विशालोवाच-
विश्वास-प्रस्तुतिः
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥ १ ॥
मूलम्
शर्मिष्ठा यस्य वै भार्या देवयानी वरानना
सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥ १ ॥
विश्वास-प्रस्तुतिः
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥ २ ॥
मूलम्
तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेः
सपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥ २ ॥
विश्वास-प्रस्तुतिः
ससर्पोसि महाराज भूतले चन्दनं यथा
सर्पैश्च वेष्टितो राजन्महाचन्दन एव हि ॥ ३ ॥
मूलम्
ससर्पोसि महाराज भूतले चन्दनं यथा
सर्पैश्च वेष्टितो राजन्महाचन्दन एव हि ॥ ३ ॥
विश्वास-प्रस्तुतिः
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसञ्ज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥ ४ ॥
मूलम्
तथा त्वं वेष्टितः सर्पैः सपत्नीनामसञ्ज्ञकैः
वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कान्तं सपत्नीविषसंयुतम् ॥ ५ ॥
मूलम्
रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्
न वरं तादृशं कान्तं सपत्नीविषसंयुतम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्मान्न मन्यते कान्तं भवन्तं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥ ६ ॥
मूलम्
तस्मान्न मन्यते कान्तं भवन्तं गुणसागरम्
राजोवाच-
देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥ ६ ॥
विश्वास-प्रस्तुतिः
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिन्दुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥ ७ ॥
मूलम्
इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्
अश्रुबिन्दुमत्युवाच-
अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥ ७ ॥
विश्वास-प्रस्तुतिः
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥ ८ ॥
मूलम्
यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्
इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥ ८ ॥
विश्वास-प्रस्तुतिः
बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विन्दामि त्वां विना वरवर्णिनि ॥ ९ ॥
मूलम्
बहुधर्मसमोपेतं चारुलक्षणसंयुतम्
राजोवाच-
अन्य भार्यां न विन्दामि त्वां विना वरवर्णिनि ॥ ९ ॥
विश्वास-प्रस्तुतिः
राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुङ्क्ष्व चार्वङ्गि एष दत्तः करस्तव ॥ १० ॥
मूलम्
राज्यं च सकलामुर्वीं मम कायं वरानने
सकोशं भुङ्क्ष्व चार्वङ्गि एष दत्तः करस्तव ॥ १० ॥
विश्वास-प्रस्तुतिः
यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिन्दुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ॥ ११ ॥
मूलम्
यदेव भाषसे भद्रे तदेवं तु करोम्यहम्
अश्रुबिन्दुमत्युवाच-
अनेनापि महाभाग तव भार्या भवाम्यहम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य राजेन्द्रो हर्षव्याकुललोचनः
गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ १२ ॥
मूलम्
एवमाकर्ण्य राजेन्द्रो हर्षव्याकुललोचनः
गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ १२ ॥
विश्वास-प्रस्तुतिः
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनन्दनः ॥ १३ ॥
मूलम्
उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तम
तया सार्द्धं महात्मा वै रमते नृपनन्दनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ १४ ॥
मूलम्
सागरस्य च तीरेषु वनेषूपवनेषु च
पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ १४ ॥
विश्वास-प्रस्तुतिः
रमते राजराजेन्द्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च ॥ १५ ॥
मूलम्
रमते राजराजेन्द्रस्तारुण्येन महीपतिः
एवं विंशत्सहस्राणि गतानि निरतस्य च ॥ १५ ॥
विश्वास-प्रस्तुतिः
भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा ॥ १६ ॥
मूलम्
भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः
विष्णुरुवाच-
एवं तया महाराजो ययातिर्मोहितस्तदा ॥ १६ ॥
विश्वास-प्रस्तुतिः
कन्दर्पस्य प्रपञ्चेन इन्द्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥ १७ ॥
मूलम्
कन्दर्पस्य प्रपञ्चेन इन्द्रस्यार्थे महामते
सुकर्मोवाच-
एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥ १८ ॥
मूलम्
तस्या मोहनकामेन रतेन ललितेन च
न जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥ १८ ॥
विश्वास-प्रस्तुतिः
एकदा मोहितं भूपं ययातिं कामनन्दिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना ॥ १९ ॥
मूलम्
एकदा मोहितं भूपं ययातिं कामनन्दिनी
उवाच प्रणतं नम्रं वशगं चारुलोचना ॥ १९ ॥
विश्वास-प्रस्तुतिः
अश्रुबिन्दुमत्युवाच-
सञ्जातं दोहदं कान्त तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥ २० ॥
मूलम्
अश्रुबिन्दुमत्युवाच-
सञ्जातं दोहदं कान्त तन्मे कुरु मनोरथम्
अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥ २० ॥
विश्वास-प्रस्तुतिः
राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥ २१ ॥
मूलम्
राजोवाच-
एवमस्तु महाभागे करोमि तव सुप्रियम्
समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
समाहूतः समायातो भक्त्यानमितकन्धरः
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ २२ ॥
मूलम्
समाहूतः समायातो भक्त्यानमितकन्धरः
बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ २२ ॥
विश्वास-प्रस्तुतिः
तस्याः पादौ ननामाथ भक्त्या नमितकन्धरः
आदेशो दीयतां राजन्येनाहूतः समागतः ॥ २३ ॥
मूलम्
तस्याः पादौ ननामाथ भक्त्या नमितकन्धरः
आदेशो दीयतां राजन्येनाहूतः समागतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य सम्भारं कुरु पुत्रक ॥ २४ ॥
मूलम्
किं करोमि महाभाग दासस्ते प्रणतोस्मि च
राजोवाच-
अश्वमेधस्य यज्ञस्य सम्भारं कुरु पुत्रक ॥ २४ ॥
विश्वास-प्रस्तुतिः
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥ २५ ॥
मूलम्
समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्
एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥ २५ ॥
विश्वास-प्रस्तुतिः
सर्वं चकार सम्पूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥ २६ ॥
मूलम्
सर्वं चकार सम्पूर्णं यथोक्तं तु महात्मना
तया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥ २६ ॥
विश्वास-प्रस्तुतिः
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनन्तकम् ॥ २७ ॥
मूलम्
अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधा
ब्राह्मणेभ्यो महाराज भूरिदानमनन्तकम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञान्ते च महाराजस्तामुवाच वराननाम् ॥ २८ ॥
मूलम्
दीनेषु च विशेषेण ययातिः पृथिवीपतिः
यज्ञान्ते च महाराजस्तामुवाच वराननाम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥ २९ ॥
मूलम्
अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे
तत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥ २९ ॥
विश्वास-प्रस्तुतिः
सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥ ३० ॥
मूलम्
सुकर्मोवाच-
इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच ह
जातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥ ३० ॥
विश्वास-प्रस्तुतिः
इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥ ३१ ॥
मूलम्
इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च
विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥ ३२ ॥
मूलम्
दर्शयस्व महाभाग यदहं सुप्रिया तव
एवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥ ३३ ॥
मूलम्
साधुसाधुवरारोहेपुण्यमेवप्रभाषसे
स्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥ ३३ ॥
विश्वास-प्रस्तुतिः
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥ ३४ ॥
मूलम्
यत्तवोक्तं महाभागे तदसाध्यं विभाति मे
तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥ ३५ ॥
मूलम्
अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वरानने
असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥ ३६ ॥
मूलम्
मर्त्यलोकाच्छरीरेण अनेनापि च मानवः
श्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥ ३७ ॥
मूलम्
ततोऽसाध्यं वरारोहे यत्त्वया भाषितं मम
अन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥ ३७ ॥
विश्वास-प्रस्तुतिः
देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥ ३८ ॥
मूलम्
देव्युवाच-
अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः
त्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥ ३९ ॥
मूलम्
तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपते
नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥ ४० ॥
मूलम्
क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्
तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥ ४० ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ७९