१०४

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

गते तस्मिन्महाभागे दत्तात्रेये महामुनौ
आजगाम महाराज आयुश्च स्वपुरं प्रति ॥ १ ॥

मूलम्

गते तस्मिन्महाभागे दत्तात्रेये महामुनौ
आजगाम महाराज आयुश्च स्वपुरं प्रति ॥ १ ॥

विश्वास-प्रस्तुतिः

इन्दुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम्
सर्वकामसमृद्धार्थमिन्द्रस्य सदनोपमम् ॥ २ ॥

मूलम्

इन्दुमत्या गृहं हृष्टः प्रविवेश श्रियान्वितम्
सर्वकामसमृद्धार्थमिन्द्रस्य सदनोपमम् ॥ २ ॥

विश्वास-प्रस्तुतिः

राज्यं चक्रे स मेधावी यथा स्वर्गे पुरन्दरः
स्वर्भानुसुतया सार्द्धमिन्दुमत्या द्विजोत्तम ॥ ३ ॥

मूलम्

राज्यं चक्रे स मेधावी यथा स्वर्गे पुरन्दरः
स्वर्भानुसुतया सार्द्धमिन्दुमत्या द्विजोत्तम ॥ ३ ॥

विश्वास-प्रस्तुतिः

सा च इन्दुमती राज्ञी गर्भमाप फलाशनात्
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ॥ ४ ॥

मूलम्

सा च इन्दुमती राज्ञी गर्भमाप फलाशनात्
दत्तात्रेयस्य वचनाद्दिव्यतेजः समन्वितम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

इन्दुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम्
रात्रौ दिवान्वितं तात बहुमङ्गलदायकम् ॥ ५ ॥

मूलम्

इन्दुमत्या महाभाग स्वप्नं दृष्टमनुत्तमम्
रात्रौ दिवान्वितं तात बहुमङ्गलदायकम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

गृहान्तरे विशन्तं च पुरुषं सूर्यसन्निभम्
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ॥ ६ ॥

मूलम्

गृहान्तरे विशन्तं च पुरुषं सूर्यसन्निभम्
मुक्तामालान्वितं विप्रं श्वेतवस्त्रेणशोभितम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

श्वेतपुष्पकृतामाला तस्य कण्ठे विराजते
सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ ७ ॥

मूलम्

श्वेतपुष्पकृतामाला तस्य कण्ठे विराजते
सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ ७ ॥

विश्वास-प्रस्तुतिः

चतुर्भुजः शङ्खपाणिर्गदाचक्रासिधारकः
छत्रेण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ ॥

मूलम्

चतुर्भुजः शङ्खपाणिर्गदाचक्रासिधारकः
छत्रेण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ ॥

विश्वास-प्रस्तुतिः

शोभमानो महातेजा दिव्याभरणभूषितः
हारकङ्कणकेयूर नूपुराभ्यां विराजितः ॥ ९ ॥

मूलम्

शोभमानो महातेजा दिव्याभरणभूषितः
हारकङ्कणकेयूर नूपुराभ्यां विराजितः ॥ ९ ॥

विश्वास-प्रस्तुतिः

चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः ॥ १० ॥

मूलम्

चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः
एवंविधो महाप्राज्ञो नरः कश्चित्समागतः ॥ १० ॥

विश्वास-प्रस्तुतिः

इन्दुमतीं समाहूय स्नापिता पयसा तदा
शङ्खेन क्षीरपूर्णेन शशिवर्णेन भामिनी ॥ ११ ॥

मूलम्

इन्दुमतीं समाहूय स्नापिता पयसा तदा
शङ्खेन क्षीरपूर्णेन शशिवर्णेन भामिनी ॥ ११ ॥

विश्वास-प्रस्तुतिः

रत्नकाञ्चनबद्धेन सम्पूर्णेन पुनः पुनः
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ ॥

मूलम्

रत्नकाञ्चनबद्धेन सम्पूर्णेन पुनः पुनः
श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

महामणियुतं दीप्तं धामज्वालासमाकुलम्
क्षिप्तं तेन मुखप्रान्ते दत्तं मुक्ताफलं पुनः ॥ १३ ॥

मूलम्

महामणियुतं दीप्तं धामज्वालासमाकुलम्
क्षिप्तं तेन मुखप्रान्ते दत्तं मुक्ताफलं पुनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् ॥ १४ ॥

मूलम्

कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः
पद्मं हस्ते ततो दत्वा स्वस्थानं प्रति जग्मिवान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम्
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् ॥ १५ ॥

मूलम्

एवंविधं महास्वप्नं तया दृष्टं सुतोत्तमम्
समाचष्ट महाभागा आयुं भूमिपतीश्वरम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

समाकर्ण्य महाराजश्चिन्तयामास वै पुनः
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् ॥ १६ ॥

मूलम्

समाकर्ण्य महाराजश्चिन्तयामास वै पुनः
समाहूय गुरुं पश्चात्कथितं स्वप्नमुत्तमम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम्
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम ॥ १७ ॥

मूलम्

शौनकं सुमहाभागं सर्वज्ञं ज्ञानिनां वरम्
राजोवाच-
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम ॥ १७ ॥

विश्वास-प्रस्तुतिः

विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम्
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता ॥ १८ ॥

मूलम्

विप्रो गेहं विशन्दृष्टः किमिदं स्वप्नकारणम्
शौनक उवाच-
वरो दत्तस्तु ते पूर्वं दत्तात्रेयेण धीमता ॥ १८ ॥

विश्वास-प्रस्तुतिः

आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् ॥ १९ ॥

मूलम्

आदिष्टं च फलं राज्ञां सुगुणं सुतहेतवे
तत्फलं किं कृतं राजन्कस्मै त्वया निवेदितम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

सुभार्यायै मया दत्तमिति राज्ञोदितं वचः
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः ॥ २० ॥

मूलम्

सुभार्यायै मया दत्तमिति राज्ञोदितं वचः
श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः ॥ २० ॥

विश्वास-प्रस्तुतिः

दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः
वैष्णवांशेन संयुक्तो भविष्यति न संशयः ॥ २१ ॥

मूलम्

दत्तात्रेयप्रसादेन तव गेहे सुतोत्तमः
वैष्णवांशेन संयुक्तो भविष्यति न संशयः ॥ २१ ॥

विश्वास-प्रस्तुतिः

स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया
इन्द्रोपेन्द्र समः पुत्रो दिव्यवीर्यो भविष्यति ॥ २२ ॥

मूलम्

स्वप्नस्य कारणं राजन्नेतत्ते कथितं मया
इन्द्रोपेन्द्र समः पुत्रो दिव्यवीर्यो भविष्यति ॥ २२ ॥

विश्वास-प्रस्तुतिः

पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति ॥ २३ ॥

मूलम्

पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य वर्द्धनः
धनुर्वेदे च वेदे च सगुणोसौ भविष्यति ॥ २३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा स राजानं शौनको गतवान्गृहम्
हर्षेण महताविष्टो राजाभूत्प्रियया सह ॥ २४ ॥

मूलम्

एवमुक्त्वा स राजानं शौनको गतवान्गृहम्
हर्षेण महताविष्टो राजाभूत्प्रियया सह ॥ २४ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुरधिकशततमोऽध्यायः १०४