सुकर्मोवाच-
विश्वास-प्रस्तुतिः
एवं चिन्तयते यावद्राजा परमधार्मिकः
तावत्प्रोवाच सा देवी रतिपुत्री वरानना ॥ १ ॥
मूलम्

किमु चिन्तयसे राजंस्त्वमिहैव महामते
प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः ॥ २ ॥

नाहं चापल्यभावेन त्वामेवं प्रविचालये
नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम ॥ ३ ॥

अन्यस्त्रियो यथा लोके चपलत्वाद्वदन्ति च
अकार्यं राजराजेन्द्र लोभान्मोहाच्च लम्पटाः ॥ ४ ॥

लोकानां दर्शनायैव जाता श्रद्धा ममोरसि
देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः ॥ ५ ॥

तेषां च दर्शनं राजन्कारयामि वदस्व मे
दोषं पापकरं यत्तु मत्सङ्गादिह चेद्भवेत् ॥ ६ ॥

एवं चिन्तयसे दुःखं यथान्यः प्राकृतो जनः
महाभयाद्यथाभीतो मोहगर्ते गतो यथा ॥ ७ ॥
मूलम्
एवं चिन्तयसे दुःखं यथान्यः प्राकृतो जनः
महाभयाद्यथाभीतो मोहगर्ते गतो यथा ॥ ७ ॥
विश्वास-प्रस्तुतिः
त्यज चिन्तां महाराज न गन्तव्यं त्वया दिवि
येन ते जायते दुःखं तन्न कार्यं मया कदा ॥ ८ ॥

एवमुक्तस्तथा राजा तामुवाच वराननाम्
चिन्तितं यन्मया देवि तच्छृणुष्व हि साम्प्रतम् ॥ ९ ॥

मानभङ्गो मया दृष्टो नैव स्वस्य मनःप्रिये
मयि स्वर्गं गते कान्ते प्रजा दीना भविष्यति ॥ १० ॥

त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः
त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने ॥ ११ ॥

एवमाभाष्य तां राजा समाहूय सुतोत्तमम्
पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् ॥ १२ ॥

एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम्
ममाज्ञया हि धर्मात्मन्धर्मः सम्पालितस्त्वया ॥ १३ ॥

जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः
राज्यं कुरु ममेदं त्वं सकोशबलवाहनम् ॥ १४ ॥

आसमुद्रां प्रभुङ्क्ष्व त्वं रत्नपूर्णां वसुन्धराम्
मया दत्तां महाभाग सग्रामवनपत्तनाम् ॥ १५ ॥

प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ
दुष्टानां शासनं नित्यं साधूनां परिपालनम् ॥ १६ ॥

कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः
ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा ॥ १७ ॥

भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये
पञ्चमे सप्तमे घस्रे कोशं पश्य विपश्चितः ॥ १८ ॥

बलं च नित्यं सम्पूज्यं प्रसादधनभोजनैः
चारचक्षुर्भवस्व त्वं नित्यं दानपरो भव ॥ १९ ॥

भव स्वनियतो मन्त्रे सदा गोप्यः सुपण्डितैः
नियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत ॥ २० ॥

विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबले
पात्राणां त्वं तु सर्वेषां कलानां कुरु सङ्ग्रहम् ॥ २१ ॥

यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदा
प्रजानां कण्टकान्सर्वान्मर्दयस्व दिने दिने ॥ २२ ॥

प्रजानां वाञ्छितं सर्वमर्पयस्व दिने दिने
प्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक ॥ २३ ॥

स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाः
मतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा ॥ २४ ॥

वेदानां हि सदा चिन्ता शास्त्राणां हि च सर्वदा
कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव ॥ २५ ॥

सन्तुष्टः सर्वदा वत्स स्वशय्या निरतो भव
गजस्य वाजिनोभ्यासं स्यन्दनस्य च सर्वदा ॥ २६ ॥

एवमादिश्य तं पुत्रमाशीर्भिरभिनन्द्य च
स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् ॥ २७ ॥

स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य च
गन्तुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः ॥ २८ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः ८२