सुबाहुरुवाच-
विश्वास-प्रस्तुतिः
स्वर्गस्य मे गुणान्ब्रूहि साम्प्रतं द्विजसत्तम
एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम् ॥ १ ॥
मूलम्

जैमिनिरुवाच-
नन्दनादीनि रम्याणि दिव्यानि विविधानि च
तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च ॥ २ ॥

सर्वकामफलैर्वृक्षैः शोभनानि समन्ततः
विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ॥ ३ ॥

सर्वत्रैव विचित्राणि कामगानि वशानि च
तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥ ४ ॥

चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च
सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः ॥ ५ ॥

नराः सुकृतिनस्तेषु विचरन्ति यथा भुवि
न तत्र नास्तिका यान्ति न स्तेना नाजितेन्द्रियाः ॥ ६ ॥

न नृशंसा न पिशुना न कृतघ्ना न मानिनः
सत्यास्तपःस्थिताः शूरा दयावन्तः क्षमापराः ॥ ७ ॥

यज्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः
न रोगो न जरामृत्युर्न शोको न हिमातपौ ॥ ८ ॥

न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते
एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते ॥ ९ ॥

दोषास्तत्रैव ये सन्ति ताञ्छृणुष्व च साम्प्रतम्
शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते ॥ १० ॥

न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः
असन्तोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम् ॥ ११ ॥

सुखव्याप्तमनस्कानां सहसा पतनं तथा
इह यत्क्रियते कर्म फलं तत्रैव भुज्यते ॥ १२ ॥

कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता
सुबाहुरुवाच-
महान्तस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः ॥ १३ ॥

निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज
जैमिनिरुवाच-
आब्रह्मसदनादेव दोषाः सन्ति च वै नृप ॥ १४ ॥

अतएव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः
आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् ॥ १५ ॥

शुभं सनातनं ज्योतिः परम्ब्रह्मेति तद्विदुः
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ॥ १६ ॥

दम्भमोहभयद्रोह क्रोधलोभैरभिद्रुताः
निर्ममा निरहङ्कारा निर्द्वन्द्वास्संयतेन्द्रियाः ॥ १७ ॥

ध्यानयोगरताश्चैव तत्र गच्छन्ति साधवः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ १८ ॥

एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः
तमुवाच महात्मानं जैमिनिं वदतांवरम् ॥ १९ ॥
मूलम्
एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः
तमुवाच महात्मानं जैमिनिं वदतांवरम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सुबाहुरुवाच-
नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने
यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम् ॥ २० ॥

दानमेकं महाभाग नाहं दास्येकदाध्रुवम्
दानाच्च फललोभाच्च तस्मात्पतति वै नरः ॥ २१ ॥

इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः
ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् ॥ २२ ॥

दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम्
जैमिनिरुवाच-
सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम् ॥ २३ ॥

राजानो धर्मशीलाश्च महायज्ञैर्यजन्ति ते
सर्वदानानि दीयन्ते यज्ञेषु नृपनन्दन ॥ २४ ॥

आदावन्नं तु यज्ञेषु वस्त्रं ताम्बूलमेव च
काञ्चनं भूमिदानं च गोदानं प्रददन्ति च ॥ २५ ॥

सुयज्ञैर्वैष्णवं लोकं ते प्रयान्ति नरोत्तमाः
दानेन तृप्तिमायान्ति सन्तुष्टाः सन्ति भूमिपाः ॥ २६ ॥

तपस्विनो महात्मानो नित्यमेवं यजन्ति ते
सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः ॥ २७ ॥

भिक्षार्थं तस्य भागानि प्रकुर्वन्ति च भूपते
ब्राह्मणाय विभागैकं गोग्रासं तु महामते ॥ २८ ॥

सुपार्श्ववर्तिनां चैकं प्रयच्छन्ति तपोधनाः
तस्यान्नस्य प्रदानेन फलं भुञ्जन्ति मानवाः ॥ २९ ॥

क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजन्ति वै
तस्मात्त्वमपि राजेन्द्र देहि न्यायार्जितं धनम् ॥ ३० ॥

दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम् ॥ ३१ ॥

तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते
विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति ॥ ३२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पञ्चनवतितमोऽध्यायः ९५