पिप्पल उवाच-
विश्वास-प्रस्तुतिः
कामकन्यां यदा राजा उपयेमे द्विजोत्तम
किं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके ॥ १ ॥
मूलम्

देवयानी महाभागा शर्मिष्ठा वार्षपर्वणी
तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः ॥ २ ॥

सुकर्मोवाच-
यदानीता कामकन्या स्वगृहं तेन भूभुजा
अत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी ॥ ३ ॥

तस्यार्थे तु सुतौ शप्तौ क्रोधेनाकुलितात्मना
शर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी ॥ ४ ॥

रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथा
शर्मिष्ठा देवयानी च स्पर्धेते स्म तया सह ॥ ५ ॥

दुष्टभावं तयोश्चापि साऽज्ञासीत्कामजा तदा
राज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ॥ ६ ॥

अथ क्रुद्धो महाराजः समाहूयाब्रवीद्यदुम्
शर्मिष्ठा वध्यतां गत्वा शुक्रपुत्री तथा पुनः ॥ ७ ॥

सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसे
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं यदुस्तदा ॥ ८ ॥

प्रत्युवाच नृपेन्द्रं तं पितरं प्रति मानद
नाहं तु घातये तात मातरौ दोषवर्जिते ॥ ९ ॥

मातृघाते महादोषः कथितो वेदपण्डितैः
तस्माद्घातं महाराज एतयोर्न करोम्यहम् ॥ १० ॥

दोषाणां तु सहस्रेण माता लिप्ता यदा भवेत्
भगिनी च महाराज दुहिता च तथा पुनः ॥ ११ ॥

पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत्कदा
एवं ज्ञात्वा महाराज मातरौ नैव घातये ॥ १२ ॥

यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव ह
शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः ॥ १३ ॥

यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हि
मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ॥ १४ ॥

एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः
पुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः ॥ १५ ॥

रमते सुखभोगेन विष्णोर्ध्यानेन तत्परः
अश्रुबिन्दुमतीसा च तेन सार्द्धं सुलोचना ॥ १६ ॥

बुभुजे चारुसर्वाङ्गी पुण्यान्भोगान्मनोनुगान्
एवं कालो गतस्तस्य ययातेस्तु महात्मनः ॥ १७ ॥

अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा
सर्वे लोका महाभाग विष्णुध्यानपरायणाः ॥ १८ ॥

तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल
सर्वे लोका महाभाग सुखिनः साधुसेवकाः ॥ १९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः ८०