कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
कालञ्जरं समासाद्य निवसन्ति सुदुःखिताः
महापापैस्तु सन्दग्धा हाहाभूता विचेतनाः ॥ १ ॥
मूलम्
कालञ्जरं समासाद्य निवसन्ति सुदुःखिताः
महापापैस्तु सन्दग्धा हाहाभूता विचेतनाः ॥ १ ॥
विश्वास-प्रस्तुतिः
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः
तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः ॥ २ ॥
मूलम्
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः
तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः ॥ २ ॥
विश्वास-प्रस्तुतिः
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ॥ ३ ॥
मूलम्
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ॥ ४ ॥
मूलम्
सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ॥ ४ ॥
विश्वास-प्रस्तुतिः
गच्छन्तु तत्र वै यूयं चत्वारः पातकाविलाः
गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ ५ ॥
मूलम्
गच्छन्तु तत्र वै यूयं चत्वारः पातकाविलाः
गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ ५ ॥
विश्वास-प्रस्तुतिः
पातकेभ्यो न सन्देहो निर्मलत्वं गमिष्यथ
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ॥ ६ ॥
मूलम्
पातकेभ्यो न सन्देहो निर्मलत्वं गमिष्यथ
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
कालञ्जरात्ततो जग्मुः सत्वरं पापपीडिताः
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ॥ ७ ॥
मूलम्
कालञ्जरात्ततो जग्मुः सत्वरं पापपीडिताः
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ॥ ७ ॥
विश्वास-प्रस्तुतिः
प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम
अमासोमं सुसम्प्राप्य जग्मुस्ते च महापुरीम् ॥ ८ ॥
मूलम्
प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम
अमासोमं सुसम्प्राप्य जग्मुस्ते च महापुरीम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः
वैश्यो वञ्जुलकश्चैव सुरापः पापचेतनः ॥ ९ ॥
मूलम्
विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः
वैश्यो वञ्जुलकश्चैव सुरापः पापचेतनः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तस्मिन्पर्वणि सम्प्राप्ते स्नाता गङ्गाम्भसि द्विज
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः ॥ १० ॥
मूलम्
तस्मिन्पर्वणि सम्प्राप्ते स्नाता गङ्गाम्भसि द्विज
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः ॥ १० ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः
लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ ११ ॥
मूलम्
ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः
लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम ॥ १२ ॥
मूलम्
पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम ॥ १२ ॥
विश्वास-प्रस्तुतिः
कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः ॥ १३ ॥
मूलम्
कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः ॥ १३ ॥
विश्वास-प्रस्तुतिः
कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः ॥ १४ ॥
मूलम्
कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यं यं तीर्थं प्रयान्त्येते सर्वे तीर्था द्विजोत्तम
हंसरूपेण वै यान्ति तैः सार्द्धं तु सुदुःखिताः ॥ १५ ॥
मूलम्
यं यं तीर्थं प्रयान्त्येते सर्वे तीर्था द्विजोत्तम
हंसरूपेण वै यान्ति तैः सार्द्धं तु सुदुःखिताः ॥ १५ ॥
विश्वास-प्रस्तुतिः
भार्याः पातकरूपाश्च भ्रमन्ति परितस्तथा
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः ॥ १६ ॥
मूलम्
भार्याः पातकरूपाश्च भ्रमन्ति परितस्तथा
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः ॥ १६ ॥
विश्वास-प्रस्तुतिः
तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः
मानसं चागतास्ते च पातकाकुलमानसाः ॥ १७ ॥
मूलम्
तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः
मानसं चागतास्ते च पातकाकुलमानसाः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्र स्नाता महाराज न जहाति च पातकः
लज्जयाविष्टमनसा मानसो हंसरूपधृक् ॥ १८ ॥
मूलम्
तत्र स्नाता महाराज न जहाति च पातकः
लज्जयाविष्टमनसा मानसो हंसरूपधृक् ॥ १८ ॥
विश्वास-प्रस्तुतिः
सञ्जातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् ॥ १९ ॥
मूलम्
सञ्जातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
कुब्जायाः सङ्गमे ते तु सुरसिद्धनिषेविते
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम ॥ २० ॥
मूलम्
कुब्जायाः सङ्गमे ते तु सुरसिद्धनिषेविते
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम ॥ २० ॥
विश्वास-प्रस्तुतिः
विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे
यं यं तीर्थं प्रयान्त्येते हंसाः स्नानं प्रचक्रमुः ॥ २१ ॥
मूलम्
विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे
यं यं तीर्थं प्रयान्त्येते हंसाः स्नानं प्रचक्रमुः ॥ २१ ॥
विश्वास-प्रस्तुतिः
जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति
तोयानलेन कुब्जायाः पातकं वरमेव च ॥ २२ ॥
मूलम्
जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति
तोयानलेन कुब्जायाः पातकं वरमेव च ॥ २२ ॥
विश्वास-प्रस्तुतिः
भस्मावशेषं सञ्जातं तदा मृतास्तु ताः स्त्रियः
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः ॥ २३ ॥
मूलम्
भस्मावशेषं सञ्जातं तदा मृतास्तु ताः स्त्रियः
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः ॥ २३ ॥
विश्वास-प्रस्तुतिः
भस्मीभूतास्तु सञ्जाता रेवायाः कुब्जया हताः
तास्तु हता महाभाग या मृतास्तु सरित्तटे ॥ २४ ॥
मूलम्
भस्मीभूतास्तु सञ्जाता रेवायाः कुब्जया हताः
तास्तु हता महाभाग या मृतास्तु सरित्तटे ॥ २४ ॥
विश्वास-प्रस्तुतिः
अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् ॥ २५ ॥
मूलम्
अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ॥ २६ ॥
मूलम्
चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
वाराणसी चतुर्थी च चत्वारः पापनाशनाः
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः ॥ २७ ॥
मूलम्
वाराणसी चतुर्थी च चत्वारः पापनाशनाः
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः ॥ २७ ॥
विश्वास-प्रस्तुतिः
तीर्थान्येतानि दुःखेन तीर्थेषु च महामते
न गतं पातकं घोरं तेषां तु भ्रमतां सुत ॥ २८ ॥
मूलम्
तीर्थान्येतानि दुःखेन तीर्थेषु च महामते
न गतं पातकं घोरं तेषां तु भ्रमतां सुत ॥ २८ ॥
विश्वास-प्रस्तुतिः
कुब्जायाः सङ्गमे शुद्धा विमुक्ताः किल्बिषात्किल
तीर्थानामेव सर्वेषां पुण्यानामिह सम्मतः ॥ २९ ॥
मूलम्
कुब्जायाः सङ्गमे शुद्धा विमुक्ताः किल्बिषात्किल
तीर्थानामेव सर्वेषां पुण्यानामिह सम्मतः ॥ २९ ॥
विश्वास-प्रस्तुतिः
राजा प्रयागः सञ्जात इन्द्रस्य पुरतः किल
तावद्गर्जन्तु तीर्थानि यावद्रेवा न दृश्यते ॥ ३० ॥
मूलम्
राजा प्रयागः सञ्जात इन्द्रस्य पुरतः किल
तावद्गर्जन्तु तीर्थानि यावद्रेवा न दृश्यते ॥ ३० ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता
कपिलासङ्गमे पुण्ये रेवायाः सङ्गमे तथा ॥ ३१ ॥
मूलम्
ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता
कपिलासङ्गमे पुण्ये रेवायाः सङ्गमे तथा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
मेघनादसमायोगे तथा चैवोरुसङ्गमे
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ॥ ३२ ॥
मूलम्
मेघनादसमायोगे तथा चैवोरुसङ्गमे
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसङ्गमे
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ॥ ३३ ॥
मूलम्
सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसङ्गमे
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
विटङ्कासङ्गमे पुण्या श्रीकण्ठे मङ्गलेश्वरे
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥ ३४ ॥
मूलम्
विटङ्कासङ्गमे पुण्या श्रीकण्ठे मङ्गलेश्वरे
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तीर्थमाता महादेवी अघराशिविनाशिनी
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ॥ ३५ ॥
मूलम्
तीर्थमाता महादेवी अघराशिविनाशिनी
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ ३६ ॥
मूलम्
अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ॥ ३७ ॥
मूलम्
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ॥ ३७ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ९२