०९७

सप्तनवतितमोऽध्यायः

विश्वास-प्रस्तुतिः

कुञ्जल उवाच-
एवमाकर्ण्य तां राजा मुनिना भाषितां तदा
धर्माधर्मगतिं सर्वां तं मुनिं समभाषत ॥ १ ॥

मूलम्

कुञ्जल उवाच-
एवमाकर्ण्य तां राजा मुनिना भाषितां तदा
धर्माधर्मगतिं सर्वां तं मुनिं समभाषत ॥ १ ॥

विश्वास-प्रस्तुतिः

सुबाहुरुवाच-
सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम
वासुदेवं जगद्योनिं यजिष्ये नितरां मुने ॥ २ ॥

मूलम्

सुबाहुरुवाच-
सोहं धर्मं करिष्यामि सोहं पुण्यं द्विजोत्तम
वासुदेवं जगद्योनिं यजिष्ये नितरां मुने ॥ २ ॥

विश्वास-प्रस्तुतिः

होमेन तु जपेनैव पूजयेन्मधुसूदनम्
यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः ॥ ३ ॥

मूलम्

होमेन तु जपेनैव पूजयेन्मधुसूदनम्
यष्ट्वा यज्ञं तपस्तप्त्वा विष्णुलोकं स भूपतिः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा
गते तस्मिन्महालोके देवदेवं न पश्यति ॥ ४ ॥

मूलम्

पूजितः सर्वकामैश्च प्राप्तवान्सत्वरं मुदा
गते तस्मिन्महालोके देवदेवं न पश्यति ॥ ४ ॥

विश्वास-प्रस्तुतिः

क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते
तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु ॥ ५ ॥

मूलम्

क्षुधा जाता महातीव्रा तृष्णा चाति प्रवर्तते
तयोश्चापि महाप्राज्ञ जीवपीडाकरा बहु ॥ ५ ॥

विश्वास-प्रस्तुतिः

राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः
न पश्यति हृषीकेशं दुःखेन महतान्वितः ॥ ६ ॥

मूलम्

राजापि प्रियया सार्द्धं क्षुधातृष्णाप्रपीडितः
न पश्यति हृषीकेशं दुःखेन महतान्वितः ॥ ६ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
एवं स दुःखितो राजा प्रियया सह सत्तम
आकुल व्याकुलो जातः पीडितः क्षुधया भृशम् ॥ ७ ॥

मूलम्

सूत उवाच-
एवं स दुःखितो राजा प्रियया सह सत्तम
आकुल व्याकुलो जातः पीडितः क्षुधया भृशम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

इतश्चेतश्च वेगैश्च धावते वसुधाधिपः
सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः ॥ ८ ॥

मूलम्

इतश्चेतश्च वेगैश्च धावते वसुधाधिपः
सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः ॥ ८ ॥

विश्वास-प्रस्तुतिः

पुष्पमालाप्रशोभाङ्गो हारकुण्डलकङ्कणैः
रत्नदीप्तिप्रशोभाङ्गः प्रययौ स महीपतिः ॥ ९ ॥

मूलम्

पुष्पमालाप्रशोभाङ्गो हारकुण्डलकङ्कणैः
रत्नदीप्तिप्रशोभाङ्गः प्रययौ स महीपतिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एवं दुःखसमाचारः स्तूयमानश्च पाठकैः
दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् ॥ १० ॥

मूलम्

एवं दुःखसमाचारः स्तूयमानश्च पाठकैः
दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् ॥ १० ॥

विश्वास-प्रस्तुतिः

विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने
ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि ॥ ११ ॥

मूलम्

विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने
ऋषिभिः स्तूयमानोपि विमानेनापि भामिनि ॥ ११ ॥

विश्वास-प्रस्तुतिः

कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते
विष्णुलोकं च सम्प्राप्य न दृष्टो मधुसूदनः ॥ १२ ॥

मूलम्

कर्मणा केन मे चेयं क्षुधातीव प्रवर्द्धते
विष्णुलोकं च सम्प्राप्य न दृष्टो मधुसूदनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम्
कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते ॥ १३ ॥

मूलम्

तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम्
कर्मणाथ निजेनापि एतद्दुःखं प्रवर्त्तते ॥ १३ ॥

विश्वास-प्रस्तुतिः

सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् ॥ १४ ॥

मूलम्

सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

भार्योवाच-
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम्
वेदशास्त्रपुराणेषु ये पठन्ति च ब्राह्मणाः ॥ १५ ॥

मूलम्

भार्योवाच-
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम्
वेदशास्त्रपुराणेषु ये पठन्ति च ब्राह्मणाः ॥ १५ ॥

विश्वास-प्रस्तुतिः

दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते
नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः ॥ १६ ॥

मूलम्

दुःखशोकौ विधूयेह सर्वदोषैः प्रमुच्यते
नामोच्चारेण देवस्य विष्णोश्चैव सुचक्रिणः ॥ १६ ॥

विश्वास-प्रस्तुतिः

पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम्
त्वयैवाराधितो देवः शङ्खचक्रगदाधरः ॥ १७ ॥

मूलम्

पुण्यात्मानो महाभागा ध्यायमाना जनार्दनम्
त्वयैवाराधितो देवः शङ्खचक्रगदाधरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम्
फलं तस्य प्रजानामि न दृष्टो मधुसूदनः ॥ १८ ॥

मूलम्

अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम्
फलं तस्य प्रजानामि न दृष्टो मधुसूदनः ॥ १८ ॥

विश्वास-प्रस्तुतिः

क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत्
कुञ्जल उवाच-
एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः ॥ १९ ॥

मूलम्

क्षुधा मे बाधते राजंस्तृष्णा चैव प्रशोषयेत्
कुञ्जल उवाच-
एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः ॥ १९ ॥

विश्वास-प्रस्तुतिः

ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम्
दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् ॥ २० ॥

मूलम्

ततो दृष्ट्वा महापुण्यमाश्रमं श्रमनाशनम्
दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् ॥ २० ॥

विश्वास-प्रस्तुतिः

वापीकुण्डतडागैश्च पुण्यतोयप्रपूरितैः
हंसकारण्डवाकीर्णं कह्लारैरुपशोभितम् ॥ २१ ॥

मूलम्

वापीकुण्डतडागैश्च पुण्यतोयप्रपूरितैः
हंसकारण्डवाकीर्णं कह्लारैरुपशोभितम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः
दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् ॥ २२ ॥

मूलम्

आश्रमः शोभते पुत्र मुनिभिस्तत्त्ववेदिभिः
दिव्यवृक्षसमाकीर्णं मृगव्रातैश्च शोभितम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलम्
द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् ॥ २३ ॥

मूलम्

नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलम्
द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

योगियोगेन्द्र सङ्घुष्टं देववृन्दैरलङ्कृतम्
कदलीवनसम्बाधैः सुफलैः परिशोभितम् ॥ २४ ॥

मूलम्

योगियोगेन्द्र सङ्घुष्टं देववृन्दैरलङ्कृतम्
कदलीवनसम्बाधैः सुफलैः परिशोभितम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

नानावृक्षसमाकीर्णं सर्वकामसमन्वितम्
श्रीखण्डैश्चारुगन्धैश्च सुफलैः शोभितं सदा ॥ २५ ॥

मूलम्

नानावृक्षसमाकीर्णं सर्वकामसमन्वितम्
श्रीखण्डैश्चारुगन्धैश्च सुफलैः शोभितं सदा ॥ २५ ॥

विश्वास-प्रस्तुतिः

एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम्
स सुबाहुस्ततो राजा तया सुप्रियया सह ॥ २६ ॥

मूलम्

एवं पुण्यं समाकीर्णं ब्रह्मलक्ष्मसमायुतम्
स सुबाहुस्ततो राजा तया सुप्रियया सह ॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रविवेश महापुण्यं तद्वनं सर्वकामदम्
भासमानो दिशः सर्वा यत्रास्ते सूर्यसन्निभः ॥ २७ ॥

मूलम्

प्रविवेश महापुण्यं तद्वनं सर्वकामदम्
भासमानो दिशः सर्वा यत्रास्ते सूर्यसन्निभः ॥ २७ ॥

विश्वास-प्रस्तुतिः

राजमानो महादीप्त्या परया सूर्यसन्निभः
योगासनसमारूढो योगपट्टेन संवृतः ॥ २८ ॥

मूलम्

राजमानो महादीप्त्या परया सूर्यसन्निभः
योगासनसमारूढो योगपट्टेन संवृतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा
ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम् ॥ २९ ॥

मूलम्

वामदेवऋषिश्रेष्ठो वैष्णवानां वरस्तथा
ध्यायमानो हृषीकेशं भुक्तिमुक्तिप्रदायकम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम्
त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह ॥ ३० ॥

मूलम्

वामदेवं महात्मानं तं दृष्ट्वा मुनिसत्तमम्
त्वरं गत्वा प्रणम्यैव स राजा प्रियया सह ॥ ३० ॥

विश्वास-प्रस्तुतिः

वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम्
आशीर्भिरभिनन्द्यैव राजानं प्रिययान्वितम् ॥ ३१ ॥

मूलम्

वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम्
आशीर्भिरभिनन्द्यैव राजानं प्रिययान्वितम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम्
आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा ॥ ३२ ॥

मूलम्

उपवेश्यासने पुण्ये सुबाहुं राजसत्तमम्
आसनादि ततः पाद्यैरर्घपूजादिभिस्तथा ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मुनिना पूजितो भूपः प्रियया सह चागतः
अथ पप्रच्छ राजानं महाभागवतोत्तमम् ॥ ३३ ॥

मूलम्

मुनिना पूजितो भूपः प्रियया सह चागतः
अथ पप्रच्छ राजानं महाभागवतोत्तमम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

वामदेव उवाच-
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम्
जाने ज्ञानेन राजेन्द्र दिव्येन चोलभूमिपम् ॥ ३४ ॥

मूलम्

वामदेव उवाच-
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तमम्
जाने ज्ञानेन राजेन्द्र दिव्येन चोलभूमिपम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

निरामयश्चागतोसि तार्क्ष्यया भार्यया सह
राजोवाच-
निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम् ॥ ३५ ॥

मूलम्

निरामयश्चागतोसि तार्क्ष्यया भार्यया सह
राजोवाच-
निरामयश्चागतोऽस्मि प्राप्तो विष्णोः परं पदम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

मया हि परया भक्त्या देवदेवो जनार्दनः
आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम् ॥ ३६ ॥

मूलम्

मया हि परया भक्त्या देवदेवो जनार्दनः
आराधितो जगन्नाथो भक्तिप्रीतः सुरेश्वरम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

कस्मात्पश्याम्यहं तात न देवं कमलापतिम्
क्षुधा मे बाधते तात तृष्णातीव सुदारुणा ॥ ३७ ॥

मूलम्

कस्मात्पश्याम्यहं तात न देवं कमलापतिम्
क्षुधा मे बाधते तात तृष्णातीव सुदारुणा ॥ ३७ ॥

विश्वास-प्रस्तुतिः

ताभ्यां शान्तिं न गच्छाव सुखं विन्दाव नैव च
एतन्मेकारणं दुःखं सञ्जातं मुनिसत्तम ॥ ३८ ॥

मूलम्

ताभ्यां शान्तिं न गच्छाव सुखं विन्दाव नैव च
एतन्मेकारणं दुःखं सञ्जातं मुनिसत्तम ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव
वामदेव उवाच-
त्वं तु भक्तोसि राजेन्द्र श्रीकृष्णस्य सदैव हि ॥ ३९ ॥

मूलम्

तन्मे त्वं कारणं ब्रूहि प्रसादात्सुमुखो भव
वामदेव उवाच-
त्वं तु भक्तोसि राजेन्द्र श्रीकृष्णस्य सदैव हि ॥ ३९ ॥

विश्वास-प्रस्तुतिः

आराधितस्त्वया भक्त्या परया मधुसूदनः
भक्त्योपचारैः स्नानाद्यैर्गन्धपुष्पादिभिस्तथा ॥ ४० ॥

मूलम्

आराधितस्त्वया भक्त्या परया मधुसूदनः
भक्त्योपचारैः स्नानाद्यैर्गन्धपुष्पादिभिस्तथा ॥ ४० ॥

विश्वास-प्रस्तुतिः

न पूजितोऽथ नैवेद्यैः फलैश्च जगताम्पतिः
दशमीं प्राप्य राजेन्द्र त्वयैव च सदा कृतम् ॥ ४१ ॥

मूलम्

न पूजितोऽथ नैवेद्यैः फलैश्च जगताम्पतिः
दशमीं प्राप्य राजेन्द्र त्वयैव च सदा कृतम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम्
एकादशीं तु सम्प्राप्य न कृतं भोजनं त्वया ॥ ४२ ॥

मूलम्

एकभक्तं न दत्तं तु ब्राह्मणाय सुभोजनम्
एकादशीं तु सम्प्राप्य न कृतं भोजनं त्वया ॥ ४२ ॥

विश्वास-प्रस्तुतिः

विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया
अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ॥ ४३ ॥

मूलम्

विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया
अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अन्नदानं विशेषेण कदा दत्तं न हि त्वया
ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु ॥ ४४ ॥

मूलम्

अन्नदानं विशेषेण कदा दत्तं न हि त्वया
ओषध्यश्च महाराज नानाभेदास्तु ताः शृणु ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः
हिङ्ग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ॥ ४५ ॥

मूलम्

कटु तिक्त कषायाश्च मधुराम्लाश्च क्षारकाः
हिङ्ग्वाद्योपस्कराः सर्वे नानारूपाश्च भूपते ॥ ४५ ॥

विश्वास-प्रस्तुतिः

अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः
अन्नमेव सुसंस्कृत्य औषधव्यञ्जनान्वितम् ॥ ४६ ॥

मूलम्

अमृताज्जज्ञिरे सर्वा ओषध्यः पुष्टिहेतवः
अन्नमेव सुसंस्कृत्य औषधव्यञ्जनान्वितम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

देवेभ्यो विष्णुरूपेभ्य इति सङ्कल्प्य दीयते
पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि ॥ ४७ ॥

मूलम्

देवेभ्यो विष्णुरूपेभ्य इति सङ्कल्प्य दीयते
पितृभ्यो विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य हि ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत्
स्वयं तु भुञ्जते पश्चात्तदन्नममृतोपमम् ॥ ४८ ॥

मूलम्

अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत्
स्वयं तु भुञ्जते पश्चात्तदन्नममृतोपमम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते
ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते ॥ ४९ ॥

मूलम्

प्रेत्य दुःखं न चैवास्ति तस्य सौख्यं तु भूपते
ब्राह्मणाः पितरो देवाः क्षत्ररूपाश्च भूपते ॥ ४९ ॥

विश्वास-प्रस्तुतिः

यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा
तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप ॥ ५० ॥

मूलम्

यथा हि कर्षकः कश्चित्सुकृषिं कुरुते सदा
तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्रे विप्रास्यके नृप ॥ ५० ॥

विश्वास-प्रस्तुतिः

स्वभावलाङ्गलेनापि श्रद्धा शस्त्रेण भेदयेत्
वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ॥ ५१ ॥

मूलम्

स्वभावलाङ्गलेनापि श्रद्धा शस्त्रेण भेदयेत्
वृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः
विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत् ॥ ५२ ॥

मूलम्

सत्यज्ञानानुभावीशः शुद्धात्मा तु प्रतोदकः
विप्रनाम्नि महाक्षेत्रे नमस्कारैर्विसर्जयेत् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप
क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत् ॥ ५३ ॥

मूलम्

स्फोटयेत्कल्मषं नित्यं कृषिको हि यथा नृप
क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसादयेत् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत्
पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे ॥ ५४ ॥

मूलम्

तद्वद्वाक्यैः शुभैः पुण्यैर्विप्रांश्चापि प्रसादयेत्
पर्वतीर्थाप्तिकालश्च घनरूपोभिवर्षणे ॥ ५४ ॥

विश्वास-प्रस्तुतिः

वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत्
तद्वद्भूपप्रसन्नाय विप्राय परिदीयते ॥ ५५ ॥

मूलम्

वप्तुकामो भवेत्क्षेत्री ततः क्षेत्रे प्रवापयेत्
तद्वद्भूपप्रसन्नाय विप्राय परिदीयते ॥ ५५ ॥

विश्वास-प्रस्तुतिः

क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुञ्जति
फलमेव महाराज तथा दाता भुनक्ति च ॥ ५६ ॥

मूलम्

क्षेत्रस्य उप्तबीजस्य यथा क्षेत्री प्रभुञ्जति
फलमेव महाराज तथा दाता भुनक्ति च ॥ ५६ ॥

विश्वास-प्रस्तुतिः

प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा
ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ॥ ५७ ॥

मूलम्

प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा
ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

मानवानां महाराज वापिताः प्रददन्ति च
फलमेवं न सन्देहो यादृशं तादृशं ध्रुवम् ॥ ५८ ॥

मूलम्

मानवानां महाराज वापिताः प्रददन्ति च
फलमेवं न सन्देहो यादृशं तादृशं ध्रुवम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

कटुकाद्धि न जायेत राजन्मधुर एव च
तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः ॥ ५९ ॥

मूलम्

कटुकाद्धि न जायेत राजन्मधुर एव च
तद्वच्च मधुराख्याच्च न जायेत्कटुकः पुनः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

यादृशं वपते बीजं तादृशं फलमश्नुते
न वापयति यः क्षेत्रं न स भुञ्जति तत्फलम् ॥ ६० ॥

मूलम्

यादृशं वपते बीजं तादृशं फलमश्नुते
न वापयति यः क्षेत्रं न स भुञ्जति तत्फलम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः
दर्शयन्ति फलं राजन्दत्तस्यापि न संशयः ॥ ६१ ॥

मूलम्

तद्वद्विप्राश्च देवाश्च पितरः क्षेत्ररूपिणः
दर्शयन्ति फलं राजन्दत्तस्यापि न संशयः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम्
तादृशं भुङ्क्ष्व वै राजन्नन्यथा तन्न जायते ॥ ६२ ॥

मूलम्

यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम्
तादृशं भुङ्क्ष्व वै राजन्नन्यथा तन्न जायते ॥ ६२ ॥

विश्वास-प्रस्तुतिः

न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन
मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ॥ ६३ ॥

मूलम्

न पुरा देवविप्रेभ्यः पितृभ्यश्च कदाचन
मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः
सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया ॥ ६४ ॥

मूलम्

सुभोज्यैर्भोजनैर्मृष्टैर्मधुरैश्चोष्यपेयकैः
सुभक्ष्यैरात्मना भुक्तं कस्मै दत्तं न च त्वया ॥ ६४ ॥

विश्वास-प्रस्तुतिः

स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः
यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ॥ ६५ ॥

मूलम्

स्वशरीरं त्वया पुष्टमन्नैरमृतसन्निभैः
यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ॥ ६५ ॥

विश्वास-प्रस्तुतिः

कर्मैव कारणं राजन्नराणां सुखदुःखयोः
जन्ममृत्य्वोर्महाभाग भुङ्क्ष्व तत्कर्मणः फलम् ॥ ६६ ॥

मूलम्

कर्मैव कारणं राजन्नराणां सुखदुःखयोः
जन्ममृत्य्वोर्महाभाग भुङ्क्ष्व तत्कर्मणः फलम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा
पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः ॥ ६७ ॥

मूलम्

पूर्वेपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा
पुनः प्रयाता भूर्लोकं कर्मणः क्षयकालतः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः
कर्मणैव हि सम्प्राप्ताः स्वर्गं राजन्स्वकालतः ॥ ६८ ॥

मूलम्

नलो भगीरथश्चैव विश्वामित्रो युधिष्ठिरः
कर्मणैव हि सम्प्राप्ताः स्वर्गं राजन्स्वकालतः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत्
तदुल्लङ्घयितुं राजन्कः समर्थोपि हीश्वरः ॥ ६९ ॥

मूलम्

दिष्टं हि प्राक्तनं कर्म तेन दुःखं सुखं लभेत्
तदुल्लङ्घयितुं राजन्कः समर्थोपि हीश्वरः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत्
क्षुत्तृष्णासम्भवो वेगस्ततो दुष्टं हि कर्म ते ॥ ७० ॥

मूलम्

अथ तस्मान्नृपश्रेष्ठ स्वर्गतस्यापि तेऽभवत्
क्षुत्तृष्णासम्भवो वेगस्ततो दुष्टं हि कर्म ते ॥ ७० ॥

विश्वास-प्रस्तुतिः

यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम
तद्गत्वा भुङ्क्ष्व कायं स्वमानन्दारण्यसंस्थितम् ॥ ७१ ॥

मूलम्

यदि ते क्षुत्प्रतीकारो ह्यभीष्टो नृपसत्तम
तद्गत्वा भुङ्क्ष्व कायं स्वमानन्दारण्यसंस्थितम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते
सुबाहुरुवाच-
कियत्कालमिदं कर्म कर्तव्यं प्रियया सह ॥ ७२ ॥

मूलम्

तव चेयं महाराज्ञी क्षुत्क्षामातीव दृश्यते
सुबाहुरुवाच-
कियत्कालमिदं कर्म कर्तव्यं प्रियया सह ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा
कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम ॥ ७३ ॥

मूलम्

तन्मे ब्रूहि महाभागानुग्रहो दृश्यते कदा
कस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि साम्प्रतम्
वामदेव उवाच-
अन्नदानान्महासौख्यमुदकस्य महामते ॥ ७४ ॥

मूलम्

तत्प्रब्रूहि महाप्राज्ञ यदि तुष्टोसि साम्प्रतम्
वामदेव उवाच-
अन्नदानान्महासौख्यमुदकस्य महामते ॥ ७४ ॥

विश्वास-प्रस्तुतिः

भुञ्जन्ति मर्त्याः स्वर्गं वै पीड्यन्ते नैव पातकैः
यदा दानं न दत्तं तु भवेदपि हि मानवैः ॥ ७५ ॥

मूलम्

भुञ्जन्ति मर्त्याः स्वर्गं वै पीड्यन्ते नैव पातकैः
यदा दानं न दत्तं तु भवेदपि हि मानवैः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

मृत्युकालेपि सम्प्राप्ते दानं सर्वे ददन्ति च
आदावेव प्रदातव्यमन्नं चोदकसंयुतम् ॥ ७६ ॥

मूलम्

मृत्युकालेपि सम्प्राप्ते दानं सर्वे ददन्ति च
आदावेव प्रदातव्यमन्नं चोदकसंयुतम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम्
भूमिं सुकाञ्चनं धेनुमष्टौ दानानि योऽर्पयेत् ॥ ७७ ॥

मूलम्

सुच्छत्रोपानहौ दद्याज्जलपात्रं सुशोभनम्
भूमिं सुकाञ्चनं धेनुमष्टौ दानानि योऽर्पयेत् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

स्वर्गे न जायते तस्य क्षुधातृष्णादिसम्भवः
क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान् ॥ ७८ ॥

मूलम्

स्वर्गे न जायते तस्य क्षुधातृष्णादिसम्भवः
क्षुधा न बाधते राजन्नन्नदानात्स तृप्तिमान् ॥ ७८ ॥

विश्वास-प्रस्तुतिः

तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा
पादुकायाः प्रदानेन च्छत्रदानेन भूपते ॥ ७९ ॥

मूलम्

तृष्णा तीव्रा नहि स्याद्वै तृप्तो भवति सर्वदा
पादुकायाः प्रदानेन च्छत्रदानेन भूपते ॥ ७९ ॥

विश्वास-प्रस्तुतिः

छायामाप्नोति दाता वै वाहनं च नृपोत्तम
उपानहप्रदानेन अन्यदेवं वदाम्यहम् ॥ ८० ॥

मूलम्

छायामाप्नोति दाता वै वाहनं च नृपोत्तम
उपानहप्रदानेन अन्यदेवं वदाम्यहम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

भूमिदानान्महाभाग सर्वकामानवाप्नुयात्
गोदानेन महाराज रसैः पुष्टो भवेत्सदा ॥ ८१ ॥

मूलम्

भूमिदानान्महाभाग सर्वकामानवाप्नुयात्
गोदानेन महाराज रसैः पुष्टो भवेत्सदा ॥ ८१ ॥

विश्वास-प्रस्तुतिः

सर्वान्भोगान्प्रभुञ्जानः स्वर्गलोके वसेन्नरः
तृप्तो भवति वै दाता गोदानेन न संशयः ॥ ८२ ॥

मूलम्

सर्वान्भोगान्प्रभुञ्जानः स्वर्गलोके वसेन्नरः
तृप्तो भवति वै दाता गोदानेन न संशयः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

नीरुजः सुखसम्पन्नः सन्तुष्टस्तु धनान्वितः
काञ्चनेन सुवर्णस्तु जायते नात्र संशयः ॥ ८३ ॥

मूलम्

नीरुजः सुखसम्पन्नः सन्तुष्टस्तु धनान्वितः
काञ्चनेन सुवर्णस्तु जायते नात्र संशयः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः
मृत्युकाले तु सम्प्राप्ते तिलदानं प्रयच्छति ॥ ८४ ॥

मूलम्

श्रीमांश्च रूपवांस्त्यागी रत्नभोक्ता भवेन्नरः
मृत्युकाले तु सम्प्राप्ते तिलदानं प्रयच्छति ॥ ८४ ॥

विश्वास-प्रस्तुतिः

सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः
एवं दानविशेषेण प्राप्यते परमं सुखम् ॥ ८५ ॥

मूलम्

सर्वभोगपतिर्भूत्वा विष्णुलोकं प्रयाति सः
एवं दानविशेषेण प्राप्यते परमं सुखम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

गोदानं भूमिदानं तु अन्नोदके च वै त्वया
जीवमानेन राजेन्द्र न दत्तं ब्राह्मणाय वै ॥ ८६ ॥

मूलम्

गोदानं भूमिदानं तु अन्नोदके च वै त्वया
जीवमानेन राजेन्द्र न दत्तं ब्राह्मणाय वै ॥ ८६ ॥

विश्वास-प्रस्तुतिः

मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते
एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम् ॥ ८७ ॥

मूलम्

मृत्युकालेपि नो दत्तं तस्मात्क्षुधा प्रवर्तते
एतत्ते कारणं प्रोक्तं जातं कर्मवशानुगम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

यादृशं तु कृतं कर्म तादृशं परिभुज्यते
सुबाहुरुवाच-
कथं क्षुधा प्रशान्तिं मे प्रयाति मुनिसत्तम ॥ ८८ ॥

मूलम्

यादृशं तु कृतं कर्म तादृशं परिभुज्यते
सुबाहुरुवाच-
कथं क्षुधा प्रशान्तिं मे प्रयाति मुनिसत्तम ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अनया शोषितः कायो ह्यतीव परिदूयते
क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः ॥ ८९ ॥

मूलम्

अनया शोषितः कायो ह्यतीव परिदूयते
क्षुधां प्रति द्विजश्रेष्ठ प्रायश्चित्तं वदस्व नौः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

कर्मणश्चास्यघोरस्य यथा शान्तिर्भवेन्मम
वामदेव उवाच-
प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम ॥ ९० ॥

मूलम्

कर्मणश्चास्यघोरस्य यथा शान्तिर्भवेन्मम
वामदेव उवाच-
प्रायश्चित्तं न चैवास्ति ऋतेभोगान्नृपोत्तम ॥ ९० ॥

विश्वास-प्रस्तुतिः

कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति
यत्र ते पतितः कायः प्रियायाश्चैव भूपते ॥ ९१ ॥

मूलम्

कर्मणोस्य फलं सर्वं भवान्स्वस्थः प्रभोक्ष्यति
यत्र ते पतितः कायः प्रियायाश्चैव भूपते ॥ ९१ ॥

विश्वास-प्रस्तुतिः

युवाभ्यां हि प्रगन्तव्यमितश्चैव न संशयः
उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत् ॥ ९२ ॥

मूलम्

युवाभ्यां हि प्रगन्तव्यमितश्चैव न संशयः
उभाभ्यामपि भोक्तव्यं कायमक्षयमेव तत् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

स्वंस्वं राजन्न सन्देहस्त्वया वै प्रियया सह
राजोवाच-
कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह ॥ ९३ ॥

मूलम्

स्वंस्वं राजन्न सन्देहस्त्वया वै प्रियया सह
राजोवाच-
कियत्कालं प्रभोक्तव्यं मयैवं प्रियया सह ॥ ९३ ॥

विश्वास-प्रस्तुतिः

तदादिश महाभाग प्रमाणं तद्वचो मम
वामदेव उवाच-
वासुदेव महास्तोत्रं महापातकनाशनम् ॥ ९४ ॥

मूलम्

तदादिश महाभाग प्रमाणं तद्वचो मम
वामदेव उवाच-
वासुदेव महास्तोत्रं महापातकनाशनम् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि
एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुङ्क्ष्वहि ॥ ९५ ॥

मूलम्

यदा त्वं श्रोष्यसे पुण्यं तदा मोक्षं प्रयास्यसि
एतत्ते सर्वमाख्यातं गच्छ राजन्प्रभुङ्क्ष्वहि ॥ ९५ ॥

विश्वास-प्रस्तुतिः

एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः
स्वशरीरस्य वै मांसं भक्षते प्रियया सह ॥ ९६ ॥

मूलम्

एवं श्रुत्वा ततो राजा भार्यया सह वै पुनः
स्वशरीरस्य वै मांसं भक्षते प्रियया सह ॥ ९६ ॥

विश्वास-प्रस्तुतिः

नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः
नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक ॥ ९७ ॥

मूलम्

नित्यमेव महाप्राज्ञ तद्वत्पूर्णं भवेद्वपुः
नित्यं प्रभक्षते राजा राज्ञी तस्य च पुत्रक ॥ ९७ ॥

विश्वास-प्रस्तुतिः

यथायथा च राजा च भक्षते च कलेवरम्
हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम् ॥ ९८ ॥

मूलम्

यथायथा च राजा च भक्षते च कलेवरम्
हसेते वै सदा नार्यौ तयोर्भावं वदाम्यहम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः
हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी ॥ ९९ ॥

मूलम्

प्रज्ञा सार्द्धं महासाध्वी चरित्रं तस्य भूपतेः
हास्यं हि कुरुते नित्यं तस्य श्रद्धानपायिनी ॥ ९९ ॥

प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयान्वितम्
ब्राह्मणेभ्यः सुसङ्कल्प्य अन्नमुद्दिश्य वैष्णवे १००
एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा
योषिदप्यात्मकायं च रसैश्चामृतसन्निभैः १०१
ततो वर्षशतान्ते तु वामदेवं महामुनिम्
स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत १०२
न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया
न दत्तमतिथिभ्यो हि वृद्धेभ्यश्च विशेषतः १०३
दीनेभ्यो हि न दत्तं च कृपया चातुराय च
एवं स भुङ्क्ते स्वं मांसं गर्हयन्स्वीय कर्म च १०४
एवं स्वमांसं भुञ्जानं सुबाहुं प्रियया सह
हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियौ १०५
तस्य कर्मविपाकस्य शुभात्मा हसते नृप
मम सङ्गप्रसङ्गेन न दत्तं पापचेतन १०६
प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः
क्वगतोसौ महामोहो येन त्वं मोहितो नृप १०७
लोभेन मोहयुक्तेन तमोगर्ते निपात्यते
तत्रापतित्वा मामैव पतितं दुःखसङ्कटे १०८
दानमार्गं परित्यज्य लोभमार्गं गतो नृप
भार्यया सह भुङ्क्ष्व त्वं व्यापितः क्षुधया भृशम् १०९
एवं तं हसते प्रज्ञा सुबाहुं प्रिययान्वितम्
एतद्धि कारणं सर्वं तयोर्हासस्य पुत्रक ११०
भक्ष्यमाणस्य भूपस्य देहं स्वं दुःखिते तदा
ऊचतुर्देहिदेहीति याच्यमानः सदैव हि १११
क्षुधातृष्णामहाप्राज्ञ भीमरूपे भयानके
पयसा मिश्रितं भक्षं याचेते नृपतीश्वरम् ११२
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम्
अन्यत्किं ते प्रवक्ष्यामि तद्वदस्व महामते ११३
विज्वल उवाच-
वासुदेवाभिधानं तत्स्तोत्रं कथय मे पितः
येन मोक्षं व्रजेद्राजा तद्विष्णोः परमं पदम् ११४
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये-
च्यवनचरित्रे सप्तनवतितमोऽध्यायः ९७