०९१

कुञ्जलउवाच-

विश्वास-प्रस्तुतिः

ब्रह्महत्याभिभूतस्तु सहस्राक्षो यदा पुरा
गौतमस्य प्रियासङ्गादगम्यागमनं महत् ॥ १ ॥

मूलम्

सञ्जातं पातकं तस्य त्यक्तो देवैश्च ब्राह्मणैः
सहस्राक्षस्तपस्तेपे निरालम्बो निराश्रयः ॥ २ ॥

तपोन्ते देवताः सर्वा ऋषयो यक्षकिन्नराः
देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ॥ ३ ॥

देशं मालवकं नीत्वा देवराजं सुतोत्तम
चक्रे स्नानं महाभाग कुम्भैरुदकपूरितैः ॥ ४ ॥

स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः
प्रयागे तु सहस्राक्ष अर्घतीर्थे ततः पुनः ॥ ५ ॥

पुष्करेण महात्मासौ स्नापितः स्वयमेव हि
ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृन्दैर्द्विजोत्तम ॥ ६ ॥

नागैर्वृक्षैर्नागसर्पैर्गन्धर्वैस्तु सकिन्नरैः
स्नापितो देवराजस्तु वेदमन्त्रैः सुसंस्कृतः ॥ ७ ॥

मुनिभिः सर्वपापघ्नैस्तस्मिन्काले द्विजोत्तम
शुद्धे तस्मिन्महाभागे सहस्राक्षे महात्मनि ॥ ८ ॥

ब्रह्महत्या गता तस्य अगम्यागमनं तथा
ब्रह्महत्या ततो नष्टा अगम्यागमनेन च ॥ ९ ॥

पापेन तेन घोरेण सार्द्धमिन्द्रस्य भूतले
सुप्रसन्नः सहस्राक्षस्तीर्थेभ्यो हि वरं ददौ ॥ १० ॥

भवन्तस्तीर्थराजानो भविष्यथ न संशयः
मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ॥ ११ ॥

सुघोरात्किल्बिषादत्र युष्माभिर्विमलैरहम्
एवं तेभ्यो वरं दत्वा मालवाय वरं ददौ ॥ १२ ॥

यस्मात्त्वया मलं मेऽद्य विधृतं श्रमदायकम्
तस्मात्त्वमन्नपानैश्च धनधान्यैरलङ्कृतः ॥ १३ ॥

भविष्यसि न सन्देहो मत्प्रसादान्न संशयः
सुदुःकालैर्विना त्वं तु भविष्यसि सुपुण्यवान् ॥ १४ ॥

एवं तस्मै वरं दत्वा देवराजः पुरन्दरः
क्षेत्राणि सर्वतीर्थानि देशो मालवकस्तथा ॥ १५ ॥

आखण्डलेन सार्द्धं ते स्वस्थानं प्रतिजग्मिरे
सूत उवाच-
तदाप्रभृति चत्वारः प्रयागः पुष्करस्तथा ॥ १६ ॥

वाराणसी चार्घतीर्थं प्राप्ता राजत्वमुत्तमम् ॥ १७ ॥

कुञ्जल उवाच-
अस्ति पञ्चालदेशेषु विदुरो नाम क्षत्रियः
तेन मोहप्रसङ्गेन ब्राह्मणो निहतः पुराः ॥ १८ ॥

शिखासूत्रविहीनस्तु तिलकेन विवर्जितः
भिक्षार्थमटतेसोऽपि ब्रह्मघ्नोहं समागतः ॥ १९ ॥

ब्रह्मघ्नाय सुरापाय भिक्षा चान्नं प्रदीयताम्
गृहेष्वेवं समस्तेषु भ्रमते याचते पुरा ॥ २० ॥

एवं सर्वेषु तीर्थेषु अटित्वैव समागतः
ब्रह्महत्या न तस्यापि प्रयाति द्विजसत्तम ॥ २१ ॥

वृक्षच्छायां समाश्रित्यदह्यमानेन चेतसा
संस्थितो विदुरः पापो दुःखशोकसमन्वितः ॥ २२ ॥

चन्द्रशर्मा ततो विप्रो महामोहेन पीडितः
न्यवसन्मागधे देशे गुरुघातकरश्च सः ॥ २३ ॥

स्वजनैर्बन्धुवर्गैश्च परित्यक्तो दुरात्मवान्
स हि तत्र समायातो यत्रासौ विदुरः स्थितः ॥ २४ ॥

शिखासूत्रविहीनस्तु विप्रलिङ्गैर्विवर्जितः
तदासौ पृच्छितस्तेन विदुरेण दुरात्मना ॥ २५ ॥

भवान्को हि समायातोः दुर्भगो दग्धमानसः
विप्रलिङ्गविहीनस्तु कस्मात्त्वं भ्रमसे महीम् ॥ २६ ॥

विदुरेणोक्तमात्रस्तु चन्द्रशर्मा द्विजाधमः
आचष्टे सर्वमेवापि यथापूर्वकृतं स्वकम् ॥ २७ ॥

पातकं च महाघोरं वसता च गुरोर्गृहे
महामोहगतेनापि क्रोधेनाकुलितेन च ॥ २८ ॥

मूलम्

पातकं च महाघोरं वसता च गुरोर्गृहे
महामोहगतेनापि क्रोधेनाकुलितेन च ॥ २८ ॥

विश्वास-प्रस्तुतिः

गुरोर्घातः कृतः पूर्वं तेन दग्धोस्मि साम्प्रतम्
चन्द्रशर्मा च वृत्तान्तमुक्त्वा सर्वमपृच्छत ॥ २९ ॥

भवान्को हि सुदुःखात्मा वृक्षच्छायां समाश्रितः
विदुरेण समासेन आत्मपापं निवेदितम् ॥ ३० ॥

अथ कश्चिद्द्विजः प्राप्तस्तृतीयः श्रमकर्षितः
वेदशर्मेति वै नाम बहुपातकसञ्चयः ॥ ३१ ॥

द्वाभ्यामपि सुसम्पृष्टः को भवान्दुःखिताकृतिः
कस्माद्भ्रमसि वै पृथ्वीं वद भावं त्वमात्मनः ॥ ३२ ॥

वेदशर्मा ततः सर्वमात्मचेष्टितमेव च
कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ॥ ३३ ॥

धिक्कृतः सर्वलोकैश्च अन्यैः स्वजनबान्धवैः
तेन पापेन संलिप्तो भ्रमाम्येवं महीमिमाम् ॥ ३४ ॥

वञ्जुलो नाम वैश्योथ सुरापायी समागतः
स गोघ्नश्च विशेषेण तैश्च पृष्टो यथा पुरा ॥ ३५ ॥

तेन आवेदितं सर्वं पातकं यत्पुराकृतम्
तैराकर्णितमन्यैश्च सर्वं तस्यप्रभाषितम् ॥ ३६ ॥

एवं चत्वारःपापिष्ठा एकस्थानं समागताः
कः कस्यापि न सम्पर्कं भोजनाच्छादनेन च ॥ ३७ ॥

करोति च महाभाग वार्तां चक्रुः परस्परम्
न विशन्त्यासने चैके न स्वपन्त्येकसंस्तरे ॥ ३८ ॥

एवं दुःखसमाविष्टा नानातीर्थेषु वै गताः
तेषां तु पापका घोरा न नश्यन्ति च नन्दन ॥ ३९ ॥

सामर्थ्यं नास्ति तीर्थानां महापातकनाशने
विदुराद्यास्ततस्ते तु गताः कालञ्जरं गिरिम् ४०