सुकर्मोवाच-
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम्
पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम् ॥ १ ॥
मूलम्
एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम्
पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम् ॥ १ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम्
पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः ॥ २ ॥
मूलम्
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम्
पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः ॥ २ ॥
विश्वास-प्रस्तुतिः
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः
पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम् ॥ ३ ॥
मूलम्
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः
पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च
पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥ ४ ॥
मूलम्
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च
पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत्
माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु ॥ ५ ॥
मूलम्
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत्
माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु ॥ ५ ॥
विश्वास-प्रस्तुतिः
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति
यो याति हर्षसंयुक्तो गङ्गास्नानफलं लभेत् ॥ ६ ॥
मूलम्
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति
यो याति हर्षसंयुक्तो गङ्गास्नानफलं लभेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
पादप्रक्षालनं यस्तु कुरुते च महायशाः
सर्वतीर्थफलं भुङ्क्ते प्रसादात्तु तयोः सुतः ॥ ७ ॥
मूलम्
पादप्रक्षालनं यस्तु कुरुते च महायशाः
सर्वतीर्थफलं भुङ्क्ते प्रसादात्तु तयोः सुतः ॥ ७ ॥
विश्वास-प्रस्तुतिः
अङ्गसंवाहनाच्चान्यदश्वमेधफलं लभेत्
भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः ॥ ८ ॥
मूलम्
अङ्गसंवाहनाच्चान्यदश्वमेधफलं लभेत्
भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते
सर्वतीर्थमयी गङ्गा तथा माता न संशयः ॥ ९ ॥
मूलम्
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते
सर्वतीर्थमयी गङ्गा तथा माता न संशयः ॥ ९ ॥
विश्वास-प्रस्तुतिः
बहुपुण्यमयः सिन्धुर्यथा लोके प्रतिष्ठितः
अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः ॥ १० ॥
मूलम्
बहुपुण्यमयः सिन्धुर्यथा लोके प्रतिष्ठितः
अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः ॥ १० ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः
स पुत्रो नरकं याति रौरवाख्यं न संशयः ॥ ११ ॥
मूलम्
सुकर्मोवाच-
भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः
स पुत्रो नरकं याति रौरवाख्यं न संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत्
स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम् ॥ १२ ॥
मूलम्
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत्
स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः
निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा ॥ १३ ॥
मूलम्
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः
निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवञ्ज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने
मातरं पितरं नित्यं भक्त्या नमितकन्धरः ॥ १४ ॥
मूलम्
एवञ्ज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने
मातरं पितरं नित्यं भक्त्या नमितकन्धरः ॥ १४ ॥
विश्वास-प्रस्तुतिः
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम
तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल ॥ १५ ॥
मूलम्
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम
तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल ॥ १५ ॥
विश्वास-प्रस्तुतिः
तेन मे परमं ज्ञानं सञ्जातं गतिदायकम्
एतयोश्च प्रसादेन संसारे परिवर्तते ॥ १६ ॥
मूलम्
तेन मे परमं ज्ञानं सञ्जातं गतिदायकम्
एतयोश्च प्रसादेन संसारे परिवर्तते ॥ १६ ॥
विश्वास-प्रस्तुतिः
यच्चकिञ्चित्प्रकुर्वन्ति मानवा भुवि संस्थिताः
गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते ॥ १७ ॥
मूलम्
यच्चकिञ्चित्प्रकुर्वन्ति मानवा भुवि संस्थिताः
गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते ॥ १७ ॥
विश्वास-प्रस्तुतिः
नागानां च इहस्थोपि चारं जानामि पिप्पल
एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम् ॥ १८ ॥
मूलम्
नागानां च इहस्थोपि चारं जानामि पिप्पल
एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम्
विष्णुरुवाच-
एवं सञ्चोदितस्तेन पिप्पलो हि स्वकर्मणा ॥ १९ ॥
मूलम्
गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम्
विष्णुरुवाच-
एवं सञ्चोदितस्तेन पिप्पलो हि स्वकर्मणा ॥ १९ ॥
विश्वास-प्रस्तुतिः
आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ
सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप ॥ २० ॥
मूलम्
आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ
सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप ॥ २० ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया
अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते ॥ २१ ॥
मूलम्
एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया
अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते ॥ २१ ॥
इति श्रीपद्मपुराणे भूमिखण्डेवेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनन्नाम चतुरशीतितमोऽध्यायः ८४