सुबाहुरुवाच-
विश्वास-प्रस्तुतिः
कीदृशैः कर्मभिः प्रेत्य गच्छन्ति नरकं नराः
स्वर्गं तु कीदृशैः प्रेत्य तन्मे त्वं वक्तुमर्हसि ॥ १ ॥
मूलम्

जैमिनिरुवाच-
ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः
कुकर्माण्युपजीवन्ति ते वै निरयगामिनः ॥ २ ॥

नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः
दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ॥ ३ ॥

ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम्
ब्रह्मस्वानां च हर्तारो नरा निरयगामिनः ॥ ४ ॥

पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः
असम्बद्धप्रलापाश्च ते वै निरयगामिनः ॥ ५ ॥

ये परस्वापहर्तारः परदूषणसूचकाः
परस्त्रीगामिनो ये च ते वै निरयगामिनः ॥ ६ ॥

प्राणिनां प्राणहिंसायां ये नरा निरताः सदा
परनिन्दारता ये वै ते वै निरयगामिनः ॥ ७ ॥

सुकूपानां तडागानां प्रपानां च परन्तप
सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ८ ॥
मूलम्
सुकूपानां तडागानां प्रपानां च परन्तप
सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ८ ॥
विश्वास-प्रस्तुतिः
विपर्यस्यन्ति ये दाराञ्छिशून्भृत्यातिथींस्तथा
उत्सन्नपितृदेवेज्या नरा निरयगामिनः ॥ ९ ॥

प्रव्रज्यादूषका राजन्ये चैवाश्रमदूषकाः
सखीनां दूषकाश्चैव ते वै निरयगामिनः ॥ १० ॥

आद्यं पुरुषमीशानं सर्वलोकमहेश्वरम्
न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः ॥ ११ ॥

प्रयाजानां मखानां च कन्यानां सुहृदां तथा
साधूनां च गुरूणां च दूषका निरयगामिनः ॥ १२ ॥

काष्ठैर्वा शङ्कुभिर्वापि शून्यैरश्मभिरेव वा
ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः ॥ १३ ॥

सर्वभूतेष्वविश्वस्ताः कामेनार्तास्तथैव च
सर्वभूतेषु जिह्माश्च ते वै निरयगामिनः ॥ १४ ॥

आगतान्भोजनार्थं तु ब्राह्मणान्वृत्तिकर्शितान्
प्रतिषेधं च कुर्वन्ति ते वै निरयगामिनः ॥ १५ ॥

क्षेत्रवृत्तिगृहच्छेदं प्रीतिच्छेदं च ये नराः
आशाच्छेदं प्रकुर्वन्ति ते वै निरयगामिनः ॥ १६ ॥

शस्त्राणां चैव कर्त्तारः शल्यानां धनुषां तथा
विक्रेतारश्च राजेन्द्र नरा निरयगामिनः ॥ १७ ॥

अनाथं विक्लवं दीनं रोगार्त्तं वृद्धमेव च
नानुकम्पन्ति ये मूढास्ते वै निरयगामिनः ॥ १८ ॥

नियमान्पूर्वमादाय ये पश्चादजितेन्द्रियाः
अतिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः ॥ १९ ॥

इत्येते कथिता राजन्नरा निरयगामिनः
स्वर्गलोकस्य गन्तारो ये जनास्तान्निबोध मे ॥ २० ॥

सत्येन तपसा क्षान्त्या दानेनाध्ययनेन च
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ २१ ॥

ये च होमपरा ध्यानदेवतार्चनतत्पराः
आददाना महात्मानस्ते नराः स्वर्गगामिनः ॥ २२ ॥

शुचयश्च शुचौ देशे वासुदेवपरायणाः
पठन्ति विष्णुं गायन्ति ते नराः स्वर्गगामिनः ॥ २३ ॥

मातापित्रोश्च शुश्रूषां ये कुर्वन्ति सदादृताः
वर्जयन्ति दिवास्वप्नं ते नराः स्वर्गगामिनः ॥ २४ ॥

सर्वहिंसानिवृत्ताश्च साधुसङ्गाश्च ये नराः
सर्वस्यापि हिते युक्तास्ते नराः स्वर्गगामिनः ॥ २५ ॥

सर्वलोभनिवृत्ताश्च सर्वसाहाश्च ये नराः
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ २६ ॥

शुश्रूषाभिस्तपोभिश्च गुरूणां मानदा नराः
प्रतिग्रहनिवृत्ता ये ते नराः स्वर्गगामिनः ॥ २७ ॥

सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥ २८ ॥

भयात्पापात्तपाच्छोकाद्दारिद्र्यव्याधिकर्शितान्
विमुञ्चन्ति च ये जन्तूंस्ते नराः स्वर्गगामिनः ॥ २९ ॥

आत्मस्वरूपवन्तश्च यौवनस्थाश्च भारत
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ३० ॥

सुवर्णस्य च दातारो गवां भूमेश्च भारत
अन्नानां वाससां चैव ते नराः स्वर्गगामिनः ॥ ३१ ॥

ये याचिताः प्रहृष्यन्ति प्रियं दत्वा वदन्ति च
त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः ॥ ३२ ॥

निवेशनानां धान्यानां नराणां च परन्तप
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ ३३ ॥

द्विषतामपि ये दोषान्न वदन्ति कदाचन
कीर्तयन्ति गुणान्ये च ते नराः स्वर्गगामिनः ॥ ३४ ॥

ये परेषां श्रियं दृष्ट्वा न वितप्यन्ति मत्सरात्
प्रहृष्टाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः ॥ ३५ ॥

प्रवृत्तौ च निवृत्तौ च श्रुतिशास्त्रोक्तमेव च
आचरन्ति महात्मानस्ते नराः स्वर्गगामिनः ॥ ३६ ॥

ये नराणां वचो वक्तुं न जानन्ति च विप्रियम्
प्रियवाक्यैकविज्ञातास्ते नराः स्वर्गगामिनः ॥ ३७ ॥

ये नामभागान्कुर्वन्ति क्षुत्तृष्णा श्रमपीडिताः
हन्तकारस्य कर्तारस्ते नराः स्वर्गगामिनः ॥ ३८ ॥

वापीकूपतडागानां प्रपानां चैव वेश्मनाम्
आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥ ३९ ॥

असत्येष्वपि ये सत्या ऋजवो नार्जवेष्वपि
रिपुष्वपिहिता ये च ते नराः स्वर्गगामिनः ॥ ४० ॥

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः
सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥ ४१ ॥

कुर्वन्त्यवन्ध्यं दिवसं धर्मेणैकेन सर्वदा
व्रतं गृह्णन्ति ये नित्यं ते नराः स्वर्गगामिनः ॥ ४२ ॥

आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः
शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः ॥ ४३ ॥

ये चापि भयसन्त्रस्तान्ब्राह्मणांश्च तथा स्त्रियः
सार्थान्वा परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४४ ॥

गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः
पितृपिण्डप्रदातारस्ते नराः स्वर्गगामिनः ॥ ४५ ॥

न वशे चेन्द्रियाणां च ये नराः संयमस्थिताः
त्यक्तलोभभयक्रोधास्ते नराः स्वर्गगामिनः ॥ ४६ ॥

यूका मत्कुणदंशादीन्ये जन्तूंस्तुदतस्तनुम्
पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ४७ ॥

अज्ञानाच्च यथोक्तेन विधिना सञ्चयन्ति च
सर्वद्वन्द्वसहा लोके ते नराः स्वर्गगामिनः ॥ ४८ ॥

ये पूताः परदारांश्च कर्मणा मनसा गिरा
रमयन्ति न सत्वस्थास्ते नराः स्वर्गगामिनः ॥ ४९ ॥

निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च
आत्मशक्तिं विजानन्ति ते नराः स्वर्गगामिनः ॥ ५० ॥

एवं ते कथितं सर्वं मया तत्त्वेन पार्थिव
दुर्गतिः सद्गतिश्चैव प्राप्यते कर्मभिर्यथा ॥ ५१ ॥

नरः परेषां प्रतिकूलमाचरन्प्रयाति घोरं नरकं सुदारुणम्
सदानुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदूरसंस्थिता ॥ ५२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे षण्णवतितमोऽध्यायः ९६