कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम्
आश्चर्येण समायुक्तं तन्मे कथय सुव्रत ॥ १ ॥
मूलम्
किं विज्वल त्वया दृष्टमपूर्वं भ्रमता महीम्
आश्चर्येण समायुक्तं तन्मे कथय सुव्रत ॥ १ ॥
विश्वास-प्रस्तुतिः
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी
यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम ॥ २ ॥
मूलम्
इतः प्रयासि कं देशमाहारार्थं तु सोद्यमी
यद्य दृष्टं त्वया चित्रं समाख्याहि सुतोत्तम ॥ २ ॥
विश्वास-प्रस्तुतिः
विज्वल उवाच-
अस्ति मेरुगिरेः पृष्ठे आनन्दं नाम काननम्
दिव्यवृक्षैः समाकीर्णम्फ लपुष्पमयैः सदा ॥ ३ ॥
मूलम्
विज्वल उवाच-
अस्ति मेरुगिरेः पृष्ठे आनन्दं नाम काननम्
दिव्यवृक्षैः समाकीर्णम्फ लपुष्पमयैः सदा ॥ ३ ॥
विश्वास-प्रस्तुतिः
देववृन्दैः समाकीर्णं मुनिसिद्धसमन्वितम्
अप्सरोभिः सुरूपाभिर्गन्धर्वैः किन्नरोरगैः ॥ ४ ॥
मूलम्
देववृन्दैः समाकीर्णं मुनिसिद्धसमन्वितम्
अप्सरोभिः सुरूपाभिर्गन्धर्वैः किन्नरोरगैः ॥ ४ ॥
विश्वास-प्रस्तुतिः
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा
आनन्दकाननं पुण्यं दिव्यभावैः प्रभासते ॥ ५ ॥
मूलम्
वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा
आनन्दकाननं पुण्यं दिव्यभावैः प्रभासते ॥ ५ ॥
विश्वास-प्रस्तुतिः
विमानैः कोटिसङ्ख्याभिर्हंसकुन्देन्दुसन्निभैः
गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम् ॥ ६ ॥
मूलम्
विमानैः कोटिसङ्ख्याभिर्हंसकुन्देन्दुसन्निभैः
गीतकोलाहलैः रम्यैर्मेघध्वनिनिनादितम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
षट्पदानां निनादेन सर्वत्र मधुरायते
चन्दनैश्चूतवृक्षैश्च चम्पकैः पुष्पितैर्वृतम् ॥ ७ ॥
मूलम्
षट्पदानां निनादेन सर्वत्र मधुरायते
चन्दनैश्चूतवृक्षैश्च चम्पकैः पुष्पितैर्वृतम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
नानावृक्षैः प्रभात्येवमानन्दवनमुत्तमम्
नानापक्षिनिनादेन बहुकोलाहलान्वितम् ॥ ८ ॥
मूलम्
नानावृक्षैः प्रभात्येवमानन्दवनमुत्तमम्
नानापक्षिनिनादेन बहुकोलाहलान्वितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
एवमानन्दनं दृष्टं मया तत्र सुशोभनम्
विमलं च सरस्तात शोभते सागरोपमम् ॥ ९ ॥
मूलम्
एवमानन्दनं दृष्टं मया तत्र सुशोभनम्
विमलं च सरस्तात शोभते सागरोपमम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
सम्पूर्णं पुण्यतोयेन पद्मसौगन्धिकैः शुभैः
जलजैस्तु समाकीर्णं हंसकारण्डवान्वितम् ॥ १० ॥
मूलम्
सम्पूर्णं पुण्यतोयेन पद्मसौगन्धिकैः शुभैः
जलजैस्तु समाकीर्णं हंसकारण्डवान्वितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एवमासीत्सरस्तस्य सुमध्ये काननस्य हि
देवगन्धर्वसम्बाधैर्मुनिवृन्दैरलङ्कृतम् ॥ ११ ॥
मूलम्
एवमासीत्सरस्तस्य सुमध्ये काननस्य हि
देवगन्धर्वसम्बाधैर्मुनिवृन्दैरलङ्कृतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
किन्नरोरगगन्धर्वैश्चारणैश्च सुशोभते
तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते ॥ १२ ॥
मूलम्
किन्नरोरगगन्धर्वैश्चारणैश्च सुशोभते
तत्राश्चर्यं मया दृष्टं वक्तुं तात न शक्यते ॥ १२ ॥
विश्वास-प्रस्तुतिः
विमानेनापि दिव्येन कलशैरुपशोभते
छत्रदण्डपताकाभीराजमानेन सत्तम ॥ १३ ॥
मूलम्
विमानेनापि दिव्येन कलशैरुपशोभते
छत्रदण्डपताकाभीराजमानेन सत्तम ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वभोगाविलेनापि गीयमानेथ किन्नरैः
गन्धर्वैरप्सरोभिश्च शोभमानोथ सुव्रत ॥ १४ ॥
मूलम्
सर्वभोगाविलेनापि गीयमानेथ किन्नरैः
गन्धर्वैरप्सरोभिश्च शोभमानोथ सुव्रत ॥ १४ ॥
विश्वास-प्रस्तुतिः
स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः
रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित् ॥ १५ ॥
मूलम्
स्तूयमानो महासिद्धऋषिभिस्तत्त्ववेदिभिः
रूपेणाप्रतिमो लोके न दृष्टस्तादृशः क्वचित् ॥ १५ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणशोभाङ्गो दिव्यमालाविशोभितः
महारत्नकृतामाला यस्योरसि विराजते ॥ १६ ॥
मूलम्
सर्वाभरणशोभाङ्गो दिव्यमालाविशोभितः
महारत्नकृतामाला यस्योरसि विराजते ॥ १६ ॥
विश्वास-प्रस्तुतिः
तत्समीपे स्थिता चैका नारी दृष्टा वरानना
हेमहारैश्च मुक्तानां वलयैः कङ्कणैर्युता ॥ १७ ॥
मूलम्
तत्समीपे स्थिता चैका नारी दृष्टा वरानना
हेमहारैश्च मुक्तानां वलयैः कङ्कणैर्युता ॥ १७ ॥
विश्वास-प्रस्तुतिः
दिव्यवस्त्रैश्च गन्धैश्च चन्दनैश्चारुलेपनैः
स्तूयमानो गीयमानः पुरुषस्तत्र चागतः ॥ १८ ॥
मूलम्
दिव्यवस्त्रैश्च गन्धैश्च चन्दनैश्चारुलेपनैः
स्तूयमानो गीयमानः पुरुषस्तत्र चागतः ॥ १८ ॥
विश्वास-प्रस्तुतिः
रतिरूपा वरारोहा पीनश्रोणिपयोधरा
सर्वाभरणशोभाङ्गी तादृशी रूपसम्पदा ॥ १९ ॥
मूलम्
रतिरूपा वरारोहा पीनश्रोणिपयोधरा
सर्वाभरणशोभाङ्गी तादृशी रूपसम्पदा ॥ १९ ॥
विश्वास-प्रस्तुतिः
द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ
रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ ॥ २० ॥
मूलम्
द्वावेतौ तौ मया दृष्टौ विमानेनापि चागतौ
रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ ॥ २० ॥
विश्वास-प्रस्तुतिः
समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके
स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ ॥ २१ ॥
मूलम्
समुत्तीर्णौ विमानात्तावागतौ सरसोन्तिके
स्नातौ तात महात्मानौ स्त्रीपुंसौ कमलेक्षणौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रगृह्य तौ महाशस्त्रौ दम्पती तु परस्परम्
तादृशौ च शवौ तत्र पतितौ सरसस्तटे ॥ २२ ॥
मूलम्
प्रगृह्य तौ महाशस्त्रौ दम्पती तु परस्परम्
तादृशौ च शवौ तत्र पतितौ सरसस्तटे ॥ २२ ॥
विश्वास-प्रस्तुतिः
प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ
रूपेणापि महाभाग तादृशावेव तौ शवौ ॥ २३ ॥
मूलम्
प्रभासे ते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ
रूपेणापि महाभाग तादृशावेव तौ शवौ ॥ २३ ॥
विश्वास-प्रस्तुतिः
देवरूपोपमस्तात यथा पुंसस्तथा शवः
यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते ॥ २४ ॥
मूलम्
देवरूपोपमस्तात यथा पुंसस्तथा शवः
यथारूपं हि तस्यापि तादृशस्तत्र दृश्यते ॥ २४ ॥
विश्वास-प्रस्तुतिः
यथारूपं तु भार्यायास्तथा शवो द्वितीयकः
स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः ॥ २५ ॥
मूलम्
यथारूपं तु भार्यायास्तथा शवो द्वितीयकः
स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः ॥ २५ ॥
विश्वास-प्रस्तुतिः
भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु
पुरुषो भक्षते तद्वच्छवमांसं समातुरः ॥ २६ ॥
मूलम्
भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु
पुरुषो भक्षते तद्वच्छवमांसं समातुरः ॥ २६ ॥
विश्वास-प्रस्तुतिः
क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः
यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् ॥ २७ ॥
मूलम्
क्षुधया पीड्यमानौ तौ भक्षेते पिशितं तयोः
यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सरस्यथ जलं पीत्वा सञ्जातौ सुखितौ पितः
कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः ॥ २८ ॥
मूलम्
सरस्यथ जलं पीत्वा सञ्जातौ सुखितौ पितः
कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः ॥ २८ ॥
विश्वास-प्रस्तुतिः
अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै
रूपसौभाग्यसम्पन्ने ते स्त्रियौ चारुलक्षणे ॥ २९ ॥
मूलम्
अन्ये द्वे तु स्त्रियौ तात मया दृष्टे च तत्र वै
रूपसौभाग्यसम्पन्ने ते स्त्रियौ चारुलक्षणे ॥ २९ ॥
विश्वास-प्रस्तुतिः
ताभ्यां प्रभक्षितं मांसं यदा तात महावने
प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः ॥ ३० ॥
मूलम्
ताभ्यां प्रभक्षितं मांसं यदा तात महावने
प्रहसेते तदा ते द्वे हास्यैरट्टाट्टकैःपुनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
भक्षते च स्वमांसानि तावेतौ परिनित्यशः
कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि ॥ ३१ ॥
मूलम्
भक्षते च स्वमांसानि तावेतौ परिनित्यशः
कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि ॥ ३१ ॥
विश्वास-प्रस्तुतिः
अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते
दंष्ट्राकरालवदने तत्रैवाति विभीषणे ॥ ३२ ॥
मूलम्
अन्ये स्त्रियौ महाभाग रौद्रा कारसमन्विते
दंष्ट्राकरालवदने तत्रैवाति विभीषणे ॥ ३२ ॥
विश्वास-प्रस्तुतिः
ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः
एवं दृष्टं मया तात वसता वनसन्निधौ ॥ ३३ ॥
मूलम्
ऊचतुस्तौ तदा ते तु देहिदेहीति वै पुनः
एवं दृष्टं मया तात वसता वनसन्निधौ ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च
जायेते च सुसम्पूर्णौ कायौ च शवयोः पुनः ॥ ३४ ॥
मूलम्
नित्यमुत्कीर्य भक्ष्येते तौ द्वौ तु मांसमेव च
जायेते च सुसम्पूर्णौ कायौ च शवयोः पुनः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः
कुर्वन्ति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ॥ ३५ ॥
मूलम्
नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः
कुर्वन्ति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
एतदाश्चर्य सञ्जातं दृष्टं तात मया तदा
भवता पृच्छितं तात दृष्टमाश्चर्यमेव च ॥ ३६ ॥
मूलम्
एतदाश्चर्य सञ्जातं दृष्टं तात मया तदा
भवता पृच्छितं तात दृष्टमाश्चर्यमेव च ॥ ३६ ॥
विश्वास-प्रस्तुतिः
मया ख्यातं तवाग्रे वै सर्वसन्देहकारणम्
कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा ॥ ३७ ॥
मूलम्
मया ख्यातं तवाग्रे वै सर्वसन्देहकारणम्
कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम
दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः ॥ ३८ ॥
मूलम्
विमानेनागतो योसौ स्त्रिया सार्द्धं द्विजोत्तम
दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
का च नारी महाभाग महामांसं प्रभक्षति
स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति ॥ ३९ ॥
मूलम्
का च नारी महाभाग महामांसं प्रभक्षति
स कश्चाप्यागतस्तात सा चैवाभ्येत्य भक्षति ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः
ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः ॥ ४० ॥
मूलम्
प्रहसेते तदा ते द्वे स्त्रियौ तात वदस्व नः
ऊचतुस्तौ तथा चान्ये देहिदेहीति वा पुनः ॥ ४० ॥
विश्वास-प्रस्तुतिः
तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ
एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत ॥ ४१ ॥
मूलम्
तेद्वेत्वं मे समाचक्ष्व महाभीषणके स्त्रियौ
एतन्मे संशयं तात छेत्तुमर्हसि सुव्रत ॥ ४१ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा महाराज विरराम स चाण्डजः
एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः ॥ ४२ ॥
मूलम्
एवमुक्त्वा महाराज विरराम स चाण्डजः
एवं पृष्टस्तृतीयेन विज्वलेनात्मजेन सः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
प्रोवाच सर्वं वृत्तान्तं च्यवनस्यापि शृण्वतः ॥ ४३ ॥
मूलम्
प्रोवाच सर्वं वृत्तान्तं च्यवनस्यापि शृण्वतः ॥ ४३ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे त्रिनवतितमोऽध्यायः ९३