सूत उवाच-
विश्वास-प्रस्तुतिः
एवमुक्ते शुभे वाक्ये विज्वलेन महात्मना
कुञ्जलो वदतां श्रेष्ठः स्तोत्रं पुण्यमुदैरयत् ॥ १ ॥
मूलम्

ध्यात्वा नत्वा हृषीकेशं सर्वक्लेशविनाशनम्
सर्वश्रेयः प्रदातारं हरेः स्तोत्रमुदीरितम् ॥ २ ॥

वासुदेवाभिधानं तत्सर्वश्रेयः प्रदायकम्
मोक्षद्वारं सुखोपेतं शान्तिदं पुष्टिवर्द्धनम् ॥ ३ ॥

सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्द्धनम्
वासुदेवस्य यत्स्तोत्रं विज्वलाय प्रकाशितम् ॥ ४ ॥

वासुदेवाभिधानं चाप्रमेयं पुण्यवर्द्धनम्
सोऽवगम्य पितुः सर्वं विज्वलः पक्षिणांवरः ॥ ५ ॥

तत्रगन्तुम्प्रचक्रामपितुःपृष्टन्तदानृप
एवं गन्तुं कृतमतिं विज्वलं ज्ञानपारगम् ॥ ६ ॥

उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम् ॥ ७ ॥

कुञ्जल उवाच-
पुत्र तस्य महज्जाने पातकं भूपतेः शृणु
यतो गत्वा पठ स्वत्वं सुबाहोश्चोपशृण्वतः ॥ ८ ॥

यथायथा श्रोष्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति
श्रीवासुदेवस्य न संशयो वै तस्य प्रसादात्सुशिवं मयोक्तम् ॥ ९ ॥

आमन्त्र्य स गुरुं पश्चादुड्डीय लघुविक्रमः
आनन्दकाननं पुण्यं सम्प्राप्तो विज्वलस्तदा ॥ १० ॥

वृक्षच्छायां समाश्रित्य उपविष्टो मुदान्वितः
समालोक्य स राजानं विमानेनागतं पुनः ॥ ११ ॥

एष्यत्यसौ कदा राजा सुबाहुः प्रियया सह
पातकान्मोचयिष्यामि स्तोत्रेणानेन वै कदा ॥ १२ ॥

तावद्विमानः सम्प्राप्तः किङ्किणीजालमण्डितः
घण्टारवसमाकीर्णो वीणावेणुसमन्वितः ॥ १३ ॥

गन्धर्वस्वरसङ्घुष्टश्चाप्सरोभिः समन्वितः
सर्वकामसमृद्धस्तु अन्नोदकविवर्जितः ॥ १४ ॥

तस्मिन्याने स्थितो राजा सुबाहुः प्रियया सह
समुत्तीर्णो विमानात्स सुतार्क्ष्य प्रियया सह ॥ १५ ॥

शस्त्रमादाय तीक्ष्णं तु यावत्कृन्तति तच्छवम्
तावद्धि विज्वलेनापि समाह्वानं कृतं तदा ॥ १६ ॥

भो भोः पुरुषशार्दूल देवोपम भवानिदम्
करोति निर्घृणं कर्म नृशंसैर्न च शक्यते ॥ १७ ॥

कर्तुं पुरुषशार्दूल कोऽयं विधिविपर्ययः
दुष्कृतं साहसं कर्म निन्द्यं लोकेषु सर्वदा ॥ १८ ॥

वेदाचारविहीनं तु कस्मात्प्रारब्धवानि ह
तन्मे त्वं कारणं सर्वं कथयस्व यथा तथा ॥ १९ ॥

इत्येवं भाषितं तस्य विज्वलस्य महात्मनः
समाकर्ण्य महाराजः स्वप्रियां वाक्यमब्रवीत् ॥ २० ॥

प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा
कदा न भाषितं केन यथायं परिभाषते ॥ २१ ॥
मूलम्
प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा
कदा न भाषितं केन यथायं परिभाषते ॥ २१ ॥
विश्वास-प्रस्तुतिः
ममैवं पीड्यमानस्य क्षुधया हृदयं प्रिये
निर्गतं चोत्सुकं कान्ते शान्तिश्चित्ते प्रवर्तते ॥ २२ ॥

यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शान्तिदम्
तावच्चित्ते समाह्लादो वर्तते चारुहासिनि ॥ २३ ॥

कोयं देवो नु गन्धर्वः सहस्राक्षो भविष्यति
मुनीनां स्याद्वचः सत्यं यदुक्तं मुनिना पुरा ॥ २४ ॥

एवमाभाषितं श्रुत्वा प्रियस्यानन्तरं प्रिया
राजानं प्रत्युवाचाथ भार्या पतिपरायणा ॥ २५ ॥

सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम्
यथा ते वर्तते कान्त मम चित्ते तथा पुनः ॥ २६ ॥

पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत्
एवमाभाषितं श्रुत्वा प्रियायाः पृथिवीपतिः ॥ २७ ॥

बद्धाञ्जलिपुटोभूत्वा पक्षिणं वाक्यमब्रवीत्
सुबाहुरुवाच-
स्वागतं ते महाप्राज्ञ पक्षिरूपधरः प्रभो ॥ २८ ॥

शिरसा भार्यया सार्द्धं तव पादाम्बुजद्वयम्
नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः ॥ २९ ॥

भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते
यादृशं क्रियतेकर्म पूर्वदेहेन सत्तम ॥ ३० ॥

सुकृतं दुष्कृतं वापि तदिहैव प्रभुज्यते
अथ तेनात्मकं वृत्तं तस्याग्रे च निवेदितम् ॥ ३१ ॥

यथोक्तं कुञ्जलेनापि पित्रा पूर्वं श्रुतं तथा
कथयस्वात्मवृत्तान्तं भवान्को मां प्रभाषते ॥ ३२ ॥

सुबाहुं प्रत्युवाचेदं वाक्यं पक्षिवरस्तदा
विज्वल उवाच-
शुकजात्यां समुत्पन्नः कुञ्जलोनाम मे पिता ॥ ३३ ॥

तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम्
नाहं देवो न गन्धर्वो न च सिद्धो महाभुज ॥ ३४ ॥

नित्यमेव प्रपश्यामि कर्म चैवं सुदारुणम्
कियत्कालं महत्कर्म साहसाकारसंयुतम् ॥ ३५ ॥

करिष्यसि महाराज तन्मे कथय साम्प्रतम्
सुबाहुरुवाच-
वासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणैः ॥ ३६ ॥

श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयां तदा
पुण्यात्मना भाषितं वै मुनिना संयतात्मना ॥ ३७ ॥

तदाहं पातकान्मुक्तो भविष्यामि न संशयः
विज्वल उवाच-
तवार्थे पृच्छितस्तातस्तेन मे कथितं च यत् ॥ ३८ ॥

तत्तेद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम ॥ ३९ ॥

ॐअस्य श्रीवासुदेवाभिधानस्य स्तोत्रस्य नारदऋषिरनुष्टुप्छन्दः
ॐकारोदेवता सर्वपातकनाशनार्थे चतुर्वर्गसाधनार्थे च जपे विनियोगः
ॐनमो भगवते वासुदेवाय इति मन्त्रः
पावनं परमं पुण्यं वेदज्ञं वेदमन्दिरम्
विद्याधारं भवाधारं प्रणवं वै नमाम्यहम् ॥ ४० ॥

निरावासं निराकारं सुप्रकाशं महोदयम्
निर्गुणं गुणसम्बद्धं नमामि प्रणवं परम् ॥ ४१ ॥

महाकान्तं महोत्साहं महामोहविनाशनम्
आचिन्वन्तं जगत्सर्वं गुणातीतं नमाम्यहम् ॥ ४२ ॥

भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्द्धनः
अभयं भिक्षुसम्बद्धं नमामि प्रणवं शिवम् ॥ ४३ ॥

गायत्रीसाम गायन्तं गीतं गीतप्रियं शुभम्
गन्धर्वगीतभोक्तारं प्रणवं प्रणमाम्यहम् ॥ ४४ ॥

विचारं वेदरूपं तं यज्ञस्थं भक्तवत्सलम्
योनिं सर्वस्य लोकस्य ॐकारं प्रणमाम्यहम् ॥ ४५ ॥

तारकं सर्वभूतानां नौरूपेण विराजितम्
संसारार्णवमग्नानां नमामि प्रणवं हरिम् ॥ ४६ ॥

सर्वलोकेषु वसते एकरूपेण नैकधा
धामकैवल्यरूपेण नमामि प्रणवं शिवम् ॥ ४७ ॥

सूक्ष्मं सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम्
वर्जितं प्राकृतैर्भावैर्वेदस्थानं नमाम्यहम् ॥ ४८ ॥

देवदैत्यवियोगैश्च वर्जितं तुष्टिभिः सदा
दैवैश्च योगिभिर्ध्येयं तमोङ्कारं नमाम्यहम् ॥ ४९ ॥

व्यापकं विश्ववेत्तारं विज्ञानं परमं शुभम्
शिवं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम् ॥ ५० ॥

यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः
न विन्दन्ति परं शुद्धं मोक्षद्वारं नमाम्यहम् ॥ ५१ ॥

आनन्दकन्दाय विशुद्धबुद्धये शुद्धाय हंसाय परावराय
नमोऽस्तु तस्मै गणनायकाय श्रीवासुदेवाय महाप्रभाय ॥ ५२ ॥

श्रीपाञ्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन
गदाब्जकेनापि विराजमानं प्रभुं सदैनं शरणं प्रपद्ये ॥ ५३ ॥

यं वेदगुह्यं सगुणं गुणानामाधारभूतं सचराचरस्य
यं सूर्यवैश्वानरतुल्यतेजसं तं वासुदेवं शरणं प्रपद्ये ॥ ५४ ॥

क्षुधानिधानं विमलं सुरूपमानन्दमानेन विराजमानम्
यं प्राप्य जीवन्ति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ॥ ५५ ॥

तमोघनानां स्वकरैर्विनाशं करोति नित्यं परिकर्महेतुः
उद्द्योतमानं रविदीप्ततेजसं तं वासुदेवं शरणं प्रपद्ये ॥ ५६ ॥

यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति
यः प्राणिनामन्तरगः स वायुस्तं वासुदेवं शरणं प्रपद्ये ॥ ५७ ॥

स्वेच्छानुरूपेण स देवदेवो बिभर्ति लोकान्सकलान्महीपान्
सन्तारणे नौरिव वर्तते यस्तं वासुदेवं शरणं प्रपद्ये ॥ ५८ ॥

अन्तर्गतो लोकमयः सदैव पचत्यसौ स्थावरजङ्गमानाम्
स्वाहामुखो देवगणस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥ ५९ ॥

रसैः सुपुण्यैः सकलैः सहैव पुष्णाति सौम्यो गुणदश्च लोके
अन्नानि योनिर्मल तेजसैव तं वासुदेवं शरणं प्रपद्ये ॥ ६० ॥

अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः
विना हृषीकैर्विषयान्प्रभुङ्क्ते तं वासुदेवं शरणं प्रपद्ये ॥ ६१ ॥

जीवस्वरूपेण बिभर्ति लोकांस्ततः स्वमूर्तान्सचराचरांश्च
निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ॥ ६२ ॥

दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम्
यं प्राप्य देवा विनयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ ६३ ॥

सुखं सुखान्तं सुखदं सुरेशं ज्ञानार्णवं तं मुनिपं सुरेशम्
सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥ ६४ ॥

यज्ञाङ्गरूपं परमार्थरूपं मायान्वितं मापतिमुग्रपुण्यम्
विज्ञानमेकं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥ ६५ ॥

अम्भोधिमध्ये शयनं हितस्य नागाङ्गभोगे शयनं विशाले
श्रीपादपद्मद्वयमेव तस्य तद्वासुदेवस्य नमामि नित्यम् ॥ ६६ ॥

पुण्यान्वितं शङ्करमेव नित्यं तीर्थैरनेकैः परिसेव्यमानम्
तत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य अघापहं तत् ॥ ६७ ॥

पादाम्बुजं रक्तमहोत्पलाभमम्भोजसल्लिङ्गजयोपयुक्तम्
अलङ्कृतं नूपुरमुद्रिकाभिः श्रीवासुदेवस्य नमामि नित्यम् ॥ ६८ ॥

देवैः सुसिद्धैर्मुनिभिः सदैव नुतं सुभक्त्या उरगाधिपैश्च
तत्पादपङ्केरुहमेवपुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥ ६९ ॥

यस्यापि पादाम्भसि मज्जमानाः पूता दिवं यान्ति विकल्मषास्ते
मोक्षं लभन्ते मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ॥ ७० ॥

पादोदकं तिष्ठति यत्र विष्णोर्गङ्गादितीर्थानि सदैव तत्र
पिबन्ति येद्यापि सपापदेहास्ते यान्ति शुद्धाः सुगृहं मुरारेः ॥ ७१ ॥

पादोदकेनाप्यभिषिच्यमाना उग्रैश्च पापैः परिलिप्तदेहाः
ते यान्ति मुक्तिं परमेश्वरस्य तस्यैव पादौ सततं नमामि ॥ ७२ ॥

नैवेद्यमात्रेण सुभक्षितेन सुचक्रिणस्तस्य महात्मनस्तु
श्रीवाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति ॥ ७३ ॥

नारायणं तं नरकाधिनाशनं मायाविहीनं सकलं गुणज्ञम्
यं ध्यायमानाः सुगतिं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ ७४ ॥

यो वन्द्यस्त्वृषिसिद्धचारणगणैर्देवैः सदा पूज्यते
यो विश्वस्य विसृष्टिहेतुकरणे ब्रह्मादिदेवप्रभुः
यः संसारमहार्णवे निपतितस्योद्धारको वत्सल-
स्तस्यैवापि नमाम्यहं सुचरणौ भक्त्या वरौ पावनौ ॥ ७५ ॥

यो दृष्टो मखमण्डपे सुरगणैः श्रीवामनः सामगः
सामोद्गीतकुतूहलः सुरगणैस्त्रैलोक्य एकः प्रभुः
कुर्वन्तं नयनेक्षणैः शुभकरैर्निष्पापतां तद्बले-
स्तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् ॥ ७६ ॥

राजन्तं द्विजमण्डले मखमुखे ब्रह्मश्रियाशोभितं
दिव्येनापि सुतेजसा करमयं यं चेन्द्रनीलोपमम्
देवानां हितकाम्यया सुतनुजं वैरोचनस्यापि तं-
याचन्तं मम दीयतां त्रिपदकं वन्दे प्रभुं वामनम् ॥ ७७ ॥

तं द्रष्टुं रविमण्डले मुनिगणैः सम्प्राप्तवन्तं दिवं
चन्द्रार्कास्तमयान्तरे किल पदा सञ्च्छादयन्तं तदा
तस्यैवापि सुचक्रिणः सुरगणाः प्रापुर्लयं साम्प्रतं-
का ये विश्वविकोशकेतमतुलं नौमि प्रभोर्विक्रमम् ॥ ७८ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रेऽष्टनवतितमोऽध्यायः ९८