कुञ्जल उवाच-
विश्वास-प्रस्तुतिः
व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक
मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् ॥ १ ॥
मूलम्
व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक
मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् ॥ १ ॥
विश्वास-प्रस्तुतिः
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत्
प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् ॥ २ ॥
मूलम्
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत्
प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् ॥ २ ॥
विश्वास-प्रस्तुतिः
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय
अशून्यशयनं नाम व्रतराजं वदस्व ताम् ॥ ३ ॥
मूलम्
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय
अशून्यशयनं नाम व्रतराजं वदस्व ताम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
समुद्धर महापापाद्राजकन्यां यशस्विनीम्
त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ॥ ४ ॥
मूलम्
समुद्धर महापापाद्राजकन्यां यशस्विनीम्
त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः
श्रीविष्णुरुवाच-
उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुञ्जलेन हि ॥ ५ ॥
मूलम्
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः
श्रीविष्णुरुवाच-
उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुञ्जलेन हि ॥ ५ ॥
विश्वास-प्रस्तुतिः
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः
जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ॥ ६ ॥
मूलम्
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः
जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम्
नानारत्नमयैस्तुङ्गैः शिखरैरुपशोभितम् ॥ ७ ॥
मूलम्
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम्
नानारत्नमयैस्तुङ्गैः शिखरैरुपशोभितम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
नानाप्रवाहसम्पूर्णैरुदकैरुज्ज्वलैर्नृप
नद्यः सन्ति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ॥ ८ ॥
मूलम्
नानाप्रवाहसम्पूर्णैरुदकैरुज्ज्वलैर्नृप
नद्यः सन्ति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ॥ ८ ॥
विश्वास-प्रस्तुतिः
किन्नरास्तत्र गायन्ति गन्धर्वाः सुस्वरैर्नृप
अप्सरोभिः समाकीर्णं देववृन्दैरुपावृतम् ॥ ९ ॥
मूलम्
किन्नरास्तत्र गायन्ति गन्धर्वाः सुस्वरैर्नृप
अप्सरोभिः समाकीर्णं देववृन्दैरुपावृतम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
सिद्धचारणसङ्घुष्टं मुनिवृन्दैरलङ्कृतम्
नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ॥ १० ॥
मूलम्
सिद्धचारणसङ्घुष्टं मुनिवृन्दैरलङ्कृतम्
नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः
सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ॥ ११ ॥
मूलम्
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः
सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ॥ ११ ॥
विश्वास-प्रस्तुतिः
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत्
का त्वं भवसि कल्याणि कस्माद्रोदिषि साम्प्रतम् ॥ १२ ॥
मूलम्
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत्
का त्वं भवसि कल्याणि कस्माद्रोदिषि साम्प्रतम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कमाश्रिता महाभागे केन ते विप्रियं कृतम्
समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् ॥ १३ ॥
मूलम्
कमाश्रिता महाभागे केन ते विप्रियं कृतम्
समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
दिव्यादेव्युवाच-
विपाको हि महाभाग कर्मणां मम साम्प्रतम्
इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥ १४ ॥
मूलम्
दिव्यादेव्युवाच-
विपाको हि महाभाग कर्मणां मम साम्प्रतम्
इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥ १४ ॥
विश्वास-प्रस्तुतिः
भवान्को हि महाभाग कृपया मम पीडितः
पक्षिरूपधरो वत्स सोत्सवं परिभाषते ॥ १५ ॥
मूलम्
भवान्को हि महाभाग कृपया मम पीडितः
पक्षिरूपधरो वत्स सोत्सवं परिभाषते ॥ १५ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया
अहं पक्षी महाभागे कृपया तव पीडितः ॥ १६ ॥
मूलम्
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया
अहं पक्षी महाभागे कृपया तव पीडितः ॥ १६ ॥
विश्वास-प्रस्तुतिः
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान्
रुदमानां महालापैर्भवतीं दृष्टवानिह ॥ १७ ॥
मूलम्
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान्
रुदमानां महालापैर्भवतीं दृष्टवानिह ॥ १७ ॥
विश्वास-प्रस्तुतिः
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह
पितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि ॥ १८ ॥
मूलम्
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह
पितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि ॥ १८ ॥
विश्वास-प्रस्तुतिः
तया निवेदितं सर्वं यथासङ्ख्येन दुःखदम्
समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः ॥ १९ ॥
मूलम्
तया निवेदितं सर्वं यथासङ्ख्येन दुःखदम्
समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः ॥ १९ ॥
विश्वास-प्रस्तुतिः
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम्
यथा विवाहकाले ते भर्तारो मरणं गताः ॥ २० ॥
मूलम्
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम्
यथा विवाहकाले ते भर्तारो मरणं गताः ॥ २० ॥
विश्वास-प्रस्तुतिः
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः
एतत्ते चेष्टितं सर्वं मया पितरि भाषितम् ॥ २१ ॥
मूलम्
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः
एतत्ते चेष्टितं सर्वं मया पितरि भाषितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
अन्यजन्मकृतङ्कर्मतव पापं सुलोचने
मम पित्रा ममाग्रे तु कृपया परिभाषितम् ॥ २२ ॥
मूलम्
अन्यजन्मकृतङ्कर्मतव पापं सुलोचने
मम पित्रा ममाग्रे तु कृपया परिभाषितम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तेन दोषेण सम्पुष्टा लिप्ता जाता वरानने
एतावत्कारणं सर्वं तातेन परिभाषितम् ॥ २३ ॥
मूलम्
तेन दोषेण सम्पुष्टा लिप्ता जाता वरानने
एतावत्कारणं सर्वं तातेन परिभाषितम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
पूर्वकर्मविपाकं तु भुङ्क्ष्व त्वं च समाश्वस
एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् ॥ २४ ॥
मूलम्
पूर्वकर्मविपाकं तु भुङ्क्ष्व त्वं च समाश्वस
एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं पुनः
प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम ॥ २५ ॥
मूलम्
प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं पुनः
प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम ॥ २५ ॥
विश्वास-प्रस्तुतिः
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम्
प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् ॥ २६ ॥
मूलम्
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम्
प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा
प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः ॥ २७ ॥
मूलम्
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा
प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः ॥ २७ ॥
विश्वास-प्रस्तुतिः
उज्ज्वल उवाच-
तवार्थं तु महाभागे पितरं पृष्टवानहम्
समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् ॥ २८ ॥
मूलम्
उज्ज्वल उवाच-
तवार्थं तु महाभागे पितरं पृष्टवानहम्
समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
तत्त्वं कुरु महाभागे सर्वपातकशोधनम्
ध्यायस्व हि हृषीकेशं शतनामजपस्व च ॥ २९ ॥
मूलम्
तत्त्वं कुरु महाभागे सर्वपातकशोधनम्
ध्यायस्व हि हृषीकेशं शतनामजपस्व च ॥ २९ ॥
विश्वास-प्रस्तुतिः
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम्
अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ॥ ३० ॥
मूलम्
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम्
अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम्
ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ॥ ३१ ॥
मूलम्
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम्
ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच-
तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने
सर्वद्वन्द्वविनिर्मुक्ता सञ्जाता तपसि स्थिता ॥ ३२ ॥
मूलम्
विष्णुरुवाच-
तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने
सर्वद्वन्द्वविनिर्मुक्ता सञ्जाता तपसि स्थिता ॥ ३२ ॥
विश्वास-प्रस्तुतिः
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता
कामक्रोधविहीना सा वर्गं संयम्य नित्यशः ॥ ३३ ॥
मूलम्
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता
कामक्रोधविहीना सा वर्गं संयम्य नित्यशः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
इन्द्रियाणां महाराज महामोहं निरस्य सा
अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ॥ ३४ ॥
मूलम्
इन्द्रियाणां महाराज महामोहं निरस्य सा
अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तस्यै वरं दातुकामश्चायातो वरनायकः
तस्यै सन्दर्शयामास स्वरूपं वरदः प्रभुः ॥ ३५ ॥
मूलम्
तस्यै वरं दातुकामश्चायातो वरनायकः
तस्यै सन्दर्शयामास स्वरूपं वरदः प्रभुः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच-
इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरम्
सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥ ३६ ॥
मूलम्
सूत उवाच-
इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरम्
सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
बद्धाञ्जलिपुटा भूत्वा वेपमाना निराश्रया
उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ॥ ३७ ॥
मूलम्
बद्धाञ्जलिपुटा भूत्वा वेपमाना निराश्रया
उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि
दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ॥ ३८ ॥
मूलम्
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि
दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
कथयस्व प्रसादेन किमत्र तव कारणम्
सर्वमेव प्रसादेन प्रब्रवीहि महामते ॥ ३९ ॥
मूलम्
कथयस्व प्रसादेन किमत्र तव कारणम्
सर्वमेव प्रसादेन प्रब्रवीहि महामते ॥ ३९ ॥
विश्वास-प्रस्तुतिः
देवमेवं विजानामि तेजसा इङ्गितैस्तव
ज्ञानहीना जगन्नाथ न जाने रूपनामनी ॥ ४० ॥
मूलम्
देवमेवं विजानामि तेजसा इङ्गितैस्तव
ज्ञानहीना जगन्नाथ न जाने रूपनामनी ॥ ४० ॥
विश्वास-प्रस्तुतिः
किं ब्रह्मा वा भवान्विष्णुः किं वा शङ्कर एव हि
एवमुक्त्वा प्रणम्यैवं दण्डवद्धरणीं गता ॥ ४१ ॥
मूलम्
किं ब्रह्मा वा भवान्विष्णुः किं वा शङ्कर एव हि
एवमुक्त्वा प्रणम्यैवं दण्डवद्धरणीं गता ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम्
श्रीभगवानुवाच-
त्रयाणामपि देवानामन्तरं नास्ति शोभने ॥ ४२ ॥
मूलम्
तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम्
श्रीभगवानुवाच-
त्रयाणामपि देवानामन्तरं नास्ति शोभने ॥ ४२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा समर्चितो येन शङ्करो वा वरानने
तेनाहमर्चितो नित्यं नात्र कार्या विचारणा ॥ ४३ ॥
मूलम्
ब्रह्मा समर्चितो येन शङ्करो वा वरानने
तेनाहमर्चितो नित्यं नात्र कार्या विचारणा ॥ ४३ ॥
विश्वास-प्रस्तुतिः
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान्
अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ॥ ४४ ॥
मूलम्
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान्
अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ॥ ४४ ॥
विश्वास-प्रस्तुतिः
अहं देवो हृषीकेशः कृपया तव चागतः
स्तवेनानेन पुण्येन व्रतेन नियमेन च ॥ ४५ ॥
मूलम्
अहं देवो हृषीकेशः कृपया तव चागतः
स्तवेनानेन पुण्येन व्रतेन नियमेन च ॥ ४५ ॥
विश्वास-प्रस्तुतिः
सञ्जाता कल्मषैर्हीना वरं वरय शोभने
दिव्यादेव्युवाच-
विजयस्व हृषीकेश कृष्णक्लेशापहारक ॥ ४६ ॥
मूलम्
सञ्जाता कल्मषैर्हीना वरं वरय शोभने
दिव्यादेव्युवाच-
विजयस्व हृषीकेश कृष्णक्लेशापहारक ॥ ४६ ॥
विश्वास-प्रस्तुतिः
नमामि चरणद्वन्द्वं मामुद्धर सुरेश्वर
वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ॥ ४७ ॥
मूलम्
नमामि चरणद्वन्द्वं मामुद्धर सुरेश्वर
वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ॥ ४७ ॥
विश्वास-प्रस्तुतिः
आत्मपादयुगस्यापि भक्तिं देहि ममानघ
दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ॥ ४८ ॥
मूलम्
आत्मपादयुगस्यापि भक्तिं देहि ममानघ
दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
दासत्वं देहि वैकुण्ठ यदि तुष्टो जनार्दन
श्रीभगवानुवाच-
एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ॥ ४९ ॥
मूलम्
दासत्वं देहि वैकुण्ठ यदि तुष्टो जनार्दन
श्रीभगवानुवाच-
एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ॥ ४९ ॥
विश्वास-प्रस्तुतिः
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा
गच्छ गच्छ परं लोकं प्रसादान्मम साम्प्रतम् ॥ ५० ॥
मूलम्
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा
गच्छ गच्छ परं लोकं प्रसादान्मम साम्प्रतम् ॥ ५० ॥
विश्वास-प्रस्तुतिः
एवमुक्ते ततो वाक्ये माधवेन महात्मना
दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ॥ ५१ ॥
मूलम्
एवमुक्ते ततो वाक्ये माधवेन महात्मना
दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ॥ ५१ ॥
विश्वास-प्रस्तुतिः
पश्यतां सर्वलोकानां दिव्याभरणभूषिता
दिव्यमालान्विता सा च दिव्यहारविलम्बिनी ॥ ५२ ॥
मूलम्
पश्यतां सर्वलोकानां दिव्याभरणभूषिता
दिव्यमालान्विता सा च दिव्यहारविलम्बिनी ॥ ५२ ॥
विश्वास-प्रस्तुतिः
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम्
पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ॥ ५३ ॥
मूलम्
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम्
पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं कथयामास पितरं प्रति सत्तमः ॥ ५४ ॥
मूलम्
तत्सर्वं कथयामास पितरं प्रति सत्तमः ॥ ५४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः ८८