०९०

सूतउवाच-

विश्वास-प्रस्तुतिः

एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम्
कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १ ॥

मूलम्

एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम्
कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १ ॥

विश्वास-प्रस्तुतिः

कुञ्जल उवाच-
सम्प्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः
सर्वसन्देहविध्वंसं चरित्रं पापनाशनम् ॥ २ ॥

मूलम्

कुञ्जल उवाच-
सम्प्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः
सर्वसन्देहविध्वंसं चरित्रं पापनाशनम् ॥ २ ॥

विश्वास-प्रस्तुतिः

इन्द्रलोके प्रववृते संवादो देव कौतुकः
सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः ॥ ३ ॥

मूलम्

इन्द्रलोके प्रववृते संवादो देव कौतुकः
सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः ॥ ३ ॥

विश्वास-प्रस्तुतिः

देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ॥ ४ ॥

मूलम्

देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ॥ ५ ॥

मूलम्

तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ॥ ५ ॥

विश्वास-प्रस्तुतिः

बद्धाञ्जलिपुटोभूत्वा प्रणाममकरोत्तदा
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ॥ ६ ॥

मूलम्

बद्धाञ्जलिपुटोभूत्वा प्रणाममकरोत्तदा
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः
कस्माच्चागमनं तेऽद्य कारणं वद साम्प्रतम् ॥ ७ ॥

मूलम्

पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः
कस्माच्चागमनं तेऽद्य कारणं वद साम्प्रतम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो देवराजेन प्रत्युवाच महामुनिः
भवन्तं द्रष्टुमायातः पृथिव्यास्तु पुरन्दरः ॥ ८ ॥

मूलम्

इत्युक्तो देवराजेन प्रत्युवाच महामुनिः
भवन्तं द्रष्टुमायातः पृथिव्यास्तु पुरन्दरः ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ॥ ९ ॥

मूलम्

स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ॥ ९ ॥

विश्वास-प्रस्तुतिः

एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा
देवेन्द्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने ॥ १० ॥

मूलम्

एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा
देवेन्द्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने ॥ १० ॥

विश्वास-प्रस्तुतिः

किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ॥ ११ ॥

मूलम्

किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ॥ ११ ॥

विश्वास-प्रस्तुतिः

स्वामिद्रोहान्महाभाग नारीहन्ता कथं सुखी
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर ॥ १२ ॥

मूलम्

स्वामिद्रोहान्महाभाग नारीहन्ता कथं सुखी
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर ॥ १२ ॥

विश्वास-प्रस्तुतिः

तेषां नैव प्रजानामि विशेषं पापनाशनम्
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च ॥ १३ ॥

मूलम्

तेषां नैव प्रजानामि विशेषं पापनाशनम्
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वाण्येव सुतीर्थानि जानाम्यहं पुरन्दर
अविशेषं विशेषं वै नैव जानामि साम्प्रतम् ॥ १४ ॥

मूलम्

सर्वाण्येव सुतीर्थानि जानाम्यहं पुरन्दर
अविशेषं विशेषं वै नैव जानामि साम्प्रतम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम्
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः ॥ १५ ॥

मूलम्

प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम्
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः ॥ १५ ॥

विश्वास-प्रस्तुतिः

समाहूतानि चेन्द्रेण तीर्थानि भूगतानि च
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् ॥ १६ ॥

मूलम्

समाहूतानि चेन्द्रेण तीर्थानि भूगतानि च
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् ॥ १६ ॥

विश्वास-प्रस्तुतिः

बद्धाञ्जलीनि दिव्यानि भूषितानि सुभूषणैः
दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत ॥ १७ ॥

मूलम्

बद्धाञ्जलीनि दिव्यानि भूषितानि सुभूषणैः
दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत ॥ १७ ॥

विश्वास-प्रस्तुतिः

स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः
हेमचन्दनकाशानि दिव्यरूपधराणि च ॥ १८ ॥

मूलम्

स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः
हेमचन्दनकाशानि दिव्यरूपधराणि च ॥ १८ ॥

विश्वास-प्रस्तुतिः

मुक्ताफलस्यवर्णेन प्रभासन्ति नरेश्वर
तप्तकाञ्चनवर्णानि सारुण्यानि च तत्र वै ॥ १९ ॥

मूलम्

मुक्ताफलस्यवर्णेन प्रभासन्ति नरेश्वर
तप्तकाञ्चनवर्णानि सारुण्यानि च तत्र वै ॥ १९ ॥

विश्वास-प्रस्तुतिः

कति शुक्ल सुपीतानि प्रभावन्ति सभान्तरे
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु ॥ २० ॥

मूलम्

कति शुक्ल सुपीतानि प्रभावन्ति सभान्तरे
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु ॥ २० ॥

विश्वास-प्रस्तुतिः

सूर्यतेजः प्रकाशानि तडित्तेजः समानि च
पावकाभानि चान्यानि प्रभासन्ति सभान्तरे ॥ २१ ॥

मूलम्

सूर्यतेजः प्रकाशानि तडित्तेजः समानि च
पावकाभानि चान्यानि प्रभासन्ति सभान्तरे ॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वाभरणशोभाढ्यैः प्रशोभन्ते नरेश्वर
हारकङ्कणकेयूरमालाभिस्तु सुचन्दनैः ॥ २२ ॥

मूलम्

सर्वाभरणशोभाढ्यैः प्रशोभन्ते नरेश्वर
हारकङ्कणकेयूरमालाभिस्तु सुचन्दनैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च
कमण्डलुकराण्येव आयातानि सभान्तरे ॥ २३ ॥

मूलम्

दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च
कमण्डलुकराण्येव आयातानि सभान्तरे ॥ २३ ॥

विश्वास-प्रस्तुतिः

गङ्गा च नर्मदा पुण्या चन्द्रभागा सरस्वती
देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला श्रुता ॥ २४ ॥

मूलम्

गङ्गा च नर्मदा पुण्या चन्द्रभागा सरस्वती
देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला श्रुता ॥ २४ ॥

विश्वास-प्रस्तुतिः

रम्भा भानुमती पुण्या पारा चैव सुघर्घरा
शोणा च सिन्धुसौवीरा कावेरी कपिला तथा ॥ २५ ॥

मूलम्

रम्भा भानुमती पुण्या पारा चैव सुघर्घरा
शोणा च सिन्धुसौवीरा कावेरी कपिला तथा ॥ २५ ॥

विश्वास-प्रस्तुतिः

कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी ॥ २६ ॥

मूलम्

कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी ॥ २६ ॥

विश्वास-प्रस्तुतिः

सुहंसी हंसपादा च हंसवेगा मनोरथा
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी ॥ २७ ॥

मूलम्

सुहंसी हंसपादा च हंसवेगा मनोरथा
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी ॥ २७ ॥

विश्वास-प्रस्तुतिः

नाहलीसुमरी चान्या पुण्या चान्या पुलिन्दिका
हेमा मनोरथा दिव्या चन्द्रिका वेदसङ्क्रमा ॥ २८ ॥

मूलम्

नाहलीसुमरी चान्या पुण्या चान्या पुलिन्दिका
हेमा मनोरथा दिव्या चन्द्रिका वेदसङ्क्रमा ॥ २८ ॥

विश्वास-प्रस्तुतिः

ज्वालाहुताशनी स्वाहा काला चैव कपिञ्जला
स्वधा च सुकला लिङ्गा गम्भीरा भीमवाहिनी ॥ २९ ॥

मूलम्

ज्वालाहुताशनी स्वाहा काला चैव कपिञ्जला
स्वधा च सुकला लिङ्गा गम्भीरा भीमवाहिनी ॥ २९ ॥

विश्वास-प्रस्तुतिः

देवद्रीची वीरवाहा लक्षहोमा अघापहा
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ॥ ३० ॥

मूलम्

देवद्रीची वीरवाहा लक्षहोमा अघापहा
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ॥ ३० ॥

विश्वास-प्रस्तुतिः

एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर
सर्वाभरणशोभाढ्याः कुम्भहस्ताः सुपूजिताः ॥ ३१ ॥

मूलम्

एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर
सर्वाभरणशोभाढ्याः कुम्भहस्ताः सुपूजिताः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ॥ ३२ ॥

मूलम्

प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ॥ ३२ ॥

विश्वास-प्रस्तुतिः

द्वारावती प्रभासश्च अवन्ती नैमिषस्तथा
चण्डकश्च महारत्नो महेश्वरकलेश्वरौ ॥ ३३ ॥

मूलम्

द्वारावती प्रभासश्च अवन्ती नैमिषस्तथा
चण्डकश्च महारत्नो महेश्वरकलेश्वरौ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

कलिञ्जरो ब्रह्मक्षेत्रं माथुरो मानवाहकः
मायाकान्ती तथान्यानि दिव्यानि विविधानि च ॥ ३४ ॥

मूलम्

कलिञ्जरो ब्रह्मक्षेत्रं माथुरो मानवाहकः
मायाकान्ती तथान्यानि दिव्यानि विविधानि च ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ॥ ३५ ॥

मूलम्

अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ॥ ३५ ॥

विश्वास-प्रस्तुतिः

द्वीपानां तु समस्तानि सुतीर्थानि महान्ति च
मूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम् ॥ ३६ ॥

मूलम्

द्वीपानां तु समस्तानि सुतीर्थानि महान्ति च
मूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

समाजग्मुः समस्तानि तदादेशकराणि च
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ॥ ३७ ॥

मूलम्

समाजग्मुः समस्तानि तदादेशकराणि च
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम्
कस्मात्त्वया समाहूता देवदेव वदस्व नः ॥ ३८ ॥

मूलम्

सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम्
कस्मात्त्वया समाहूता देवदेव वदस्व नः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ॥ ३९ ॥

मूलम्

ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ॥ ३९ ॥

विश्वास-प्रस्तुतिः

कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम्
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ॥ ४० ॥

मूलम्

कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम्
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

स्वामिद्रोहाच्च सम्भूतं सुरापानाच्च दारुणम्
हेमस्तेयात्तथा जातं गुरुनिन्दा समुद्भवम् ॥ ४१ ॥

मूलम्

स्वामिद्रोहाच्च सम्भूतं सुरापानाच्च दारुणम्
हेमस्तेयात्तथा जातं गुरुनिन्दा समुद्भवम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान्
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ॥ ४२ ॥

मूलम्

भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान्
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम्
देवभेदं तथा चान्यं लिङ्गभेदमतः परम् ॥ ४३ ॥

मूलम्

मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम्
देवभेदं तथा चान्यं लिङ्गभेदमतः परम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम्
आगारदहनं चान्यद्गृहदीपनकं तथा ॥ ४४ ॥

मूलम्

वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम्
आगारदहनं चान्यद्गृहदीपनकं तथा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

षोडशैते महापापा अगम्यागमनं तथा
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ॥ ४५ ॥

मूलम्

षोडशैते महापापा अगम्यागमनं तथा
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ॥ ४६ ॥

मूलम्

एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

पश्यतां देवतानां च नारदस्य च पश्यतः
ब्रुवन्तु सर्वे सञ्चिन्त्य विचार्यैवं सुनिश्चितम् ॥ ४७ ॥

मूलम्

पश्यतां देवतानां च नारदस्य च पश्यतः
ब्रुवन्तु सर्वे सञ्चिन्त्य विचार्यैवं सुनिश्चितम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना
सम्मन्त्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ॥ ४८ ॥

मूलम्

एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना
सम्मन्त्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते
सन्ति वै सर्वतीर्थानि सर्वपापहराणि च ॥ ४९ ॥

मूलम्

तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते
सन्ति वै सर्वतीर्थानि सर्वपापहराणि च ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ॥ ५० ॥

मूलम्

ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ॥ ५० ॥

विश्वास-प्रस्तुतिः

प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी महाभाग समर्था पापनाशिनी ॥ ५१ ॥

मूलम्

प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी महाभाग समर्था पापनाशिनी ॥ ५१ ॥

विश्वास-प्रस्तुतिः

महापातकनाशार्थे चत्वारोमितविक्रमाः
उपपातकनाशार्थं चत्वारोमितविक्रमाः ॥ ५२ ॥

मूलम्

महापातकनाशार्थे चत्वारोमितविक्रमाः
उपपातकनाशार्थं चत्वारोमितविक्रमाः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

सृष्टा धात्रा च देवेन्द्र पुष्कराद्या महाबलाः
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ॥ ५३ ॥

मूलम्

सृष्टा धात्रा च देवेन्द्र पुष्कराद्या महाबलाः
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ॥ ५४ ॥

मूलम्

हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ॥ ५४ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये
च्यवनचरित्रे नवतितमोऽध्यायः ९०