०८३

सुकर्मोवाच-

विश्वास-प्रस्तुतिः

समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ १ ॥

मूलम्

समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ १ ॥

विश्वास-प्रस्तुतिः

इन्द्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम्
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् ॥ २ ॥

मूलम्

इन्द्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम्
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् ॥ २ ॥

विश्वास-प्रस्तुतिः

व्रजाम्यहं न सन्देहो ह्यनया सह सत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ॥ ३ ॥

मूलम्

व्रजाम्यहं न सन्देहो ह्यनया सह सत्तमाः
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ॥ ३ ॥

विश्वास-प्रस्तुतिः

सुखेनापि सकुटुम्बैः स्थातव्यं तु महीतले
पूरुरेष महाभागो भवतां पालकस्त्विह ॥ ४ ॥

मूलम्

सुखेनापि सकुटुम्बैः स्थातव्यं तु महीतले
पूरुरेष महाभागो भवतां पालकस्त्विह ॥ ४ ॥

विश्वास-प्रस्तुतिः

स्थापितोस्ति मया लोका राजा धीरः सदण्डकः
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ॥ ५ ॥

मूलम्

स्थापितोस्ति मया लोका राजा धीरः सदण्डकः
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ॥ ५ ॥

विश्वास-प्रस्तुतिः

श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ॥ ६ ॥

मूलम्

श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ॥ ६ ॥

विश्वास-प्रस्तुतिः

दृष्टोस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ॥ ७ ॥

मूलम्

दृष्टोस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ॥ ७ ॥

विश्वास-प्रस्तुतिः

हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः
ज्ञानविज्ञानसम्पन्नः पुण्यानां च महानिधिः ॥ ८ ॥

मूलम्

हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः
ज्ञानविज्ञानसम्पन्नः पुण्यानां च महानिधिः ॥ ८ ॥

विश्वास-प्रस्तुतिः

गुणानां हि महाराज आकरः सत्यपण्डितः
कुर्वन्ति च महाधर्मं सत्यवन्तो महौजसः ॥ ९ ॥

मूलम्

गुणानां हि महाराज आकरः सत्यपण्डितः
कुर्वन्ति च महाधर्मं सत्यवन्तो महौजसः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तं धर्मं दृष्टवन्तः स्म भवन्तं कामरूपिणम्
भवन्तं कामकर्तारमीदृशं सत्यवादिनम् ॥ १० ॥

मूलम्

तं धर्मं दृष्टवन्तः स्म भवन्तं कामरूपिणम्
भवन्तं कामकर्तारमीदृशं सत्यवादिनम् ॥ १० ॥

विश्वास-प्रस्तुतिः

कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ॥ ११ ॥

मूलम्

कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ॥ ११ ॥

विश्वास-प्रस्तुतिः

नरकेपि भवान्यत्र वयं तत्र न संशयः
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च ॥ १२ ॥

मूलम्

नरकेपि भवान्यत्र वयं तत्र न संशयः
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च ॥ १२ ॥

विश्वास-प्रस्तुतिः

त्वां विनासुमहाराज तेन नास्त्यत्र कारणम्
त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥ १३ ॥

मूलम्

त्वां विनासुमहाराज तेन नास्त्यत्र कारणम्
त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह ॥ १४ ॥

मूलम्

एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह ॥ १४ ॥

विश्वास-प्रस्तुतिः

आगच्छन्तु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः
नृपो रथं समारुह्य तया वै कामकन्यया ॥ १५ ॥

मूलम्

आगच्छन्तु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः
नृपो रथं समारुह्य तया वै कामकन्यया ॥ १५ ॥

विश्वास-प्रस्तुतिः

रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः ॥ १६ ॥

मूलम्

रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः ॥ १६ ॥

विश्वास-प्रस्तुतिः

केतुना तेन पुण्येन शुभ्रेणापि महीयसा
शोभमानो यथा देवो देवराजः पुरन्दरः ॥ १७ ॥

मूलम्

केतुना तेन पुण्येन शुभ्रेणापि महीयसा
शोभमानो यथा देवो देवराजः पुरन्दरः ॥ १७ ॥

विश्वास-प्रस्तुतिः

ऋषिभिः स्तूयमानस्तु बन्दिभिश्चारणैस्तथा
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः ॥ १८ ॥

मूलम्

ऋषिभिः स्तूयमानस्तु बन्दिभिश्चारणैस्तथा
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः ॥ १८ ॥

विश्वास-प्रस्तुतिः

प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम्
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति ॥ १९ ॥

मूलम्

प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम्
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति ॥ १९ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः ॥ २० ॥

मूलम्

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः ॥ २० ॥

विश्वास-प्रस्तुतिः

तेषां तु केतवः शुक्ला हेमदण्डैरलङ्कृताः
शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः ॥ २१ ॥

मूलम्

तेषां तु केतवः शुक्ला हेमदण्डैरलङ्कृताः
शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः ॥ २१ ॥

विश्वास-प्रस्तुतिः

प्रजावृन्देषु भासन्ते पताका मारुतेरिताः
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः ॥ २२ ॥

मूलम्

प्रजावृन्देषु भासन्ते पताका मारुतेरिताः
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः ॥ २२ ॥

विश्वास-प्रस्तुतिः

दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः ॥ २३ ॥

मूलम्

दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः ॥ २३ ॥

विश्वास-प्रस्तुतिः

सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे
प्रजाशतसहस्राणि लक्षकोटिशतानि च ॥ २४ ॥

मूलम्

सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे
प्रजाशतसहस्राणि लक्षकोटिशतानि च ॥ २४ ॥

विश्वास-प्रस्तुतिः

अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ २५ ॥

मूलम्

अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ २५ ॥

विश्वास-प्रस्तुतिः

विष्णुध्यानपराः सर्वे जपदानपरायणाः
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः ॥ २६ ॥

मूलम्

विष्णुध्यानपराः सर्वे जपदानपरायणाः
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः ॥ २६ ॥

विश्वास-प्रस्तुतिः

पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम्
ऐन्द्रं लोकं जगामाथ ययातिः पृथिवीपतिः ॥ २७ ॥

मूलम्

पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम्
ऐन्द्रं लोकं जगामाथ ययातिः पृथिवीपतिः ॥ २७ ॥

विश्वास-प्रस्तुतिः

तेजसा तस्य पुण्येन धर्मेण तपसा तदा
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ २८ ॥

मूलम्

तेजसा तस्य पुण्येन धर्मेण तपसा तदा
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

ततो देवाः सगन्धर्वाः किन्नराश्चारणास्तथा
सहिता देवराजेन आगताः सम्मुखं तदा ॥ २९ ॥

मूलम्

ततो देवाः सगन्धर्वाः किन्नराश्चारणास्तथा
सहिता देवराजेन आगताः सम्मुखं तदा ॥ २९ ॥

विश्वास-प्रस्तुतिः

तस्यैवापि नृपेन्द्रस्य पूजयन्तो नृपोत्तम
इन्द्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ॥ ३० ॥

मूलम्

तस्यैवापि नृपेन्द्रस्य पूजयन्तो नृपोत्तम
इन्द्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ॥ ३० ॥

विश्वास-प्रस्तुतिः

अत्र भोगान्प्रभुङ्क्ष्व त्वं दिव्यान्कामान्मनोऽनुगान्
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादाम्बुजद्वयम् ॥ ३१ ॥

मूलम्

अत्र भोगान्प्रभुङ्क्ष्व त्वं दिव्यान्कामान्मनोऽनुगान्
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादाम्बुजद्वयम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम्
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ॥ ३२ ॥

मूलम्

नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम्
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ॥ ३२ ॥

विश्वास-प्रस्तुतिः

पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ॥ ३३ ॥

मूलम्

पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा
एवमाभाषिते धात्रा जगाम शिवमन्दिरम् ॥ ३४ ॥

मूलम्

उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा
एवमाभाषिते धात्रा जगाम शिवमन्दिरम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

चक्रे आतिथ्यपूजां च उमया सह शङ्करः
तस्यै वापि नृपेन्द्रस्य राजानमिदमब्रवीत् ॥ ३५ ॥

मूलम्

चक्रे आतिथ्यपूजां च उमया सह शङ्करः
तस्यै वापि नृपेन्द्रस्य राजानमिदमब्रवीत् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कृष्णभक्तोसि राजेन्द्र ममापि सुप्रियो भवान्
ततो ययाते राजेन्द्र वस त्वं मम मन्दिरम् ॥ ३६ ॥

मूलम्

कृष्णभक्तोसि राजेन्द्र ममापि सुप्रियो भवान्
ततो ययाते राजेन्द्र वस त्वं मम मन्दिरम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वान्भोगान्प्रभुङ्क्ष्व त्वं दुःखप्राप्यान्हि मानुषैः
अन्तरं नास्ति राजेन्द्र मम विष्णोर्न संशयः ॥ ३७ ॥

मूलम्

सर्वान्भोगान्प्रभुङ्क्ष्व त्वं दुःखप्राप्यान्हि मानुषैः
अन्तरं नास्ति राजेन्द्र मम विष्णोर्न संशयः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ॥ ३८ ॥

मूलम्

योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

उभयोरन्तरं नास्ति तस्माच्चैव वदाम्यहम्
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ॥ ३९ ॥

मूलम्

उभयोरन्तरं नास्ति तस्माच्चैव वदाम्यहम्
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तस्मादत्र महाराज स्थातव्यं हि त्वयानघ
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ॥ ४० ॥

मूलम्

तस्मादत्र महाराज स्थातव्यं हि त्वयानघ
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ॥ ४० ॥

विश्वास-प्रस्तुतिः

भक्त्या प्रणम्य देवेशं शङ्करं नतकन्धरः
एतत्सर्वं महादेव त्वयोक्तमिह साम्प्रतम् ॥ ४१ ॥

मूलम्

भक्त्या प्रणम्य देवेशं शङ्करं नतकन्धरः
एतत्सर्वं महादेव त्वयोक्तमिह साम्प्रतम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

युवयोरन्तरं नास्ति एका मूर्तिर्द्विधाभवत्
वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् ॥ ४२ ॥

मूलम्

युवयोरन्तरं नास्ति एका मूर्तिर्द्विधाभवत्
वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एवमस्तु महाराज गच्छ लोकं तु वैष्णवम्
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ॥ ४३ ॥

मूलम्

एवमस्तु महाराज गच्छ लोकं तु वैष्णवम्
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ॥ ४४ ॥

मूलम्

पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

शङ्खशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ॥ ४५ ॥

मूलम्

शङ्खशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः
गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः ॥ ४६ ॥

मूलम्

सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः
गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

ऋषिभिः स्तूयमानश्च देववृन्दैः समन्वितैः
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ॥ ४७ ॥

मूलम्

ऋषिभिः स्तूयमानश्च देववृन्दैः समन्वितैः
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

गन्धर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमङ्गलैः
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ॥ ४८ ॥

मूलम्

गन्धर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमङ्गलैः
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ॥ ४८ ॥

विश्वास-प्रस्तुतिः

रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः
स्तूयमानो महाराजस्त्रैलोक्येन समन्ततः ॥ ४९ ॥

मूलम्

रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः
स्तूयमानो महाराजस्त्रैलोक्येन समन्ततः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

ददृशे वैष्णवं लोकमनौपम्यमनामयम्
विमानैः काञ्चनै राजन्सर्वशोभासमाविलैः ॥ ५० ॥

मूलम्

ददृशे वैष्णवं लोकमनौपम्यमनामयम्
विमानैः काञ्चनै राजन्सर्वशोभासमाविलैः ॥ ५० ॥

विश्वास-प्रस्तुतिः

हंसकुन्देन्दुधवलैर्विमानैरुपशोभितैः
प्रासादैः शतभौमैश्च मेरुमन्दरसन्निभैः ॥ ५१ ॥

मूलम्

हंसकुन्देन्दुधवलैर्विमानैरुपशोभितैः
प्रासादैः शतभौमैश्च मेरुमन्दरसन्निभैः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ॥ ५२ ॥

मूलम्

शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ॥ ५३ ॥

मूलम्

तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ॥ ५३ ॥

विश्वास-प्रस्तुतिः

नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ॥ ५४ ॥

मूलम्

नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ॥ ५४ ॥

विश्वास-प्रस्तुतिः

ध्वज व्याजेन राजेन्द्र चलिताग्रैः सुपल्लवैः
श्वसनान्दोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ॥ ५५ ॥

मूलम्

ध्वज व्याजेन राजेन्द्र चलिताग्रैः सुपल्लवैः
श्वसनान्दोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

हेमदण्डैश्च घण्टाभिः सर्वत्रसमलङ्कृतम्
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ॥ ५६ ॥

मूलम्

हेमदण्डैश्च घण्टाभिः सर्वत्रसमलङ्कृतम्
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

गवाक्षैर्जालमालैश्च वातायनमनोहरैः
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ॥ ५७ ॥

मूलम्

गवाक्षैर्जालमालैश्च वातायनमनोहरैः
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तोरणैः सुपताकाभिर्नानाशब्दैः सुमङ्गलैः
कलशाग्रैश्चक्रबिम्बै रविबिम्बसमप्रभैः ॥ ५८ ॥

मूलम्

तोरणैः सुपताकाभिर्नानाशब्दैः सुमङ्गलैः
कलशाग्रैश्चक्रबिम्बै रविबिम्बसमप्रभैः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

सुभोगैः शतकक्षैश्च निर्जलाम्बुदसन्निभैः
दण्डच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ॥ ५९ ॥

मूलम्

सुभोगैः शतकक्षैश्च निर्जलाम्बुदसन्निभैः
दण्डच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

प्रावृट्कालाम्बुदाकारैर्मदिरैरुपशोभितैः
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ॥ ६० ॥

मूलम्

प्रावृट्कालाम्बुदाकारैर्मदिरैरुपशोभितैः
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

दण्डजालपताकाभिर्ऋक्षजालसमप्रभैः
तादृशैः स्फाटिकाकारैः कान्तिशङ्खेन्दुसन्निभैः ॥ ६१ ॥

मूलम्

दण्डजालपताकाभिर्ऋक्षजालसमप्रभैः
तादृशैः स्फाटिकाकारैः कान्तिशङ्खेन्दुसन्निभैः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

हेमप्रासादसम्बाधैर्नानाधातुमयैस्ततः
विमानैरर्बुदसङ्ख्यैः शतकोटिसहस्रकैः ॥ ६२ ॥

मूलम्

हेमप्रासादसम्बाधैर्नानाधातुमयैस्ततः
विमानैरर्बुदसङ्ख्यैः शतकोटिसहस्रकैः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

सर्वभोगयुतैश्चैव शोभते हरिपत्तनम्
यैः समाराधितो देवः शङ्खचक्रगदाधरः ॥ ६३ ॥

मूलम्

सर्वभोगयुतैश्चैव शोभते हरिपत्तनम्
यैः समाराधितो देवः शङ्खचक्रगदाधरः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

ते प्रसादात्तस्य तेषु निवसन्ति गृहेषु च
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ॥ ६४ ॥

मूलम्

ते प्रसादात्तस्य तेषु निवसन्ति गृहेषु च
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमन्दिरम् ॥ ६५ ॥

मूलम्

वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमन्दिरम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

नानावृक्षैः समाकीर्णं वनैश्चन्दनशोभितैः
सर्वकामफलै राजन्सर्वत्र समलङ्कृतम् ॥ ६६ ॥

मूलम्

नानावृक्षैः समाकीर्णं वनैश्चन्दनशोभितैः
सर्वकामफलै राजन्सर्वत्र समलङ्कृतम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

वापीकुण्डतडागैश्च सारसैरुपशोभितैः
हंसकारण्डवाकीर्णैः कल्हारैरुपशोभितैः ॥ ६७ ॥

मूलम्

वापीकुण्डतडागैश्च सारसैरुपशोभितैः
हंसकारण्डवाकीर्णैः कल्हारैरुपशोभितैः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ॥ ६८ ॥

मूलम्

शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ॥ ६८ ॥

विश्वास-प्रस्तुतिः

वैकुण्ठं सर्वशोभाढ्यं देवोद्यानैरलङ्कृतम्
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ॥ ६९ ॥

मूलम्

वैकुण्ठं सर्वशोभाढ्यं देवोद्यानैरलङ्कृतम्
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम्
देववृन्दैः समाकीर्णं ययातिर्नहुषात्मजः ॥ ७० ॥

मूलम्

वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम्
देववृन्दैः समाकीर्णं ययातिर्नहुषात्मजः ॥ ७० ॥

विश्वास-प्रस्तुतिः

प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम्
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ॥ ७१ ॥

मूलम्

प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम्
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

विमानैरुपशोभन्तं सर्वाभरणशालिनम्
पीतवासं जगन्नाथं श्रीवत्साङ्कं महाद्युतिम् ॥ ७२ ॥

मूलम्

विमानैरुपशोभन्तं सर्वाभरणशालिनम्
पीतवासं जगन्नाथं श्रीवत्साङ्कं महाद्युतिम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

वैनतेयसमारूढं श्रियायुक्तं परात्परम्
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ॥ ७३ ॥

मूलम्

वैनतेयसमारूढं श्रियायुक्तं परात्परम्
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

परमानन्दरूपेण कैवल्येन विराजते
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ॥ ७४ ॥

मूलम्

परमानन्दरूपेण कैवल्येन विराजते
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

देववृन्दैः समाकीर्णं गन्धर्वगणसेवितम्
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ॥ ७५ ॥

मूलम्

देववृन्दैः समाकीर्णं गन्धर्वगणसेवितम्
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

नारायणं ननामाथ स्वपत्न्या सह भूपतिः
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ॥ ७६ ॥

मूलम्

नारायणं ननामाथ स्वपत्न्या सह भूपतिः
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

गता ये वैष्णवाः सर्वे सह राज्ञा महामते
पादाम्बुजद्वयं तस्य नेमुर्भक्त्या महामते ॥ ७७ ॥

मूलम्

गता ये वैष्णवाः सर्वे सह राज्ञा महामते
पादाम्बुजद्वयं तस्य नेमुर्भक्त्या महामते ॥ ७७ ॥

विश्वास-प्रस्तुतिः

प्रणमन्तं महात्मानं राजानं दीप्ततेजसम्
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ॥ ७८ ॥

मूलम्

प्रणमन्तं महात्मानं राजानं दीप्ततेजसम्
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ॥ ७८ ॥

विश्वास-प्रस्तुतिः

वरं वरय राजेन्द्र यत्ते मनसि वर्तते
तत्ते ददाम्यसन्देहं मद्भक्तोसि महामते ॥ ७९ ॥

मूलम्

वरं वरय राजेन्द्र यत्ते मनसि वर्तते
तत्ते ददाम्यसन्देहं मद्भक्तोसि महामते ॥ ७९ ॥

विश्वास-प्रस्तुतिः

राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन
दासत्वं देहि सततमात्मनश्च जगत्पते ॥ ८० ॥

मूलम्

राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन
दासत्वं देहि सततमात्मनश्च जगत्पते ॥ ८० ॥

विश्वास-प्रस्तुतिः

विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः
लोके मम महाराज स्थातव्यमनया सह ॥ ८१ ॥

मूलम्

विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः
लोके मम महाराज स्थातव्यमनया सह ॥ ८१ ॥

विश्वास-प्रस्तुतिः

एवमुक्तो महाराजो ययातिः पृथिवीपतिः
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ॥ ८२ ॥

मूलम्

एवमुक्तो महाराजो ययातिः पृथिवीपतिः
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ ८३ ॥

मूलम्

निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ ८३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे ययातेः स्वर्गारोहणं नाम त्र्यशीतितमोऽध्यायः ८३