विष्णुरुवाच-
विश्वास-प्रस्तुतिः
नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता
विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ॥ १ ॥
मूलम्
नर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता
विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ॥ १ ॥
विश्वास-प्रस्तुतिः
वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः
समाचष्टे स धर्मात्मा महिमानं पितुः पुरः ॥ २ ॥
मूलम्
वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः
समाचष्टे स धर्मात्मा महिमानं पितुः पुरः ॥ २ ॥
विश्वास-प्रस्तुतिः
यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम्
तत्सर्वं कथयामास सुप्रसन्नेन चेतसा ॥ ३ ॥
मूलम्
यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम्
तत्सर्वं कथयामास सुप्रसन्नेन चेतसा ॥ ३ ॥
विश्वास-प्रस्तुतिः
कुञ्जलोपि च वृत्तान्तं समाकर्ण्य स भूपतेः
हर्षेण महताविष्टः पुत्रमालिङ्ग्य विज्वलम् ॥ ४ ॥
मूलम्
कुञ्जलोपि च वृत्तान्तं समाकर्ण्य स भूपतेः
हर्षेण महताविष्टः पुत्रमालिङ्ग्य विज्वलम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने
उपकारं महापुण्यं वासुदेवस्य कीर्तनात् ॥ ५ ॥
मूलम्
आह पुण्यं कृतं वत्स त्वया राज्ञे महात्मने
उपकारं महापुण्यं वासुदेवस्य कीर्तनात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
एवमाभाष्य तं पुत्रमाशीर्भिरभिनन्द्य च
पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः ॥ ६ ॥
मूलम्
एवमाभाष्य तं पुत्रमाशीर्भिरभिनन्द्य च
पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः
एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् ॥ ७ ॥
मूलम्
स्थितः सरित्तटे रम्ये च्यवनस्योपपश्यतः
एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम्
वेन उवाच-
अमृतं शङ्खपात्रेण पानार्थं मम चार्पितम् ॥ ८ ॥
मूलम्
वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम्
वेन उवाच-
अमृतं शङ्खपात्रेण पानार्थं मम चार्पितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले
उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा ॥ ९ ॥
मूलम्
तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले
उत्तमं वैष्णवं ज्ञानं पानानामिह सर्वदा ॥ ९ ॥
विश्वास-प्रस्तुतिः
त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते
श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते ॥ १० ॥
मूलम्
त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते
श्रोतुं हि देवदेवेश मम श्रद्धा विवर्द्धते ॥ १० ॥
विश्वास-प्रस्तुतिः
कथयस्व प्रसादान्मे कुञ्जलस्यापि चेष्टितम्
महात्मना किमुक्तं च चतुर्थं तनयं प्रति ॥ ११ ॥
मूलम्
कथयस्व प्रसादान्मे कुञ्जलस्यापि चेष्टितम्
महात्मना किमुक्तं च चतुर्थं तनयं प्रति ॥ ११ ॥
विश्वास-प्रस्तुतिः
तत्त्वं सुविस्तरादेव कृपया कथयस्व मे
श्रीभगवानुवाच-
श्रूयतामभिधास्यामि चरित्रं कुञ्जलस्य च ॥ १२ ॥
मूलम्
तत्त्वं सुविस्तरादेव कृपया कथयस्व मे
श्रीभगवानुवाच-
श्रूयतामभिधास्यामि चरित्रं कुञ्जलस्य च ॥ १२ ॥
विश्वास-प्रस्तुतिः
बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च
इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम् ॥ १३ ॥
मूलम्
बहुश्रेयः समायुक्तं चरित्रं च्यवनस्य च
इदं पुण्यं नरश्रेष्ठ आख्यानं पापनाशनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत् ॥ १४ ॥
मूलम्
यः शृणोति नरो भक्त्या गोसहस्रफलं लभेत् ॥ १४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे शततमोऽध्यायः १००