ययातिरुवाच-
विश्वास-प्रस्तुतिः
एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी
धीरेण भवतां मध्ये तारुण्यं मम दीयताम् ॥ १ ॥
मूलम्

स्वकीयं हि महाभागाः स्वरूपमिदमुत्तमम्
सन्तप्तं मानसं मेद्य स्त्रियां सक्तं सुचञ्चलम् ॥ २ ॥

भाजनस्था यथा आप आवर्त्तयति पावकः
तथा मे मानसं पुत्राः कामानलसुचालितम् ॥ ३ ॥

एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम्
स्वकं ददातु तारुण्यं यथाकामं चराम्यहम् ॥ ४ ॥

यो मे जरापसरणं करिष्यति सुतोत्तमः
स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति ॥ ५ ॥

तस्य सौख्यं सुसम्पत्तिर्धनं धान्यं भविष्यति
विपुला सन्ततिस्तस्य यशः कीर्तिर्भविष्यति ॥ ६ ॥

पुत्रा ऊचुः-
भवान्धर्मपरो राजन्प्रजाः सत्येन पालकः
कस्मात्ते हीदृशो भावो जातः प्रकृतिचापलः ॥ ७ ॥

राजोवाच-
आगता नर्तकाः पूर्वं पुरं मे हि प्रनर्तकाः
तेभ्यो मे कामसम्मोहे जातो मोहश्च ईदृशः ॥ ८ ॥

जरया व्यापितः कायो मन्मथाविष्टमानसः
सम्बभूव सुतश्रेष्ठाः कामेनाकुलव्याकुलः ॥ ९ ॥

काचिद्दृष्टा मया नारी दिव्यरूपा वरानना
मया सम्भाषिता पुत्राः किञ्चिन्नोवाच मे सती ॥ १० ॥

विशालानाम तस्याश्च सखी चारुविचक्षणा
सा मामाह शुभं वाक्यं मम सौख्यप्रदायकम् ॥ ११ ॥

जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एवमङ्गीकृतं वाक्यं तयोक्तं गृहमागतः ॥ १२ ॥

मया जरापनोदार्थं तदेवं समुदाहृतम्
एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः ॥ १३ ॥

तुरुरुवाच-
शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः
धर्मश्च क्रियते राजञ्शरीरेण विपश्चिता ॥ १४ ॥

पित्रोः शुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः
न च यौवनदानस्य कालोऽयं मे नराधिप ॥ १५ ॥

प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप
इदानीं तन्न कालोयं वर्तते तव साम्प्रतम् ॥ १६ ॥

जरां तात प्रदत्वा वै पुत्रे तात महद्गताम्
पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् ॥ १७ ॥

तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः
एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा ॥ १८ ॥

तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूव सः
तुरुं शशाप धर्मात्मा क्रोधेनारुणलोचनः ॥ १९ ॥

अपध्वस्तस्त्वयाऽदेशो ममायं पापचेतन
तस्मात्पापी भव स्वत्वं सर्वधर्मबहिष्कृतः ॥ २० ॥

शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः
सर्वाचारविहीनस्त्वं भविष्यसि न संशयः ॥ २१ ॥

ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः
चण्डकर्मप्रकर्ता त्वं भविष्यसि नराधमः ॥ २२ ॥

सुरालीनः क्षुधी पापी गोघ्नश्च त्वं भविष्यसि
दुश्चर्मा मुक्तकच्छश्च ब्रह्मद्वेष्टा निराकृतिः ॥ २३ ॥

परदाराभिगामी त्वं महाचण्डः प्रलम्पटः
सर्वभक्षश्च दुर्मेधाः सदात्वं च भविष्यसि ॥ २४ ॥

सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः
पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि ॥ २५ ॥

तव पुत्राश्च पौत्राश्च भविष्यन्ति न संशयः
ईदृशाः सर्वपुण्यघ्ना म्लेच्छाः सुकलुषीकृताः ॥ २६ ॥

एवं तुरुं सुशप्त्वैव यदुं पुत्रमथाब्रवीत्
जरां वै धारयस्वेह भुङ्क्ष्व राज्यमकण्टकम् ॥ २७ ॥

बद्धाञ्जलिपुटो भूत्वा यदू राजानमब्रवीत्
यदुरुवाच-
जराभारं न शक्नोमि वोढुं तात कृपां कुरु ॥ २८ ॥

शीतमध्वा कदन्नं च वयोतीताश्च योषितः
मनसः प्रातिकूल्यं च जरायाः पञ्चहेतवः ॥ २९ ॥

जरादुःखं न शक्नोमि नवे वयसि भूपते
कः समर्थो हि वै धर्तुं क्षमस्व त्वं ममाधुना ॥ ३० ॥

यदुं क्रुद्धो महाराजः शशाप द्विजनन्दन
राज्यार्हो न च ते वंशः कदाचिद्वै भविष्यति ॥ ३१ ॥

बलतेजः क्षमाहीनः क्षात्रधर्मविवर्जितः
भविष्यति न सन्देहो मच्छासनपराङ्मुखः ॥ ३२ ॥

निर्दोषोहं महाराज कस्माच्छप्तस्त्वयाधुना
कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव ॥ ३३ ॥

महादेवः कुले ते वै स्वांशेनापि हि पुत्रक
करिष्यति विसृष्टिं च तदा पूतं कुलं तव ॥ ३४ ॥

अहं पुत्रो महाराज निर्दोषः शापितस्त्वया
अनुग्रहो दीयतां मे यदि मे वर्त्तते दया ॥ ३५ ॥

यो भवेज्ज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः
राज्यदायं सुभुङ्क्ते च भारवोढा भवेत्स हि ॥ ३६ ॥

त्वया धर्मं न प्रवृत्तमभाष्योसि न संशयः
भवता नाशिताज्ञा मे महादण्डेन घातिनः ॥ ३७ ॥

तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु
यदुरुवाच-
यस्मान्मे नाशितं राज्यं कुलं रूपं त्वया नृप ॥ ३८ ॥

तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप
तव वंशे भविष्यन्ति नानाभेदास्तु क्षत्त्रियाः ॥ ३९ ॥

तेषां ग्रामान्सुदेशांश्च स्त्रियो रत्नानि यानि वै
भोक्ष्यन्ति च न सन्देहो अतिचण्डा महाबलाः ॥ ४० ॥

मम वंशात्समुत्पन्नास्तुरुष्का म्लेच्छरूपिणः
त्वया ये नाशिताः सर्वे शप्ताः शापैः सुदारुणैः ॥ ४१ ॥

एवं बभाषे राजानं यदुः क्रुद्धो नृपोत्तम
अथ क्रुद्धो महाराजः पुनश्चैवं शशाप ह ॥ ४२ ॥

मत्प्रजानाशकाः सर्वे वंशजास्ते शृणुष्व हि
यावच्चन्द्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः ॥ ४३ ॥

तावन्म्लेच्छाः प्रपक्ष्यन्ते कुम्भीपाके चरौ रवे
कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणम् ॥ ४४ ॥

समाह्वयति तं राजा न सुतं नृपनन्दनम्
शिशुं ज्ञात्वा परित्यक्तः सकुरुस्तेन वै तदा ॥ ४५ ॥

शर्मिष्ठायाः सुतं पुण्यं तं पूरुं जगदीश्वरः
समाहूय बभाषे च जरा मे गृह्यतां पुनः ॥ ४६ ॥

भुङ्क्ष्व राज्यं मया दत्तं सुपुण्यं हतकण्टकम्
पूरुरुवाच-
राज्यं देवे न भोक्तव्यं पित्रा भुक्तं यथा तव ॥ ४७ ॥

त्वदादेशं करिष्यामि जरा मे दीयतां नृप
तारुण्येन ममाद्यैव भूत्वा सुन्दररूपदृक् ॥ ४८ ॥

भुङ्क्ष्व भोगान्सुकर्माणि विषयासक्तचेतसा
यावदिच्छा महाभाग विहरस्व तया सह ॥ ४९ ॥

यावज्जीवाम्यहं तात जरां तावद्धराम्यहम्
एवमुक्तस्तु तेनापि पूरुणा जगतीपतिः ॥ ५० ॥

हर्षेण महताविष्टस्तं पुत्रं प्रत्युवाच सः
यस्माद्वत्स ममाज्ञा वै न हता कृतवानिह ॥ ५१ ॥

तस्मादहं विधास्यामि बहुसौख्यप्रदायकम्
यस्माज्जरागृहीता मे दत्तं तारुण्यकं स्वकम् ॥ ५२ ॥

तेन राज्यं प्रभुङ्क्ष्व त्वं मया दत्तं महामते
एवमुक्तः सुपूरुश्च तेन राज्ञा महीपते ॥ ५३ ॥

तारुण्यन्दत्तवानस्मै जग्राहास्माज्जरां नृप
ततः कृते विनिमये वयसोस्तातपुत्रयोः ॥ ५४ ॥

तस्माद्वृद्धतरः पूरुः सर्वाङ्गेषु व्यदृश्यत
नूतनत्वं गतो राजा यथा षोडशवार्षिकः ॥ ५५ ॥

रूपेण महताविष्टो द्वितीय इव मन्मथः
धनूराज्यं च छत्रं च व्यजनं चासनं गजम् ॥ ५६ ॥

कोशं देशं बलं सर्वं चामरं स्यन्दनं तथा
ददौ तस्य महाराजः पूरोश्चैव महात्मनः ॥ ५७ ॥

कामासक्तश्च धर्मात्मा तां नारीमनुचिन्तयन्
तत्सरः सागरप्रख्यङ्कामाख्यं नहुषात्मजः ॥ ५८ ॥

अश्रुबिन्दुमती यत्र जगाम लघुविक्रमः
तां दृष्ट्वा तु विशालाक्षीं चारुपीनपयोधराम् ॥ ५९ ॥

विशालां च महाराजः कन्दर्पाकृष्टमानसः
राजोवाच-
आगतोऽस्मि महाभागे विशाले चारुलोचने ॥ ६० ॥

जरात्यागःकृतो भद्रे तारुण्येन समन्वितः
युवा भूत्वा समायातो भवत्वेषा ममाधुना ॥ ६१ ॥

यंयं हि वाञ्छते चैषा तन्तं दद्मि न संशयः
विशालोवाच-
यदा भवान्समायातो जरां दुष्टां विहाय च ॥ ६२ ॥

दोषेणैकेनलिप्तोसि भवन्तं नैव मन्यते
राजोवाच-
मम दोषं वदस्व त्वं यदि जानासि निश्चितम् ॥ ६३ ॥

तं तु दोषं परित्यक्ष्येगुणरूपन्नसंशयः ॥ ६४ ॥

इति श्रीपद्मपुराणेभूमिखण्डेवेनोपाख्यानेमातापितृतीर्थवर्णने ययातिचरितेऽष्टसप्ततितमोऽध्यायः ७८