सुकर्मोवाच-
विश्वास-प्रस्तुतिः
यथेन्द्रोसौ महाप्राज्ञः सदा भीतो महात्मनः
ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु ॥ १ ॥
मूलम्
यथेन्द्रोसौ महाप्राज्ञः सदा भीतो महात्मनः
ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु ॥ १ ॥
विश्वास-प्रस्तुतिः
मेनकां प्रेषयामास अप्सरां दूतकर्मणि
गच्छ भद्रे महाभागे ममादेशं वदस्व हि ॥ २ ॥
मूलम्
मेनकां प्रेषयामास अप्सरां दूतकर्मणि
गच्छ भद्रे महाभागे ममादेशं वदस्व हि ॥ २ ॥
विश्वास-प्रस्तुतिः
कामकन्यामितो गत्वा देवराजवचो वद
येनकेनाप्युपायेन राजानं त्वमिहानय ॥ ३ ॥
मूलम्
कामकन्यामितो गत्वा देवराजवचो वद
येनकेनाप्युपायेन राजानं त्वमिहानय ॥ ३ ॥
विश्वास-प्रस्तुतिः
एवं श्रुत्वा गता सा च मेनका तत्र प्रेषिता
समाचष्ट तु तत्सर्वं देवराजस्य भाषितम् ॥ ४ ॥
मूलम्
एवं श्रुत्वा गता सा च मेनका तत्र प्रेषिता
समाचष्ट तु तत्सर्वं देवराजस्य भाषितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
एवमुक्ता गता सा च मेनका तत्प्रचोदिता
गतायां मेनकायां तु रतिपुत्री मनस्विनी ॥ ५ ॥
मूलम्
एवमुक्ता गता सा च मेनका तत्प्रचोदिता
गतायां मेनकायां तु रतिपुत्री मनस्विनी ॥ ५ ॥
विश्वास-प्रस्तुतिः
राजानं धर्मसङ्केतं प्रत्युवाच यशस्विनी
राजंस्त्वयाहमानीता सत्यवाक्येन वै पुरा ॥ ६ ॥
मूलम्
राजानं धर्मसङ्केतं प्रत्युवाच यशस्विनी
राजंस्त्वयाहमानीता सत्यवाक्येन वै पुरा ॥ ६ ॥
विश्वास-प्रस्तुतिः
स्वकरश्चान्तरे दत्तो भवनं च समाहृता
यद्यद्वदाम्यहं राजंस्तत्तत्कार्यं हि वै त्वया ॥ ७ ॥
मूलम्
स्वकरश्चान्तरे दत्तो भवनं च समाहृता
यद्यद्वदाम्यहं राजंस्तत्तत्कार्यं हि वै त्वया ॥ ७ ॥
विश्वास-प्रस्तुतिः
तदेवं हि त्वया वीर न कृतं भाषितं मम
त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमन्दिरम् ॥ ८ ॥
मूलम्
तदेवं हि त्वया वीर न कृतं भाषितं मम
त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमन्दिरम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
राजोवाच-
यथोक्तं हि त्वया भद्रे तत्ते कर्त्ता न संशयः
असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे ॥ ९ ॥
मूलम्
राजोवाच-
यथोक्तं हि त्वया भद्रे तत्ते कर्त्ता न संशयः
असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे ॥ ९ ॥
विश्वास-प्रस्तुतिः
अश्रुबिन्दुमत्युवाच-
एतदर्थे महीकान्त भवानिह मया वृतः
सर्वलक्षणसम्पन्नः सर्वधर्मसमन्वितः ॥ १० ॥
मूलम्
अश्रुबिन्दुमत्युवाच-
एतदर्थे महीकान्त भवानिह मया वृतः
सर्वलक्षणसम्पन्नः सर्वधर्मसमन्वितः ॥ १० ॥
विश्वास-प्रस्तुतिः
सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च
कर्त्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ॥ ११ ॥
मूलम्
सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च
कर्त्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै
विष्णुभक्तमहं जाने वैष्णवानां महावरम् ॥ १२ ॥
मूलम्
त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै
विष्णुभक्तमहं जाने वैष्णवानां महावरम् ॥ १२ ॥
विश्वास-प्रस्तुतिः
इत्याशया मया भर्त्ता भवानङ्गीकृतः पुरा
यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् ॥ १३ ॥
मूलम्
इत्याशया मया भर्त्ता भवानङ्गीकृतः पुरा
यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
दुर्लभं नास्ति राजेन्द्र त्रैलोक्ये सचराचरे
सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत ॥ १४ ॥
मूलम्
दुर्लभं नास्ति राजेन्द्र त्रैलोक्ये सचराचरे
सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत ॥ १४ ॥
विश्वास-प्रस्तुतिः
विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप ॥ १५ ॥
मूलम्
विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप ॥ १५ ॥
विश्वास-प्रस्तुतिः
जरापलितहीनास्तु मृत्युहीना जनाः कृताः
गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ ॥ १६ ॥
मूलम्
जरापलितहीनास्तु मृत्युहीना जनाः कृताः
गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ ॥ १६ ॥
विश्वास-प्रस्तुतिः
कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः
येषां गृहेषु मर्त्यानां मुनयः कामधेनवः ॥ १७ ॥
मूलम्
कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः
येषां गृहेषु मर्त्यानां मुनयः कामधेनवः ॥ १७ ॥
विश्वास-प्रस्तुतिः
त्वयैव प्रेषिता राजन्स्थिरीभूताः सदा कृताः
सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः ॥ १८ ॥
मूलम्
त्वयैव प्रेषिता राजन्स्थिरीभूताः सदा कृताः
सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः ॥ १८ ॥
विश्वास-प्रस्तुतिः
गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते
एवं वंशविवृद्धिश्च मानवानां त्वया कृता ॥ १९ ॥
मूलम्
गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते
एवं वंशविवृद्धिश्च मानवानां त्वया कृता ॥ १९ ॥
विश्वास-प्रस्तुतिः
यमस्यापि विरोधेन इन्द्रस्य च नरोत्तम
व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः ॥ २० ॥
मूलम्
यमस्यापि विरोधेन इन्द्रस्य च नरोत्तम
व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः ॥ २० ॥
विश्वास-प्रस्तुतिः
स्वतेजसाहङ्कारेण स्वर्गरूपं तु भूतलम्
दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः ॥ २१ ॥
मूलम्
स्वतेजसाहङ्कारेण स्वर्गरूपं तु भूतलम्
दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
नरो नैव प्रसूतो हि नोत्पत्स्यति भवादृशः
भवन्तमित्यहं जाने सर्वधर्मप्रभाकरम् ॥ २२ ॥
मूलम्
नरो नैव प्रसूतो हि नोत्पत्स्यति भवादृशः
भवन्तमित्यहं जाने सर्वधर्मप्रभाकरम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रतः
नर्ममुक्त्वा नृपेन्द्र त्वं वद सत्यं ममाग्रतः ॥ २३ ॥
मूलम्
तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रतः
नर्ममुक्त्वा नृपेन्द्र त्वं वद सत्यं ममाग्रतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
यदि ते सत्यमस्तीह धर्ममस्ति नराधिप
देवलोकेषु मे नास्ति गगने गतिरुत्तमा ॥ २४ ॥
मूलम्
यदि ते सत्यमस्तीह धर्ममस्ति नराधिप
देवलोकेषु मे नास्ति गगने गतिरुत्तमा ॥ २४ ॥
विश्वास-प्रस्तुतिः
सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि
तदा कूटं तव वचो भविष्यति न संशयः ॥ २५ ॥
मूलम्
सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि
तदा कूटं तव वचो भविष्यति न संशयः ॥ २५ ॥
विश्वास-प्रस्तुतिः
पूर्वङ्कृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति
राजोवाच-
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे ॥ २६ ॥
मूलम्
पूर्वङ्कृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति
राजोवाच-
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे ॥ २६ ॥
विश्वास-प्रस्तुतिः
सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते
स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु ॥ २७ ॥
मूलम्
सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते
स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु ॥ २७ ॥
विश्वास-प्रस्तुतिः
आगन्तुं तु न दास्यन्ति लोके मर्त्ये च देवताः
ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने ॥ २८ ॥
मूलम्
आगन्तुं तु न दास्यन्ति लोके मर्त्ये च देवताः
ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने ॥ २८ ॥
विश्वास-प्रस्तुतिः
मृत्युयुक्ता भविष्यन्ति मया हीना न संशयः
गन्तुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने ॥ २९ ॥
मूलम्
मृत्युयुक्ता भविष्यन्ति मया हीना न संशयः
गन्तुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने ॥ २९ ॥
विश्वास-प्रस्तुतिः
देव्युवाच-
लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः
पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम् ॥ ३० ॥
मूलम्
देव्युवाच-
लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः
पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
राजोवाच-
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः
समालोक्य महातेजा ययातिर्नहुषात्मजः ॥ ३१ ॥
मूलम्
राजोवाच-
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः
समालोक्य महातेजा ययातिर्नहुषात्मजः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा प्रियां राजा चिन्तयामास वै तदा
अन्तर्जलचरो मत्स्यः सोपि जाले न बध्यते ॥ ३२ ॥
मूलम्
एवमुक्त्वा प्रियां राजा चिन्तयामास वै तदा
अन्तर्जलचरो मत्स्यः सोपि जाले न बध्यते ॥ ३२ ॥
विश्वास-प्रस्तुतिः
मरुत्समानवेगोपि मृगः प्राप्नोति बन्धनम्
योजनानां सहस्रस्थमामिषं वीक्षते खगः ॥ ३३ ॥
मूलम्
मरुत्समानवेगोपि मृगः प्राप्नोति बन्धनम्
योजनानां सहस्रस्थमामिषं वीक्षते खगः ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सकण्ठलग्नपाशं च न पश्येद्दैवमोहितः
कालः समविषमकृत्कालः सन्मानहानिदः ॥ ३४ ॥
मूलम्
सकण्ठलग्नपाशं च न पश्येद्दैवमोहितः
कालः समविषमकृत्कालः सन्मानहानिदः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
परिभावकरः कालो यत्रकुत्रापि तिष्ठतः
नरं करोति दातारं याचितारं च वै पुनः ॥ ३५ ॥
मूलम्
परिभावकरः कालो यत्रकुत्रापि तिष्ठतः
नरं करोति दातारं याचितारं च वै पुनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
भूतानि स्थावरादीनि दिवि वा यदि वा भुवि
सर्वं कलयते कालः कालो ह्येक इदं जगत् ॥ ३६ ॥
मूलम्
भूतानि स्थावरादीनि दिवि वा यदि वा भुवि
सर्वं कलयते कालः कालो ह्येक इदं जगत् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अनादिनिधनो धाता जगतः कारणं परम्
लोकान्कालः स पचति वृक्षे फलमिवाहितम् ॥ ३७ ॥
मूलम्
अनादिनिधनो धाता जगतः कारणं परम्
लोकान्कालः स पचति वृक्षे फलमिवाहितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
न मन्त्रा न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ ३८ ॥
मूलम्
न मन्त्रा न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
त्रयः कालकृताः पाशाः शक्यन्ते नातिवर्तितुम्
विवाहो जन्ममरणं यदा यत्र तु येन च ॥ ३९ ॥
मूलम्
त्रयः कालकृताः पाशाः शक्यन्ते नातिवर्तितुम्
विवाहो जन्ममरणं यदा यत्र तु येन च ॥ ३९ ॥
विश्वास-प्रस्तुतिः
यथा जलधरा व्योम्नि भ्राम्यन्ते मातरिश्वना
तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् ॥ ४० ॥
मूलम्
यथा जलधरा व्योम्नि भ्राम्यन्ते मातरिश्वना
तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् ॥ ४० ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः
कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः ॥ ४१ ॥
मूलम्
सुकर्मोवाच-
कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः
कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः
सर्वे कर्मनियुक्तास्ते प्रचरन्ति च मानुषे ॥ ४२ ॥
मूलम्
उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः
सर्वे कर्मनियुक्तास्ते प्रचरन्ति च मानुषे ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः
ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् ॥ ४३ ॥
मूलम्
सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः
ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कर्मदा यदि वा लोके कर्मसम्बधि बान्धवाः
कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः ॥ ४४ ॥
मूलम्
कर्मदा यदि वा लोके कर्मसम्बधि बान्धवाः
कर्माणि चोदयन्तीह पुरुषं सुखदुःखयोः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
सुवर्णं रजतं वापि यथा रूपं विनिश्चितम्
तथा निबध्यते जन्तुः स्वकर्मणि वशानुगः ॥ ४५ ॥
मूलम्
सुवर्णं रजतं वापि यथा रूपं विनिश्चितम्
तथा निबध्यते जन्तुः स्वकर्मणि वशानुगः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पञ्चैतानीह सृज्यन्ते गर्भस्थस्यैव देहिनः
आयुः कर्म च वित्तं च विद्यानिधनमेव च ॥ ४६ ॥
मूलम्
पञ्चैतानीह सृज्यन्ते गर्भस्थस्यैव देहिनः
आयुः कर्म च वित्तं च विद्यानिधनमेव च ॥ ४६ ॥
विश्वास-प्रस्तुतिः
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ ४७ ॥
मूलम्
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ ४७ ॥
विश्वास-प्रस्तुतिः
देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा
तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः ॥ ४८ ॥
मूलम्
देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा
तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
स एव तत्तथा भुङ्क्ते नित्यं विहितमात्मना
आत्मना विहितं दुःखं चात्मना विहितं सुखम् ॥ ४९ ॥
मूलम्
स एव तत्तथा भुङ्क्ते नित्यं विहितमात्मना
आत्मना विहितं दुःखं चात्मना विहितं सुखम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
गर्भशय्यामुपादाय भुञ्जते पूर्वदैहिकम्
सन्त्यजन्ति स्वकं कर्म न क्वचित्पुरुषा भुवि ॥ ५० ॥
मूलम्
गर्भशय्यामुपादाय भुञ्जते पूर्वदैहिकम्
सन्त्यजन्ति स्वकं कर्म न क्वचित्पुरुषा भुवि ॥ ५० ॥
विश्वास-प्रस्तुतिः
बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा
सुकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च ॥ ५१ ॥
मूलम्
बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा
सुकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च ॥ ५१ ॥
विश्वास-प्रस्तुतिः
हेतुं प्राप्य नरो नित्यं कर्मबन्धैस्तु बध्यते
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ ५२ ॥
मूलम्
हेतुं प्राप्य नरो नित्यं कर्मबन्धैस्तु बध्यते
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तथा शुभाशुभं कर्म कर्तारमनुगच्छति
उपभोगादृते यस्य नाश एव न विद्यते ॥ ५३ ॥
मूलम्
तथा शुभाशुभं कर्म कर्तारमनुगच्छति
उपभोगादृते यस्य नाश एव न विद्यते ॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्राक्तनं बन्धनं कर्म कोन्यथा कर्तुमर्हति
सुशीघ्रमपि धावन्तं विधानमनुधावति ॥ ५४ ॥
मूलम्
प्राक्तनं बन्धनं कर्म कोन्यथा कर्तुमर्हति
सुशीघ्रमपि धावन्तं विधानमनुधावति ॥ ५४ ॥
विश्वास-प्रस्तुतिः
शेते सह शयानेन पुरा कर्म यथाकृतम्
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ॥ ५५ ॥
मूलम्
शेते सह शयानेन पुरा कर्म यथाकृतम्
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ॥ ५५ ॥
विश्वास-प्रस्तुतिः
करोति कुर्वतः कर्मच्छायेवानु विधीयते
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ॥ ५६ ॥
मूलम्
करोति कुर्वतः कर्मच्छायेवानु विधीयते
यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम्
ग्रहा रोगा विषाः सर्पाः शाकिन्यो राक्षसास्तथा ॥ ५७ ॥
मूलम्
तद्वत्कर्म च कर्ता च सुसम्बद्धौ परस्परम्
ग्रहा रोगा विषाः सर्पाः शाकिन्यो राक्षसास्तथा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥ ५८ ॥
मूलम्
पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥ ५८ ॥
विश्वास-प्रस्तुतिः
स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते
दैवः प्रभुर्हि भूतानां सुखदुःखोपपादने ॥ ५९ ॥
मूलम्
स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते
दैवः प्रभुर्हि भूतानां सुखदुःखोपपादने ॥ ५९ ॥
विश्वास-प्रस्तुतिः
अन्यथा चिन्त्यते कर्म जाग्रता स्वपतापि वा
अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति ॥ ६० ॥
मूलम्
अन्यथा चिन्त्यते कर्म जाग्रता स्वपतापि वा
अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति ॥ ६० ॥
विश्वास-प्रस्तुतिः
शस्त्राग्नि विष दुर्गेभ्यो रक्षितव्यं च रक्षति
अरक्षितं भवेत्सत्यं तदेवं दैवरक्षितम् ॥ ६१ ॥
मूलम्
शस्त्राग्नि विष दुर्गेभ्यो रक्षितव्यं च रक्षति
अरक्षितं भवेत्सत्यं तदेवं दैवरक्षितम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते
यथा पृथिव्यां बीजानि उप्तानि च धनानि च ॥ ६२ ॥
मूलम्
दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते
यथा पृथिव्यां बीजानि उप्तानि च धनानि च ॥ ६२ ॥
विश्वास-प्रस्तुतिः
तथैवात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ॥ ६३ ॥
मूलम्
तथैवात्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कर्मक्षयात्तथा जन्तुः शरीरान्नाशमृच्छति
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः ॥ ६४ ॥
मूलम्
कर्मक्षयात्तथा जन्तुः शरीरान्नाशमृच्छति
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः
तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा ॥ ६५ ॥
मूलम्
विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः
तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
सम्प्राप्तो नात्र सन्देहः स्त्रीरूपोऽयं न संशयः
क्व मे गेहं समायाता नाटका नटनर्तकाः ॥ ६६ ॥
मूलम्
सम्प्राप्तो नात्र सन्देहः स्त्रीरूपोऽयं न संशयः
क्व मे गेहं समायाता नाटका नटनर्तकाः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तेषां सङ्गप्रसङ्गेन जरा देहं समाश्रिता
सर्वं कर्मकृतं मन्ये यन्मे सम्भावितं ध्रुवम् ॥ ६७ ॥
मूलम्
तेषां सङ्गप्रसङ्गेन जरा देहं समाश्रिता
सर्वं कर्मकृतं मन्ये यन्मे सम्भावितं ध्रुवम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः
पुरा वै देवराजेन मदर्थे दूतसत्तमः ॥ ६८ ॥
मूलम्
तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः
पुरा वै देवराजेन मदर्थे दूतसत्तमः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः
तस्य कर्मविपाकोऽयं दृश्यते साम्प्रतं मम ॥ ६९ ॥
मूलम्
प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः
तस्य कर्मविपाकोऽयं दृश्यते साम्प्रतं मम ॥ ६९ ॥
विश्वास-प्रस्तुतिः
इति चिन्तापरो भूत्वा दुःखेन महतान्वितः
यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा ॥ ७० ॥
मूलम्
इति चिन्तापरो भूत्वा दुःखेन महतान्वितः
यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा ॥ ७० ॥
विश्वास-प्रस्तुतिः
सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः
सदृशं च समायातं यद्दृष्टं मम कर्मणा ॥ ७१ ॥
मूलम्
सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः
सदृशं च समायातं यद्दृष्टं मम कर्मणा ॥ ७१ ॥
विश्वास-प्रस्तुतिः
भविष्यति न सन्देहो दैवो हि दुरतिक्रमः
एवं चिन्तापरो भूत्वा ययातिः पृथिवीपतिः ॥ ७२ ॥
मूलम्
भविष्यति न सन्देहो दैवो हि दुरतिक्रमः
एवं चिन्तापरो भूत्वा ययातिः पृथिवीपतिः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
कृष्णं क्लेशापहं देवं जगाम शरणं हरिम्
ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम् ॥ ७३ ॥
मूलम्
कृष्णं क्लेशापहं देवं जगाम शरणं हरिम्
ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय ॥ ७४ ॥
मूलम्
त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय ॥ ७४ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकाशीतितमोऽध्यायः ८१