१०१

सूत उवाच-

विश्वास-प्रस्तुतिः

देवदेवो हृषीकेशस्त्वङ्गपुत्रं नृपोत्तमम्
समाचष्ट महाश्रेय आख्यानं पापनाशनम् ॥ १ ॥

मूलम्

श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम्
द्विजस्यापि च वृत्तान्तं कुञ्जलस्य महात्मनः ॥ २ ॥

विष्णुरुवाच-
कुञ्जलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च
समाहूय मुदायुक्त उवाचैनं कपिञ्जलम् ॥ ३ ॥

किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे
भोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम ॥ ४ ॥

तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम्
कपिञ्जल उवाच-
यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम् ॥ ५ ॥

यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया
तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥ ६ ॥

शृण्वन्तु भ्रातरः सर्वे मातस्त्वं शृणु साम्प्रतम्
कैलासः पर्वतश्रेष्ठो धवलश्चन्द्र सन्निभः ॥ ७ ॥

नानाधातुसमाकीर्णो नानावृक्षोपशोभितः
गङ्गाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः ॥ ८ ॥

नदीनां तु सहस्राणि दिव्यानि विविधानि च
यस्मात्तात प्रसूतानि जलानि विविधानि च ॥ ९ ॥

तडागानि सहस्राणि सोदकानि महागिरौ
नद्यः सन्ति विशालिन्यो हंससारससेविताः ॥ १० ॥

तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाः
वनानि विविधान्येव पुष्पितानि फलानि च ॥ ११ ॥

नानावृक्षोपयुक्तानि हरितानि शुभानि च
किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः ॥ १२ ॥

गन्धर्वचारणैः सिद्धैर्देववृन्दैः सुशोभितः
दिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः ॥ १३ ॥

दिव्यगन्धैः सुशोभाढ्यैर्नानारत्नसमन्वितः
शिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः ॥ १४ ॥

सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलः
चन्दनैश्चारुगन्धैश्च बकुलैर्नीलपुष्पकैः ॥ १५ ॥

नानापुष्पमयैर्वृक्षैः सर्वत्र समलङ्कृतः
पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥ १६ ॥

षट्पदानां निनादैश्च वृक्षौघैर्मधुरायते
रुतैश्च कोकिलानां तु शोभते स वनो गिरिः ॥ १७ ॥

गणकोटिसमाकीर्णं तत्रास्ति शिवमन्दिरम्
अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम् ॥ १८ ॥

सिंहैश्च गर्जमानैश्च सैरिभैः कुञ्जरैस्ततः
दिग्गजानां सुघोषैश्च शब्दितं च समन्ततः ॥ १९ ॥

नानामृगैः समाकीर्णं शाखामृगगणाकुलम्
मयूरकेकाघोषैश्च गुहासु च विनादितम् ॥ २० ॥

कन्दरैर्लेपनैः कूटैः सानुभिश्च विराजितम्
नानाप्रस्रवणोपेतमोषधीभिर्विराजितम् ॥ २१ ॥

दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम्
सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥ २२ ॥

पुलिन्दभिल्लकोलैश्च सेवितं पर्वतोत्तमम्
विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते ॥ २३ ॥

अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मङ्गलैः शुभैः
गङ्गोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे ॥ २४ ॥

शङ्करस्य गृहं तत्र कैलासं गतवानहम्
तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥ २५ ॥

श्रूयतामभिधास्यामि तात सर्वं मयोदितम्
शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात् ॥ २६ ॥

हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुवि
गङ्गायाश्च महाभाग रंहसा घोषभूषितः ॥ २७ ॥

कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतः
दशयोजनमानेन तत्र गङ्गा ह्रदो महान् ॥ २८ ॥

महातोयेन पुण्येन विमलेन विराजते
सर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते ॥ २९ ॥

सामोच्चारेण पुण्येन दिव्येन मधुरेण च
हंसास्तत्र प्रकूजन्ति सरस्तेन विराजते ॥ ३० ॥

तस्य तीरे शिलायां वै हिमकन्या महामते
आसीना मुक्तकेशान्ता रूपद्रविणशालिनी ॥ ३१ ॥

दिव्यरूपसुसम्पन्ना सगुणा दिव्यलक्षणा
दिव्यालङ्कारभूषा च तस्यास्तीरे विराजते ॥ ३२ ॥

न जाने गिरिराजस्य तनया वा महोदधेः
नो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति ॥ ३३ ॥

इन्द्राणी वा महाभागा रोहिणी वा भविष्यति
ईदृशी रूपसम्पत्तिर्युवतीनां न दृश्यते ॥ ३४ ॥

अन्यासां च सुदिव्यानां नारीणां तात सर्वथा
यादृशं रूपसम्भावं गुणशीलं प्रदृश्यते ॥ ३५ ॥

अप्सरसां कदा नास्ति तादृशं रूपलक्षणम्
यादृशं तु मया दृष्टं तदङ्गं विश्वमोहनम् ॥ ३६ ॥

शिलापदे समासीना दुःखेनापि समाकुला
रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना ॥ ३७ ॥

अश्रूणि मुञ्चमाना सा मुक्ताभानि बहूनि च
निर्मलानि सरस्यत्र पतन्त्येव महामते ॥ ३८ ॥

बिन्दवो मौक्तिकाभास्ते निपतन्ति महोदके
तेभ्यो भवन्ति पद्मानि हृद्यानि सुरभीणि तु ॥ ३९ ॥

पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते
गङ्गाम्भसि तरन्त्येव असङ्ख्यातानि तानि तु ॥ ४० ॥

पतितानि सुहृद्यानि रंहसा यानि तानि तु
गङ्गाप्रवाहमध्ये तु हंसवृन्दैः सुसेविते ॥ ४१ ॥

भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतः
कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्दरम् ॥ ४२ ॥

वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः
हंसवृन्दसमाकीर्णो जलपक्षि समाकुलः ॥ ४३ ॥

नानावर्णविशेषाणि सन्ति पद्मानि तत्र च
प्रवाहे निर्मले तात मुनिवृन्दनिषेविते ॥ ४४ ॥

अश्रुभ्यो यानि जातानि प्रभाते कमलानि तु
गङ्गोदकप्लुतान्येव सौरभाणि महान्ति च ॥ ४५ ॥

प्रतरन्ति प्रवाहे तु निर्मले जलपूरिते
मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते ॥ ४६ ॥

रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः
देवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा ॥ ४७ ॥

तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः
जटाभारसमाक्रान्तो निर्वासा दण्डधारकः ॥ ४८ ॥

निराधारो निराहारस्तपसातीव दुर्बलः
कृशाङ्गोऽप्यस्थिसङ्घातस्त्वचामात्रेण वेष्टितः ॥ ४९ ॥

भस्मोद्धूलितमात्राणि सर्वाङ्गानि महात्मनः
शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥ ५० ॥

शिवभक्तिसमासीनो दुराधारो महातपाः
अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च ॥ ५१ ॥

गङ्गातोयात्समानीय देवदेवं प्रपूजयेत्
रत्नेश्वरं महाभागो गीतनृत्यविशारदः ॥ ५२ ॥

गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः
मठमागत्य धर्मात्मा रोदते सुस्वरैरपि ॥ ५३ ॥

एतद्दृष्टं मया तात अपूर्वं वदतांवर
कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम् ॥ ५४ ॥

सा का नारी महाभागा कस्मात्तात प्ररोदिति
कस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम् ॥ ५५ ॥

तन्मे त्वं विस्तराद्ब्रूहि सर्वसन्देहकारणम्
एवमुक्तो महाप्राज्ञः कुञ्जलोपि सुतेन हि ॥ ५६ ॥

कपिञ्जलेन प्रोवाच विस्तराच्छृण्वतो मुनेः ॥ ५७ ॥