०८९

विष्णुरुवाच-

विश्वास-प्रस्तुतिः

कुञ्जलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत्
भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान् ॥ १ ॥

मूलम्

तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि साम्प्रतम्
एवमादिश्य तं पुत्रं विरराम स कुञ्जलः ॥ २ ॥

पितरं प्रत्युवाचाथ विनयावनतस्सुतः
समुज्ज्वल उवाच-
हिमवन्तं नगश्रेष्ठं देववृन्दसमन्वितम् ॥ ३ ॥

आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः
पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा ॥ ४ ॥

प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम्
बहुकौतुकशोभाढ्यं मङ्गल्यं मङ्गलैर्युतम् ॥ ५ ॥

बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः
अनेककौतुकभरैर्मनसः परिमोहनम् ॥ ६ ॥

मूलम्

बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः
अनेककौतुकभरैर्मनसः परिमोहनम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

तत्र दृष्टं मया तात अपूर्वं मानसान्तिके
बहुहंसैः समाकीर्णो हंस एकः समागतः ॥ ७ ॥

मूलम्

तत्र दृष्टं मया तात अपूर्वं मानसान्तिके
बहुहंसैः समाकीर्णो हंस एकः समागतः ॥ ७ ॥

विश्वास-प्रस्तुतिः

एवं कृष्णा महाभाग अन्ये तत्र समागताः
सितेतरैश्चञ्चुपादैरन्यतः शुक्लविग्रहाः ॥ ८ ॥

तादृशास्ते च नीला वै अन्ये शुभ्रा महामते
चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः ॥ ९ ॥

दंष्ट्राकरालसङ्क्रूरा ऊर्ध्वकेश्यो भयानकाः
पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे ॥ १० ॥

कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः
विभ्रान्ताः परितश्चान्ये न स्नातास्तत्र मानसे ॥ ११ ॥

जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः
तस्मात्सराद्विनिष्क्रान्तो हंस एको महातनुः ॥ १२ ॥

पश्चात्त्रयो विनिष्क्रान्तास्तैश्चाहं समुपेक्षितः
याता आकाशमार्गेण विवदन्तः परस्परम् ॥ १३ ॥

तास्तु स्त्रियो महाभीमाः समन्तात्परिबभ्रमुः
विन्ध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः ॥ १४ ॥

निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः
तेषां सुवीक्षमाणानां भिल्ल एकः समागतः ॥ १५ ॥

मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः
शिलातलं समाश्रित्य निषसाद सुखेन वै ॥ १६ ॥

पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम्
स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम् ॥ १७ ॥

अन्यादृशं समावीक्ष्य स्वकान्तं तेजसावृतम्
दिव्यतेजः समाक्रान्तं यथा सूर्यं दिविस्थितम् ॥ १८ ॥

नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ
व्याध उवाच-
एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि ॥ १९ ॥

क्षुधया पीड्यमानोहं त्वामहं चावलोकये
तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता ॥ २० ॥

भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा
कोयं तेजः समाचारो देवोयं मां समाह्वयेत् ॥ २१ ॥

तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम्
अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः ॥ २२ ॥

सूत उवाच-
एवमाभाषितो व्याध्या व्याधः प्रियामभाषत
अहं ते वल्लभः कान्ते भवती च मम प्रिया ॥ २३ ॥

कस्मात्त्वं मां न जानासि कथं शङ्का प्रवर्तते
क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते ॥ २४ ॥

व्याध्युवाच-
बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकञ्चुकः
ईदृशश्चास्ति मे भर्ता सर्वसत्वभयङ्करः ॥ २५ ॥

भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत्
एष मे संशयो जातो वद सत्यं ममाग्रतः ॥ २६ ॥

कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम्
समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे ॥ २७ ॥

प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा
कस्मात्ते ईदृशः कायः श्वेतकञ्चुकधारकः ॥ २८ ॥

कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते
एवं सम्पृच्छमानस्तु भार्यया मृगघातकः ॥ २९ ॥

प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम्
नर्मदा उत्तरे कूले सङ्गमश्चास्ति सुव्रते ॥ ३० ॥

आतपेनाकुलो जीवो मम जातोति सुप्रिये
अस्मिन्वै सङ्गमे कान्ते श्रमश्रान्तो हि सत्वरः ॥ ३१ ॥

गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः
तदाप्रभृति मे काय ईदृशस्तेजसावृतः ॥ ३२ ॥

सञ्जातो वस्त्रसंयुक्तः कञ्चुकः शुभ्रतां गतः
पूर्वोक्तलिङ्गसंस्थानैः कुलैः स्थानेन वै तथा ॥ ३३ ॥

स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य सम्भवम्
प्रत्युवाचाथ भर्तारं सङ्गमं मम दर्शय ॥ ३४ ॥

तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम्
इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह ॥ ३५ ॥

सङ्गमो दर्शितस्तेन ततोग्रे पापनाशनः
समुड्डीना महाभाग पक्षिणो लघुविक्रमाः ॥ ३६ ॥

तया सार्द्धं ययुः सर्वे रेवासङ्गममुत्तमम्
तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः ॥ ३७ ॥

तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम्
दिव्यदेहधरौ चोभौ दिव्यकान्तिसमन्वितौ ॥ ३८ ॥

सञ्जातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ
दिव्यमालाम्बरधरौ दिव्यगन्धानुलेपनौ ॥ ३९ ॥

वैष्णवं यानमासाद्य मुनिगन्धर्वपूजितौ
गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ ॥ ४० ॥

स्तूयमानौ महात्मानौ दम्पती दृष्टवानहम्
व्रजन्तौ स्वर्गमार्गेण कूजन्ते पक्षिणस्तथा ॥ ४१ ॥

तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा
चत्वारः कृष्णहंसास्ते सङ्गमे पापनाशने ॥ ४२ ॥

स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः
स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः ॥ ४३ ॥

तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः
क्रन्दमाना विचेष्टन्त्यो हाहाकार विकम्पिताः ॥ ४४ ॥

यमलोकं गतास्तास्तु तात दृष्टा मया तदा
उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे ॥ ४५ ॥

एवं तात मया दृष्टं प्रत्यक्षं कथितं तव
कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः ॥ ४६ ॥

कथयस्व प्रसादेन के भविष्यन्ति वै पितः
निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे ॥ ४७ ॥

के भविष्यन्ति ते तात कथय त्वं तु साम्प्रतम्
कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः ॥ ४८ ॥

सञ्जातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः
एवं मे संशयस्तात सञ्जातो दारुणो हृदि ॥ ४९ ॥

छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः
प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे ॥ ५० ॥

एवं सम्भाष्य पितरं विरराम समुज्ज्वलः
ततः प्रवक्तुमारेभे स शुकः कुञ्जलाभिधः ॥ ५१ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः ८९