०९९

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च
धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव ॥ १ ॥

मूलम्

गतासु तृष्णा क्षुधया समेता देवोपमो भूमिपतिर्बभूव
भार्या च तस्यापि विभाति रूपैर्युक्तावुभौ पापविबन्धमाप्तौ ॥ २ ॥

देवः सुदेवैः परिवारितोसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः
आगत्य भूपं गतकल्मषं तं श्रीशङ्खचक्राब्जगदासिधर्ता ॥ ३ ॥

श्रीनारदो भार्गव व्यास पुण्या समागतस्तत्र मृकण्डसूनुः
वाल्मीकि नामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ॥ ४ ॥

गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च
आजग्मुरेते हरिणा समेता विष्णुप्रिया भागवतां वरिष्ठाः ॥ ५ ॥

पुण्याः सुधन्या गतकल्मषास्ते हरेः सुपादाम्बुजभक्तियुक्ताः
श्रीवासुदेवं परिवार्य तस्थुः स्तुवन्ति भूपं विविधप्रकारैः ॥ ६ ॥

देवाश्च सर्वे हुतभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः
गायन्ति दिव्यं मधुरं मनोहरं गन्धर्वराजादिसुगायनाश्च ॥ ७ ॥

सुवेद युक्तैः परमार्थसम्मितैः स्तवैः सुपुण्यैर्मुनयः स्तुवन्ति
दृष्ट्वा पतिं भूपतिमेव देवो हरिर्बभाषे वचनं मनोहरम् ॥ ८ ॥

वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः
हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ॥ ९ ॥

नीलोत्पलाभं मुरघातिनं प्रभुं तं शङ्खचक्रासिगदाप्रधारिणम्
श्रियासमेतं परमेश्वरं तं रत्नोज्ज्वलं कङ्कणहारभूषितम् ॥ १० ॥

रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितम्
सुदिव्यगन्धैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गतो नृपः ॥ ११ ॥

दण्डप्रणामैः सततं नमाम जयेति वाचाथ महानृपस्तदा
दासोस्मि भृत्योस्मि पुरः स ते सदा भक्तिं न जाने न च भावमुत्तमम् ॥ १२ ॥

जायान्वितं मामिह चागतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम्
धन्यास्तु ते माधव मानवा द्विजाः सदैव ते ध्यानमनोविलीनाः ॥ १३ ॥

समुच्चरन्तो भव माधवेति प्रयान्ति वैकुण्ठमितः सुनिर्मलाः
तवैव पादाम्बुजनिर्गतं पयः पुण्यं तथा ये शिरसा वहन्ति ॥ १४ ॥

समस्ततीर्थोद्भव तोय आप्लुतास्ते मानवा यान्ति हरेः सुधाम ॥ १५ ॥

नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया
कस्य पुण्यस्य सङ्गेन वरं मह्यं प्रयच्छसि ॥ १६ ॥

हरिरुवाच-
वासुदेवाभिधानं यन्महापातकनाशनम्
भवता विज्वलात्पुण्याच्छ्रुतं राजन्विकल्मषः ॥ १७ ॥

तेन त्वं मुक्तिभागी च सञ्जातो नात्र संशयः
मम लोके प्रभुङ्क्ष्व त्वं दिव्यान्भोगान्मनोनुगान् ॥ १८ ॥

राजोवाच-
यदिदेववरोदेयोममदीनस्यवैत्वया
विज्वलायप्रयच्छत्वम्प्रथमंवरमुत्तमम् ॥ १९ ॥

विज्वलस्य पिता पुण्यः कुञ्जलो ज्ञानमण्डितः
वासुदेवमहास्तोत्रं नित्यं पठति भूपते ॥ २० ॥

पुत्रैः प्रियासमेतोऽसौ मम गेहं प्रयास्यति
एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम् ॥ २१ ॥

एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत्
इदं स्तोत्रं महापुण्यं सफलं कुरु केशव ॥ २२ ॥

कृते युगे महाराज यदा स्तोष्यन्ति मानवाः
तदा मोक्षं प्रयास्यन्ति तत्क्षणान्नात्र संशयः ॥ २३ ॥

त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे
वर्षेणैकेन च कलौ ये जपन्ति च मानवाः ॥ २४ ॥

स्वर्गं प्रयान्ति राजेन्द्र वैष्णवं गतिदायकम्
त्रिकालमेककालं वा स्नातो जपति ब्राह्मणः ॥ २५ ॥

यं यं तु वाञ्छते कामं स स तस्य भविष्यति
क्षत्रियो जयमाप्नोति धनधान्यैरलङ्कृतः ॥ २६ ॥

वैश्यो भविष्यति श्रीमान्सुखी शूद्रो भविष्यति
अन्त्यजं श्रावयेद्योयं पापान्मुक्तो भविष्यति ॥ २७ ॥

श्रावको नरकं घोरं कदाचिन्नैव पश्यति
मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति ॥ २८ ॥

ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति
पितरो वैष्णवं लोकं तृप्ता यास्यन्ति भूपते ॥ २९ ॥

तर्पणान्ते जपं कुर्याद्ब्राह्मणो वाथ क्षत्रियः
पिबन्ति चामृतं तस्य पितरो हृष्टमानसाः ॥ ३० ॥

होमेषु यज्ञमध्ये च भावाज्जपति मानवः
तत्र विघ्ना न जायन्ते सर्वसिद्धिर्भविष्यति ॥ ३१ ॥

विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य सङ्कटे
चौराणां सङ्कटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ॥ ३२ ॥

तत्र शान्तिर्महाराज भविष्यति न संशयः
अन्येष्वेव सुभव्येषु राजद्वारे गते नरे ॥ ३३ ॥

वासुदेवाभिधानस्य अयुतं जपते नरः
ब्रह्मचर्येण संस्नातः क्रोधलोभविवर्जितः ॥ ३४ ॥

तिलतण्डुलकैर्होमं दशांशमाज्यमिश्रितम्
वासुदेवं प्रपूज्यैव दद्यात्प्रयतमानसः ॥ ३५ ॥

श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः
तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम् ॥ ३६ ॥

कलौ युगे सुसम्प्राप्ते स्तोत्रे दास्यं प्रयास्यति
वेदभङ्गप्रसङ्गेन यस्य कस्य न दीयते ॥ ३७ ॥

सर्वकामसमृद्धार्थः स चैव हि भविष्यति
एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ॥ ३८ ॥

ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा
ब्रह्महत्याविनिर्मुक्त इन्द्रो मुक्तश्च किल्बिषात् ॥ ३९ ॥

देवाश्च ऋषयो गुह्याः सिद्धविद्याधरामराः
नागैस्तु पूजितं स्तोत्रमापुः सिद्धिं मनीप्सिताम् ॥ ४० ॥

पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति
जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा ॥ ४१ ॥

आगच्छ त्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम
हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः ॥ ४२ ॥

नेदुर्दुन्दुभयस्तत्र गन्धर्वा ललितं जगुः
ननृतुश्चाप्सरः श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ॥ ४३ ॥

देवाश्च ऋषयः सर्वे वेदस्तोत्रैः स्तुवन्ति ते
ततो दयितया सार्द्धं जगाम नृपतिर्हरिम् ॥ ४४ ॥

तं स्तूयमानं सुरसिद्धसङ्घैः स विज्वलः पश्यति हृष्टमानसः
समागतस्तिष्ठति यत्र वै पिता माता च वेगेन महाप्रभावः ॥ ४५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः ९९