कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत
यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ ॥ १ ॥
मूलम्

सर्वत्र कारणं कर्म शुभाशुभं न संशयः
पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुञ्जति ॥ २ ॥

दुष्कृतं भुञ्जते चात्र पापयुक्तेन कर्मणा
सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा ॥ ३ ॥

स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः
समारभेन्नरः कर्म मनसा निपुणेन च ॥ ४ ॥

समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा
अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समन्ततः ॥ ५ ॥

द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः
यादृशं वत्स भक्ष्यन्तु रसपक्वं निषेच्यते ॥ ६ ॥

तादृशं जायते वत्स रूपं चैव न संशयः
यादृशं क्रियते कर्म तादृशं परिभुज्यते ॥ ७ ॥

कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते
क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः ॥ ८ ॥

तादृशं भुञ्जते तात फलमेव न संशयः
यादृशं क्रियते कर्म तादृशं परिभुज्यते ॥ ९ ॥

विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्
कर्म दायादका लोके कर्म सम्बन्धिबान्धवाः ॥ १० ॥

कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः
सुवर्णं रजतं वापि यथारूपं निषिच्यते ॥ ११ ॥

तथा निषिच्यते जन्तुः पूर्वकर्मवशानुगः
पञ्चैतानीह दृश्यन्ते गर्भस्थस्यैव देहिनः ॥ १२ ॥

आयुः कर्म च वित्तं च विद्यानि धनमेव च
यथा मृत्पिण्डकं कर्त्ता कुरुते यद्यदिच्छति ॥ १३ ॥

तथा कर्मकृतं चैव कर्त्तारं प्रतिपद्यते
देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा ॥ १४ ॥

तिर्यक्त्वं स्थावरत्वं वा याति जन्तुः स्वकर्मभिः
स एव तु तथा भुङ्क्ते नित्यं विहितमात्मनः ॥ १५ ॥

आत्मना विहितं दुःखमात्मना विहितं सुखम्
गर्भशय्यामुपादाय भुञ्जते पूर्वदेहिकम् ॥ १६ ॥

पूर्वदेहकृतं कर्म न कश्चित्पुरुषोत्तमः
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥ १७ ॥

स्वकृतान्येव भुञ्जन्ति दुःखानि च सुखानि च
हेतुतः कारणैर्वापि सोहं कारेण बाध्यते ॥ १८ ॥

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्
तद्वच्छुभाशुभं कर्म कर्तारमनुगच्छति ॥ १९ ॥

उपभोगादृते यस्य नाश एव न विद्यते
प्राक्तनं बन्धनं कर्म कोन्यथाकर्तुमर्हति ॥ २० ॥

सुशीघ्रमनुधावन्तं विधानमनुधावति
शोभते सन्निपातेन यथाकर्म पुराकृतम् ॥ २१ ॥

उपतिष्ठति तिष्ठन्तं गच्छं तमनुगच्छति
करोति कुर्वतः कर्मच्छायेवानु विधीयते ॥ २२ ॥

यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम्
उपसर्गा हि विषया उपसर्गा जरादयः ॥ २३ ॥
मूलम्
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम्
उपसर्गा हि विषया उपसर्गा जरादयः ॥ २३ ॥
विश्वास-प्रस्तुतिः
पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा
येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च ॥ २४ ॥

स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते
दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम् ॥ २५ ॥

अन्यथा कर्मतच्चिन्त्यं जाग्रतः स्वपतोपि वा
अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति ॥ २६ ॥

शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति
यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि ॥ २७ ॥

तथैवात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ॥ २८ ॥

कर्मक्षयात्तथा जन्तोः शरीरं नाशमृच्छति
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम् ॥ २९ ॥

विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः
तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम् ॥ ३० ॥

यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते
यत्त्वया दृष्टमेवापि पृच्छितं तात साम्प्रतम् ॥ ३१ ॥

तस्यार्थं तु मया प्रोक्तं भुञ्जाते तौ हि साम्प्रतम्
आनन्दे कानने दृष्टं तयोः कर्मसुदारुणम् ॥ ३२ ॥

तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः
कर्मभूमिरियं तात अन्या भोगार्थभूमयः ॥ ३३ ॥

सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुञ्जति
सूत उवाच-
चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः ॥ ३४ ॥

रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः
विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः ॥ ३५ ॥

कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम्
अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप ॥ ३६ ॥

पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः
स चाहूय सुबाहुं तमिदं वचनमब्रवीत् ॥ ३७ ॥

राजन्देहि सुदानानि यैः सुखं तु प्रभुञ्ज्यत
दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः ॥ ३८ ॥

दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम्
दानेन चातुला कीर्तिर्जायते मृत्युमण्डले ॥ ३९ ॥

यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत्
तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते ॥ ४० ॥

तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा
सुबाहुरुवाच-
दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम् ॥ ४१ ॥

किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम
जैमिनिरुवाच-
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन ॥ ४२ ॥

राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम्
परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः ॥ ४३ ॥

प्रविशन्ति नरा लोके समुद्रमटवीं तथा
सेवामन्ये प्रपद्यन्तेऽश्ववृत्तिरिति या स्थिता ॥ ४४ ॥

हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा
तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः ॥ ४५ ॥

अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः
विशेषतो महाराज तस्य न्यायार्जितस्य च ॥ ४६ ॥

श्रद्धया विधिवत्पात्रे दत्तस्यान्तो न विद्यते
श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी ॥ ४७ ॥

सावित्री प्रसवित्री च संसारार्णवतारिणी
श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः ॥ ४८ ॥

निष्किञ्चनास्तु मुनयः श्रद्धाधर्मा दिवं गताः
सन्ति दानान्यनेकानि नानाभेदैर्नृपोत्तम ॥ ४९ ॥

अन्नदानात्परं नास्ति प्राणिनां गतिदाकयम्
तस्मादन्नम्प्रदातव्यम्पयसाचसमन्वितम् ॥ ५० ॥

मधुरेणापि पुण्येन वचसा च समन्वितम्
नास्त्यन्नात्तु परं दानमिहलोके परत्र च ॥ ५१ ॥

तारणाय हितायैव सुखसम्पत्तिहेतवे
श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा ॥ ५२ ॥

अन्नैकस्य प्रदानस्य फलं भुङ्क्ते भवेन्नरः
ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः ॥ ५३ ॥

अक्षयं जायते तस्य दानस्यापि महाफलम्
न च प्रस्थं न वा मुष्टिं नरस्य हि न सम्भवेत् ॥ ५४ ॥

अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः
श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ॥ ५५ ॥

एकस्यापिप्रधानस्यअन्नस्यापिप्रजेश्वर
जन्मान्तरं सुसम्प्राप्य नित्यं चान्नं प्रभुञ्जति ॥ ५६ ॥

पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः
जन्मान्तरं सुसम्प्राप्य नित्यमेव भुनक्ति च ॥ ५७ ॥

अन्नदानं प्रयच्छन्ति ब्राह्मणेभ्यो हि नित्यशः
मिष्टान्नपानं भुञ्जन्ति ते नरा अन्नदायिनः ॥ ५८ ॥

अन्नमेव वदन्त्येत ऋषयो वेदपारगाः
प्राणभूतं न सन्देहममृताद्धि समुद्भवम् ॥ ५९ ॥

प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम्
अन्नदानं महाराज देहि त्वं तु प्रयत्नतः ॥ ६० ॥

एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः
पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपण्डितम् ॥ ६१ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः ९४