कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
सर्वं वत्स प्रवक्ष्यामि यत्त्वयोक्तं ममाधुना
उभयोर्देवनं यत्तु यस्माज्जातं द्विजोत्तम ॥ १ ॥
मूलम्

एकदा तु महादेवी पार्वती प्रमदोत्तमा
क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत् ॥ २ ॥

ममोरसि महादेव जातं महत्सु दोहदम्
दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् ॥ ३ ॥

श्रीमहादेव उवाच-
एवमस्तु महादेवि नन्दनं देवसङ्कुलम्
दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम् ॥ ४ ॥

एवमाभाष्य तां देवीं तया सह गणैस्ततः
स गन्तुमुत्सुको देवो नन्दनं वनमेव तु ॥ ५ ॥

सर्वगं सुन्दरं दिव्यपृष्ठमाभरणैर्युतम्
घण्टामालाभिसंयुक्तं किङ्किणीजालमालिनम् ॥ ६ ॥

चामरैः पट्टसूत्रैश्च मुक्तामालासुशोभितम्
हंसचन्द्रप्रतीकाशं वृषभं चारुलक्षणम् ॥ ७ ॥

समारूढो महादेवो गणकोटिसमावृतः
नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः ॥ ८ ॥

वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः
अतिबलःसुबलो नाम मेघनादो घटावहः ॥ ९ ॥
मूलम्
वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः
अतिबलःसुबलो नाम मेघनादो घटावहः ॥ ९ ॥
विश्वास-प्रस्तुतिः
घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरबाहुकः
केशरी किङ्करो नाम चण्डहासः प्रजापतिः ॥ १० ॥

एते चान्ये च बहवः सनकाद्यास्तपोबलाः
गणैश्च कोटिसङ्ख्यातैः सशिवः परिवारितः ॥ ११ ॥

नन्दनं वनमेवापि सेवितं देवकिन्नरैः
प्रविवेश महादेवो गणैर्देव्यासमन्वितः ॥ १२ ॥

दर्शयामास देवेशो गिरिजायै सुशोभनम्
नानापादपसम्पन्नं बहुपुष्पसमाकुलम् ॥ १३ ॥

दिव्यं रम्भावनाकीर्णं पुष्पवद्भिस्तु चम्पकैः
मल्लिकाभिः सुपुष्पाभिर्मालतीजालसङ्कुलम् ॥ १४ ॥

नित्यं पुष्पितशाखाभिः पाटलानां वनोत्तमैः
राजमानं महावृक्षैश्चन्दनैश्चारुगन्धिभिः ॥ १५ ॥

देवदारुवनैर्जुष्टं तुङ्गवृक्षैः समाकुलम्
सरलैर्नालिकेरैश्च तद्वत्पूगीफलद्रुमैः ॥ १६ ॥

खर्जूरपनसैर्दिव्यैः फलभारावनामितैः
परिमलोद्गारसंयुक्तैर्गुरुवृक्षसमाकुलम् ॥ १७ ॥

अग्नितेजः समाभासैः सप्तपर्णैः सुशोभितम्
राजवृक्षैः कदम्बैश्च पुष्पशोभान्वितं सदा ॥ १८ ॥

जम्बूनिम्बमहावृक्षैर्मातुलिगैः समाकुलम्
नारङ्गैः सिन्धुवारैश्च प्रियालैः शालतिन्दुकैः ॥ १९ ॥

उदुम्बरैः कपित्थैश्च जम्बूपादपशोभितम्
लकुचैः पुष्पसौगन्धैः स्फुटनागैः समाकुलम् ॥ २० ॥

चूतैश्च फलराजाद्यैर्नीलैश्चैव घनोपमैः
नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्ततः ॥ २१ ॥

तमालैस्तु विशालैश्च सेवितं तपनोपमैः
शोभितं नन्दनं पुण्यं शिवेन परिदर्शितम् ॥ २२ ॥

शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः
सर्वकामफलोपेतैः कल्याणफलदायकैः ॥ २३ ॥

कल्पद्रुमैर्महापुण्यैः शोभितं नन्दनं वनम्
नानापक्षिनिनादैश्च सङ्कुलं मधुरस्वरैः ॥ २४ ॥

कोकिलानां रुतैः पुण्यैरुद्घुष्टं मधुकारिभिः
मकरन्दविलुब्धानां पक्षिणां रुतनादितम् ॥ २५ ॥

नानवृक्षैः समाकीर्णं नानामृगगणायुतम्
वृक्षेभ्यो विविधैः पुष्पैस्सौगन्धैः पतितैर्भुवि ॥ २६ ॥

सा च भू राजते पुत्र पूजिते वसुगन्धिभिः
तत्र वाप्यो महापुण्याः पद्मसौगन्धनिर्मलाः ॥ २७ ॥

तोयैस्ताः पूरिताः पुत्र हंसकारण्डसेविताः
तडागैः सागरप्रख्यैस्तोयसौगन्धपूजितैः ॥ २८ ॥

नन्दनं भाति सर्वत्र गणैरप्सरसां महत्
विमानैः कलशैः शुभ्रैर्हेमदण्डैः सुशोभनैः ॥ २९ ॥

नन्दनो वनराजस्तु प्रासादैस्तु सुधान्वितैः
यत्र तत्र प्रभात्येव किन्नराणां महागणैः ॥ ३० ॥

गन्धर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम
देवतानां विनोदैश्च मुनिवृन्दैः सुयोगिभिः ॥ ३१ ॥

सर्वत्र शुशुभे पुण्यसंस्थानं नन्दनस्य च ॥ ३२ ॥

एवं समालोक्य महानुभावो भवः सुदेव्यासहितो महात्मा
श्रीनन्दनं पुण्यवतां निवासं सुखाकरं शान्तिगुणोपपन्नम् ॥ ३३ ॥

आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः
पुष्पैः फलैः कामगुणोपपन्नः कल्पद्रुमो नन्दनकाननेपि ॥ ३४ ॥

एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे
अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम् ॥ ३५ ॥

तेजस्विनां सूर्यवरः समन्तात्स देव देवीं च शिवो बभाषे
शिव उवाच-
अस्य प्रतिष्ठा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च ॥ ३६ ॥

नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्त्तापि यथैव धाता
सुखावहानां च यथा सुचन्द्रो भूतेषु मुख्या च यथैव पृथ्वी ॥ ३७ ॥

नगेन्द्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः
महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव ॥ ३८ ॥

विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः
तथैव मुख्यस्तरुराज एष सर्वातिथिर्देवपतेः प्रियोयम् ॥ ३९ ॥

श्रीपार्वत्युवाच-
गुणान्नु शम्भो मम कीर्त्तयस्व वृक्षाधिपस्यास्य शुभान्सुपुण्यान्
आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हि तस्य ॥ ४० ॥

यं यं कल्पयन्ति सुपुण्यदेवा देवोपमा देववराश्च कान्ते
तं तं हि तेभ्यः प्रददाति वृक्षः कल्पद्रुमो नाम वरिष्ठ एषः ॥ ४१ ॥

अस्माच्च सर्वे प्रभवन्ति पुण्या दुःप्राप्यमत्रैव तपोधिकास्ते
जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महाप्रधानाः ॥ ४२ ॥

शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिन्त्य
तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपम् ॥ ४३ ॥

सर्वाङ्गरूपां सगुणां सुरूपां तस्मात्सुवृक्षाद्गिरिजा प्रलेभे
विश्वस्य मोहाय यथोपविष्टा साहाय्यरूपा मकरध्वजस्य ॥ ४४ ॥

क्रीडानिधानं सुखसिद्धिरूपं सर्वोपपन्ना कमलायताक्षी
पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः ॥ ४५ ॥

प्रभासु तद्वद्विमला सुतेजा लीला सुतेजाश्च सुकुञ्चितास्ते
प्रलम्बकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च ॥ ४६ ॥

प्रबद्धकुन्ता दृढकेशबन्धैर्विभाति सा रूपवरेण बाला
सीमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् ॥ ४७ ॥

सीमन्तमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सतेजाः
भालेषु पद्मे मृगनाभिपद्म समुत्थतेजः प्रकरैर्विभाति ॥ ४८ ॥

सीमन्तमूले तिलकस्य तेजः प्रकाशयेद्रूपश्रियं सुलोके
केशेषु मुक्ताफलके च भाले तस्याः सुशोभां विकरोति नित्यम् ॥ ४९ ॥

यथा सुचन्द्रः परिभाति भासा सा रम्यचेष्टेव विभाति तद्वत्
सम्पूर्णचन्द्रोपि यथा विभाति ज्योत्स्नावितानेन हिमांशुजालः ॥ ५० ॥

तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च
हिमांशुरेवापि कलङ्कयुक्तः सङ्क्षीयते नित्यकलाविहीनः ॥ ५१ ॥

सम्पूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कम्
गन्धं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे ॥ ५२ ॥

पद्मानना सर्वगुणोपपन्ना मदीयभावैः परिनिर्मितेयम्
गन्धं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वाति जगत्समीरः ॥ ५३ ॥

लज्जाभियुक्तः सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति
कतिमतिनियतबुद्ध्यासौ धियो वदन्ति सुमदननृपतेः कोशं समुद्र कलाभिः ॥ ५४ ॥

सुवरदशनरत्नैर्हास्यलीलाभियुक्ता अरुणअधरबिम्बंशोभमानस्तु आस्यः ॥ ५५ ॥

सुभ्रूः सुनासिका तस्याः सुकर्णौ रत्नभूषितौ
हेमकान्तिसमोपेतौ कपोलौ दीप्तिसंयुतौ ॥ ५६ ॥

रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम्
सौभाग्यशीलशृङ्गारैस्तिस्रो रेखा इहैव हि ॥ ५७ ॥

सुस्तनौ कठिनौ पीनौ वर्तुलाकारसन्निभौ
तस्याः कन्दर्पकलशावभिषेकाय कल्पितौ ॥ ५८ ॥

अंसावतीव शोभेते सुसमौ मानसान्वितौ
सुभुजौ वर्तुलौ श्लक्ष्णौ सुवर्णौ लक्षणान्वितौ ॥ ५९ ॥

सुसमौ करपद्मौ तु पद्मवर्णौ सुशीतलौ
दिव्यलक्षणसम्पन्नौ पद्मस्वस्तिकसंयुतौ ॥ ६० ॥

सरलाः पद्मसंयुक्ता अङ्गुल्यस्तु नखान्विताः
नखानि च सुतीक्ष्णानि जलबिन्दुनिभानि च ॥ ६१ ॥

पद्मगर्भप्रतीकाशो वर्णस्तदङ्गसम्भवः
पद्मगन्धा च सर्वाङ्गे पद्मेव भाति भामिनी ॥ ६२ ॥

सर्वलक्षणसम्पन्ना नगकन्या सुशोभना
रक्तोत्पलनिभौ पादौ सुश्लक्ष्णौ चातिशोभनौ ॥ ६३ ॥

रत्नज्योतिः समाकारा नखाः पादाग्रसम्भवाः
यथोद्दिष्टं च शास्त्रेषु तथा चाङ्गेषु दृश्यते ॥ ६४ ॥

सर्वाभरणशोभाङ्गी हारकङ्कणनूपुरा
मेखलाकटिसूत्रेण काञ्चीनादेन राजते ॥ ६५ ॥

नीलेन पट्टवस्त्रेण परां शोभां गता शुभा
कञ्चुकेनापि दिव्येन सुरक्तेन गुणान्विता ॥ ६६ ॥

पार्वती कल्पिताद्भावाद्गुणं प्राप्ता महोदयम्
कल्पद्रुमान्मुदं लेभे शङ्करं वाक्यमब्रवीत् ॥ ६७ ॥

यथोक्तं तु त्वया देव तथा दृष्टो मया द्रुमः
यादृशं कल्प्यते भावस्तादृशं परिदृश्यते ॥ ६८ ॥

सूत उवाच-
अथ सा चारुसर्वाङ्गी तयोः पार्श्वं समेत्य च
पादाम्बुजं ननामाथ सा भक्त्या भवयोस्तदा ॥ ६९ ॥

उवाच वचनं स्निग्धं हृद्यं हारि च सा तदा
कस्मात्सृष्टा त्वया नाथ मातर्वद स्वकारणम् ॥ ७० ॥

श्रीदेव्युवाच-
वृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः
सद्यः प्राप्तं फलं भद्रे भवती रूपसम्पदा ॥ ७१ ॥

अशोकसुन्दरी नाम्ना लोके ख्यातिं प्रयास्यसि
सर्वसौभाग्यसम्पन्ना मम पुत्री न संशयः ॥ ७२ ॥

सोमवंशेषु विख्यातो यथा देवः पुरन्दरः
नहुषोनाम राजेन्द्रस्तव नाथो भविष्यति ॥ ७३ ॥

एवं दत्वा वरं तस्यै जगाम गिरिजा गिरिम्
कैलासं शङ्करेणापि मुदा परमया युता ॥ ७४ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्व्यधिकशततमोऽध्यायः १०२