वेन उवाच-
विश्वास-प्रस्तुतिः
भगवन्देवदेवेश प्रसादाच्च मम त्वया
भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम् ॥ १ ॥
मूलम्

मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम्
प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे ॥ २ ॥

श्रीभगवानुवाच-
कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम्
सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ॥ ३ ॥

शिष्याणां परमं पुण्यं धर्मरूपं सनातनम्
परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् ॥ ४ ॥

यस्यप्रसादाद्राजेन्द्र इहैव फलमश्नुते
परलोके सुखं भुङ्क्ते यशः कीर्तिमवाप्नुयात् ॥ ५ ॥

प्रसादाद्यस्य राजेन्द्र गुरोश्चैव महात्मनः
प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् ॥ ६ ॥

व्यवहारं च लोकानामाचारं नृपनन्दन
विज्ञानं विन्दते शिष्यो मोक्षं चैव प्रयाति च ॥ ७ ॥

सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः
गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा ॥ ८ ॥

रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम
तेजसा साधयेत्सर्वमधिकारं चराचरम् ॥ ९ ॥
मूलम्
रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम
तेजसा साधयेत्सर्वमधिकारं चराचरम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम
तेजसा नाशयेत्सर्वमन्धकारघनाविलम् ॥ १० ॥
मूलम्
गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम
तेजसा नाशयेत्सर्वमन्धकारघनाविलम् ॥ १० ॥
विश्वास-प्रस्तुतिः
अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः
शिष्यप्रकाशउद्द्योतैरुपदेशैर्महामते ॥ ११ ॥

दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः
गृहप्रकाशको दीपस्तमोनाशकरः सदा ॥ १२ ॥
मूलम्
दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः
गृहप्रकाशको दीपस्तमोनाशकरः सदा ॥ १२ ॥
विश्वास-प्रस्तुतिः
रात्रौ दिवा गृहस्यान्ते गुरुः शिष्यं सदैव हि
अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत् ॥ १३ ॥

तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते
एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत् ॥ १४ ॥

गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा
इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः ॥ १५ ॥

सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः
भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः ॥ १६ ॥

तस्य चिन्ता समुत्पन्ना एकदा तु नृपोत्तम
कदाहं ज्ञानसम्पन्नो भविष्यामि महीतले ॥ १७ ॥

दिवारात्रौप्रचिन्तेत्स ज्ञानार्थी मुनिसत्तमः
एवं तु चिन्तमानस्य मतिरासीन्महात्मनः ॥ १८ ॥

तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम्
गृहक्षेत्रादिसन्त्यज्य भार्यां पुत्रं धनं ततः ॥ १९ ॥

तीर्थयात्राप्रसङ्गेन अटते मेदिनीं तदा
लोमानुलोमयात्रां स गङ्गायाः कृतवान्नृप ॥ २० ॥

स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः
गोदावर्यादिसर्वासां नदीनां सागरस्य च ॥ २१ ॥

अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम
देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत् ॥ २२ ॥

भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च
भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा
कायश्च निर्मलो जातः सूर्यतेजः समप्रभः ॥ २३ ॥

च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा ॥ २४ ॥

नर्मदा दक्षिणे कूले नाम्ना अमरकण्टकम्
ददर्श सुमहालिगं सर्वेषां गतिदायकम् ॥ २५ ॥

नत्वा स्तुत्वा तु सम्पूज्य सिद्धनाथं महेश्वरम्
ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् ॥ २६ ॥

ब्रह्मेशं कपिलेशं च मार्कण्डेश्वरमुत्तमम्
एवं यात्रां ततः कृत्वा ॐकारं समुपागतः २७ **
वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम्
सुखेन संस्थितो विप्रश्च्यवनो भृगुनन्दनः ॥ २८ ॥

तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा
दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम् ॥ २९ ॥

शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः
कुञ्जलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः ॥ ३० ॥

आसंस्तस्य हि पुत्राश्च चत्वारः पितृनन्दनाः
तेषां नामानि राजेन्द्र कथयिष्ये तवाग्रतः ॥ ३१ ॥

ज्येष्ठस्तु उज्ज्वलो नाम द्वितीयस्तु समुज्ज्वलः
तृतीयो विज्वलोनाम चतुर्थश्च कपिञ्जलः ॥ ३२ ॥

एवं पुत्रास्तु चत्वारः कुञ्जलस्य महामते
शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ॥ ३३ ॥

भ्रमन्ति गिरिकुञ्जेषु द्वीपेषु च समाहिताः
भोजनार्थं तु सङ्क्षुब्धाः क्षुधया परिपीडिताः ॥ ३४ ॥

स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः
अमृतस्वादुतोयेन शमयन्ति नृपोत्तम ॥ ३५ ॥

फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः
दत्वा फलानि दम्पत्योर्निक्षिपन्ति प्रयत्नतः ॥ ३६ ॥

मातुरर्थे महाभागा भक्तिभावसमन्विताः
तुष्टा आहारमुत्पाद्य भक्षयन्ति पठन्ति च ॥ ३७ ॥

तत्र क्रीडारताः सर्वे विलसन्ति रमन्ति च
सन्ध्याकालं समाज्ञाय पितुरन्तिकमुत्तमम् ॥ ३८ ॥

आयान्ति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः
पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः ॥ ३९ ॥

आगतास्त्वण्डजाः सर्वे पितुर्नीडं सुशोभनम्
पितरं मातरं चोभौ प्रणेमुस्ते महामते ॥ ४० ॥

ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः
सर्वे सम्भाषिताः पित्रा मानितास्ते सुतोत्तमाः ॥ ४१ ॥

मात्रा च कृपया राजन्वचनैः प्रीतिसम्मितैः
पक्षवातेन शीतेन मातापित्रोश्च ते तदा ॥ ४२ ॥

तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप
आशीर्भिरभिनन्द्यैव द्वाभ्यामपि सुपुत्रकान् ॥ ४३ ॥

तैश्च दत्तं सुसम्पुष्टमाहारममृतोपमम्
तावेव हि सुसम्प्रीतिं चक्राते द्विजसत्तम ॥ ४४ ॥

पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम्
स्वस्थानं तु समाश्रित्य सुखसन्तुष्टमानसौ ॥ ४५ ॥

चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम्
विष्णुरुवाच-
पित्रा तु कुञ्जलेनापि पृष्ट उज्ज्वल आत्मजः ॥ ४६ ॥

क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः
तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नन्दन ॥ ४७ ॥

कुञ्जलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः
पितरं प्रत्युवाचाथ भक्त्या नमितकन्धरः ॥ ४८ ॥

प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम्
उज्ज्वल उवाच-
प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम् ॥ ४९ ॥

महता उद्यमेनापि आहारार्थं महामते
प्लक्षेद्वीपे महाराज सन्ति देशा अनेकशः ॥ ५० ॥

पर्वताः सरिदुद्यान वनानि च सरांसि च
ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः ॥ ५१ ॥

सदा सुखेन सन्तुष्टा लोका हृष्टा वसन्ति ते
दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः ॥ ५२ ॥

प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा
दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा ॥ ५३ ॥

गुणरूपसमायुक्ता सुशीला चारुमङ्गला
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ॥ ५४ ॥

पित्रा विलोकिता सा तु रूपतारुण्यमङ्गला
प्रथमे वयसि सा च वर्त्तते चारुमङ्गला ॥ ५५ ॥

स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा
कस्मै प्रदीयते कन्या सुवराय महात्मने ॥ ५६ ॥

इति चिन्तापरो भूत्वा समालोक्य नरोत्तमः
रूपदेशस्य राजानं समालोक्य महीपतिः ॥ ५७ ॥

चित्रसेनं महात्मानं समाहूय नरोत्तमः
कन्यां ददौ महात्मासौ चित्रसेनाय धीमते ॥ ५८ ॥

तस्या विवाहकाले तु सम्प्राप्ते समये नृप
मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल ॥ ५९ ॥

दिवोदासस्तु धर्मात्मा चिन्तयामास भूपतिः
सुब्राह्मणान्समाहूय पप्रच्छ नृपनन्दनः ॥ ६० ॥

अस्या विवाहकाले तु चित्रसेनो दिवं गतः
अस्यास्तु कीदृशं कर्म भविष्यति वदन्तु मे ॥ ६१ ॥

ब्राह्मणा ऊचुः-
विवाहो दृश्यते राजन्कन्यायास्तु विधानतः
पतिर्मृत्युं प्रयात्यस्या नोचेत्सङ्गं करोति च ॥ ६२ ॥

महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ॥ ६३ ॥

अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः
न स्याद्रजस्वला यावदन्यः पतिर्विधीयते ॥ ६४ ॥

विवाहं तु विधानेन पिता कुर्यान्न संशयः
एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः ॥ ६५ ॥

विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः
दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः ॥ ६६ ॥

विवाहार्थं महाराज उद्यमं कृतवान्नृप
पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम ॥ ६७ ॥

रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने
मृत्युधर्मं गतो राजा विवाहे तु महीपतिः ॥ ६८ ॥

यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः
भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा ॥ ६९ ॥

एकविंशतिभर्तारः काले काले मृताः पितः
ततो राजा महादुःखी सञ्जातः ख्यातविक्रमः ॥ ७० ॥

समालोच्य समाहूय समामन्त्र्य स मन्त्रिभिः
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ॥ ७१ ॥

प्लक्षद्वीपस्य राजानः समाहूता महात्मना
स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः ॥ ७२ ॥

तस्यास्तु रूपसम्मुग्धा राजानो मृत्युनोदिताः
सङ्ग्रामं चक्रिरे मूढास्ते मृताः समराङ्गणे ॥ ७३ ॥

एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम्
दिव्यादेवी सुदुःखार्ता गता सा वनकन्दरम् ॥ ७४ ॥

रुरोद करुणं बाला दिव्यादेवी मनस्विनी
एवं तात मया दृष्टमपूर्वं तत्र वै तदा ॥ ७५ ॥

तन्मे सुविस्तरं तात तस्याः कथय कारणम् ७६