा जाता
प्रेरिता तस्य कर्मणा ॥ ४३ ॥

मूलम्

तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः
सैरन्ध्री च तथा जाता प्रेरिता तस्य कर्मणा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

द्वाभ्याम् एव सुतश् चायो
रक्षितश् चारुलक्षणः
रात्राव् एव प्रणीतोऽसौ
तस्माद्गेहान् महाश्रमे ॥ ४४ ॥

मूलम्

द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणः
रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वशिष्ठस्याश्रमे पुण्ये
सैरन्ध्र्या पुण्यकर्मणा
शुभे पर्णकुटीद्वारे
तस्मिन्नेव महाश्रमे ॥ ४५ ॥

मूलम्

वशिष्ठस्याश्रमे पुण्ये सैरन्ध्र्या पुण्यकर्मणा
शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥ ४५ ॥

विश्वास-प्रस्तुतिः

गता सा स्वगृहं पश्चान्
निक्षिप्य बालकोत्तमम्
एणं निपात्य सूदेन
पाचितं मांसम् एव हि ॥ ४६ ॥

मूलम्

गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम्
एणं निपात्य सूदेन पाचितं मांसमेव हि ॥ ४६ ॥

विश्वास-प्रस्तुतिः

भोजयित्वा सुदैत्येन्द्रो
हुण्डो हृष्टोभवत्तदा
शापम् अशोकसुन्दर्या
मोघं मेने तदा ऽसुरः ॥ ४७ ॥

मूलम्

भोजयित्वा सुदैत्येन्द्रो हुण्डो हृष्टोभवत्तदा
शापमशोकसुन्दर्या मोघं मेने तदासुरः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

हर्षेण महताविष्टः
स हुण्डो दानवेश्वरः

कुञ्जल उवाच-

प्रभाते विमले जाते
वशिष्ठो मुनिसत्तमः ॥ ४८ ॥

मूलम्

हर्षेण महताविष्टः स हुण्डो दानवेश्वरः
कुञ्जल उवाच-
प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

बहिर् गतो हि धर्मात्मा कुटीद्वारात् प्रपश्यति
सम्पूर्णं बालकं दृष्ट्वा
दिव्यलक्षणसंयुतम् ॥ ४९ ॥

मूलम्

बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति
सम्पूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

सम्पूर्णेन्दुप्रतीकाशं
सुन्दरं चारुलोचनम्

वशिष्ठ उवाच-
पश्यन्तु मुनयः सर्वे
यूयम् आगत्य बालकम् ॥ ५० ॥

मूलम्

सम्पूर्णेन्दुप्रतीकाशं सुन्दरं चारुलोचनम्
वशिष्ठ उवाच-
पश्यन्तु मुनयः सर्वे यूयमागत्य बालकम् ॥ ५० ॥

विश्वास-प्रस्तुतिः

कस्य केन समानीतं
रात्रौ द्वाराङ्गणे मम
देवगन्धर्व-गर्भाभं
राजलक्षणसंयुतम् ॥ ५१ ॥

मूलम्

कस्य केन समानीतं रात्रौ द्वाराङ्गणे मम
देवगन्धर्वगर्भाभं राजलक्षणसंयुतम् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

कन्दर्पकोटिसङ्काशं
पश्यन्तु मुनयोऽमलम्

महाकौतुक-संयुक्ता
हृष्टा द्विजवरास् ततः ॥ ५२ ॥

मूलम्

कन्दर्पकोटिसङ्काशं पश्यन्तु मुनयोऽमलम्
महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

समपश्यन् सुतं ते तु
आयोश्चैव महात्मनः
वशिष्ठः स तु धर्मात्मा
ज्ञानेनालोक्य बालकम् ॥ ५३ ॥

मूलम्

समपश्यन्सुतं ते तु आयोश्चैव महात्मनः
वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

आयुपुत्रं समाज्ञातं
चरित्रेण समन्वितम्
वृत्तान्तं तस्य दुष्टस्य
हुण्डस्यापि दुरात्मनः ॥ ५४ ॥

मूलम्

आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्
वृत्तान्तं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

कृपया ब्रह्मपुत्रस् तु
समुत्थाय सुबालकम्
कराभ्याम् अथ गृह्णाति
यावद् द्विजो वरोत्तमः ॥ ५५ ॥

मूलम्

कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम्
कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

तावत् पुष्पसुवृष्टिं
चक्रुर् देवाः सुतोपरि
ललितं सुस्वरं गीतं
जगुर् गन्धर्वकिन्नराः ॥ ५६ ॥

मूलम्

तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि
ललितं सुस्वरं गीतं जगुर्गन्धर्वकिन्नराः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

ऋषयो वेद-मन्त्रैस् तु
स्तुवन्ति नृपनन्दनम्
वशिष्ठस् तं समालोक्य
वरं वै दत्तवांस् तदा ॥ ५७ ॥

मूलम्

ऋषयो वेदमन्त्रैस्तु स्तुवन्ति नृपनन्दनम्
वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा ॥ ५७ ॥

विश्वास-प्रस्तुतिः

नहुषेत्येव ते नाम
ख्यातं लोके भविष्यति
हुषितो(=हुष् इति शब्दो न कृतः -सदा हसतीति) नैव तेनापि
बालभावैर् नराधिप ॥ ५८ ॥

मूलम्

नहुषेत्येव ते नाम ख्यातं लोके भविष्यति
हुषितो नैव तेनापि बालभावैर्नराधिप ॥ ५८ ॥

विश्वास-प्रस्तुतिः

तस्मान् नहुष ते नाम
देवपूज्यो भविष्यसि
जातकर्मादिकं कर्म
तस्य चक्रे द्विजोत्तमः ॥ ५९ ॥

मूलम्

तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि
जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

व्रतदानं विसर्गं च
गुरुशिष्यादिलक्षणम्
वेदं चाधीत्य सम्पूर्णं
षडङ्गं सपदक्रमम् ॥ ६० ॥

मूलम्

व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्
वेदं चाधीत्य सम्पूर्णं षडङ्गं सपदक्रमम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

सर्वाण्येव च शास्त्राणि
अधीत्य द्विजसत्तमात्
वशिष्ठाच्च धनुर्वेदं
सरहस्यं महामतिः ॥ ६१ ॥

मूलम्

सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्
वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

शस्त्राण्य् अस्त्राणि दिव्यानि
ग्राह-मोक्ष-युतानि च
ज्ञान-शास्त्रादिकं न्याय-
राजनीति-गुणादिकान् ॥ ६२ ॥

मूलम्

शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च
ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

वशिष्ठाद् आयुपुत्रश्च
शिष्यरूपेण भक्तिमान्
एवं स सर्वनिष्पन्नो
नाहुषश् चातिसुन्दरः ॥ ६३ ॥

मूलम्

वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्
एवं स सर्वनिष्पन्नो नाहुषश्चातिसुन्दरः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

वशिष्ठस्य प्रसादाच्च
चापबाणधरो ऽभवत् ॥ ६४ ॥

मूलम्

वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत् ॥ ६४ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पञ्चोत्तरशततमोऽध्यायः १०५