०८७

कुञ्जल उवाच-

विश्वास-प्रस्तुतिः

व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः
जया च विजया चैव जयन्ती पापनाशिनी ॥ १ ॥

मूलम्

त्रिस्पृशा वञ्जुली चान्या तिलदग्धा तथापरा
अखण्डाचारकन्या च मनोरथा सुपुत्रक ॥ २ ॥

एकादश्यास्तु भेदाश्च सन्ति पुत्र अनेकधा
अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ॥ ३ ॥

एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च
प्राणिनां नात्र सन्देहः सत्यं सत्यं वदाम्यहम् ॥ ४ ॥

स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम्
सुपुत्रशतनामाख्यं नराणां गतिदायकम् ॥ ५ ॥

तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम्
सम्प्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ॥ ६ ॥

विष्णोर्नामशतस्यापि ऋषिं छन्दो वदाम्यहम्
देवं चैव महाभाग सर्वपापविशोधनम् ॥ ७ ॥

विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः
ॐकारो देवता प्रोक्तश्छन्दोनुष्टुप्तथैव च ॥ ८ ॥

सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः
अस्य विष्णोः शतनामस्तोत्रस्य
ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छन्दः
सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ॥ ९ ॥

नमाम्यहं हृषीकेशं केशवं मधुसूदनम्
सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १० ॥

जयन्तं विजयं कृष्णमनन्तं वामनं ततः
विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ॥ ११ ॥

अनघं त्वघहन्तारं नरसिंहं श्रियः प्रियम्
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ १२ ॥

श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम्
सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् ॥ १३ ॥

हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम्
आनन्दं ज्ञानसम्पन्नं ज्ञानदं ज्ञाननायकम् ॥ १४ ॥

अच्युतं सबलं चन्द्रं चक्रपाणिं परावरम्
युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ १५ ॥

मुकुन्दं तं सुवैकुण्ठमेकरूपं जगत्पतिम्
वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १६ ॥

गोप्रियं गोहितं यज्ञंयज्ञाङ्गं यज्ञवर्द्धनम्
यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगम् ॥ १७ ॥

वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम्
अव्यक्तं तं महाहंसं शङ्खपाणिं पुरातनम् ॥ १८ ॥

पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम्
प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् ॥ १९ ॥

सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम्
योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् ॥ २० ॥

मुरारिं लोकपालं तं पद्महस्तं गदाधरम्
गुहावासं सर्ववासं पुण्यवासं महाभुजम् ॥ २१ ॥

वृन्दानाथं बृहत्कायं पावनं पापनाशनम्
गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् ॥ २२ ॥

परात्मानं पराधीशं कपिलं कार्यमानुषम्
नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः ॥ २३ ॥

नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण
स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः ॥ २४ ॥

नाम्नां शतं महापुण्यं सर्वपातकशोधनम्
जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् ॥ २५ ॥

नित्यमेव नरः पुण्यैर्गङ्गास्नानफलं लभेत्
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ २६ ॥

त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः
अश्वमेधफलं तस्य जायते नात्र संशयः ॥ २७ ॥

एकादश्यामुपोष्यैव पुरतो माधवस्य यः
जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् ॥ २८ ॥

पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः
तुलसीसन्निधौ स्थित्वा मनसा यो जपेन्नरः ॥ २९ ॥

राजसूयफलं भुङ्क्ते वर्षेणापि च मानवः
शालग्रामशिला यत्र यत्र द्वारावती शिला ॥ ३० ॥

उभयोः सन्निधौ जाप्यं कर्तव्यं सुखमिच्छता
बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ॥ ३१ ॥

एकेन चाधिकं मर्त्य आत्मना सह तारयेत्
कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ॥ ३२ ॥

यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम्
माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ॥ ३३ ॥

ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा
सुरापानादिकं पापं विहाय परमं पदम् ॥ ३४ ॥

विना विघ्नं नरः पुत्र सम्प्रयाति जनार्दनम्
श्राद्धकाले हि यो मर्त्यो विप्राणां भुञ्जतां पुरः ॥ ३५ ॥

यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम्
पितरस्तुष्टिमायान्ति तृप्ता यान्ति परां गतिं ॥ ३६ ॥

ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विन्दते महीम्
धनऋद्धिं प्रभुञ्जीत वैश्यो जपति यः सदा ॥ ३७ ॥

शूद्रः सुःखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति
प्राप्य जन्मान्तरं वत्स वेदविद्यां प्रविन्दति ॥ ३८ ॥

सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः
केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥ ३९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः ८७