सुकर्मोवाच-
विश्वास-प्रस्तुतिः
कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेन्द्रो नटरूपेण पिप्पल ॥ १ ॥
मूलम्
कामस्य गीतलास्येन हास्येन ललितेन च
मोहितो राजराजेन्द्रो नटरूपेण पिप्पल ॥ १ ॥
विश्वास-प्रस्तुतिः
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् ॥ २ ॥
मूलम्
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः
अकृत्वा पादयोः शौचमासने उपविष्टवान् ॥ २ ॥
विश्वास-प्रस्तुतिः
तदन्तरं तु सम्प्राप्य सञ्चचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इन्द्रकार्यं कृतं हितम् ॥ ३ ॥
मूलम्
तदन्तरं तु सम्प्राप्य सञ्चचार जरा नृपम्
कामेनापि नृपश्रेष्ठ इन्द्रकार्यं कृतं हितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ ॥
मूलम्
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ ॥
विश्वास-प्रस्तुतिः
मोहितः काममोहेन विह्वलो विकलेन्द्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥ ५ ॥
मूलम्
मोहितः काममोहेन विह्वलो विकलेन्द्रियः
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥ ५ ॥
विश्वास-प्रस्तुतिः
एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ॥ ६ ॥
मूलम्
एकदा तु गतो राजा मृगया व्यसनातुरः
वने च क्रीडते सोपि मोहरागवशं गतः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृङ्गो ह्यनौपमः ॥ ७ ॥
मूलम्
सरसं क्रीडमानस्य नृपतेश्च महात्मनः
मृगश्चैकः समायातश्चतुःशृङ्गो ह्यनौपमः ॥ ७ ॥
विश्वास-प्रस्तुतिः
सर्वाङ्गसुन्दरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्राङ्गो दर्शनीयो मनोहरः ॥ ८ ॥
मूलम्
सर्वाङ्गसुन्दरो राजन्हेमरूपतनूरुहः
रत्नज्योतिः सुचित्राङ्गो दर्शनीयो मनोहरः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥ ९ ॥
मूलम्
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥ ९ ॥
विश्वास-प्रस्तुतिः
मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः ॥ १० ॥
मूलम्
मृगेण च स तेनापि दूरमाकर्षितो नृपः
गतः सरथवेगेन श्रमेण परिखेदितः ॥ १० ॥
विश्वास-प्रस्तुतिः
वीक्षमाणस्य तस्यापि मृगश्चान्तरधीयत
स पश्यति वनं तत्र नन्दन्नोपममद्भुतम् ॥ ११ ॥
मूलम्
वीक्षमाणस्य तस्यापि मृगश्चान्तरधीयत
स पश्यति वनं तत्र नन्दन्नोपममद्भुतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
चारुवृक्षसमाकीर्णं भूतपञ्चकशोभितम्
गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः ॥ १२ ॥
मूलम्
चारुवृक्षसमाकीर्णं भूतपञ्चकशोभितम्
गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः ॥ १२ ॥
विश्वास-प्रस्तुतिः
बकुलाशोकपुन्नागैर्नालिकेरैश्च तिन्दुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥ १३ ॥
मूलम्
बकुलाशोकपुन्नागैर्नालिकेरैश्च तिन्दुकैः
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥ १३ ॥
विश्वास-प्रस्तुतिः
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥ १४ ॥
मूलम्
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥ १४ ॥
विश्वास-प्रस्तुतिः
वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन सम्पूर्णं विस्तीर्णं पञ्चयोजनम् ॥ १५ ॥
मूलम्
वीक्षमाणो महाराज ददर्श सर उत्तमम्
पुण्योदकेन सम्पूर्णं विस्तीर्णं पञ्चयोजनम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
हंसकारण्डवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ ॥
मूलम्
हंसकारण्डवाकीर्णं जलपक्षिविनादितम्
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥ १७ ॥
मूलम्
रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम्
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ ॥
मूलम्
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
पञ्चयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम् ॥ १९ ॥
मूलम्
पञ्चयोजनविस्तीर्णं दशयोजनदीर्घकम्
तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
रथवेगेन सङ्खिन्नः किञ्चिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥ २० ॥
मूलम्
रथवेगेन सङ्खिन्नः किञ्चिच्छ्रमनिपीडितः
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥ २० ॥
विश्वास-प्रस्तुतिः
स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ ॥
मूलम्
स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम्
सर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ ॥
विश्वास-प्रस्तुतिः
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥ २२ ॥
मूलम्
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता
गीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥ २२ ॥
विश्वास-प्रस्तुतिः
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिन्तां परां गतः ॥ २३ ॥
मूलम्
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः
गीतप्रियो महाराज एव चिन्तां परां गतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
चिन्ताकुलस्तु धर्मात्मा यावच्चिन्तयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥ २४ ॥
मूलम्
चिन्ताकुलस्तु धर्मात्मा यावच्चिन्तयते क्षणम्
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥ २४ ॥
विश्वास-प्रस्तुतिः
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभाङ्गी शीललक्षणसम्पदा ॥ २५ ॥
मूलम्
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता
सर्वाभरणशोभाङ्गी शीललक्षणसम्पदा ॥ २५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि ॥ २६ ॥
मूलम्
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता
तामुवाच महाराजः का हि कस्य भविष्यसि ॥ २६ ॥
विश्वास-प्रस्तुतिः
किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किञ्चिदपि पिप्पल ॥ २७ ॥
मूलम्
किमर्थं हि समायाता तन्मे त्वं कारणं वद
पृष्टा सती तदा तेन न किञ्चिदपि पिप्पल ॥ २७ ॥
विश्वास-प्रस्तुतिः
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादण्डकराऽबला ॥ २८ ॥
मूलम्
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना
प्रहस्यैव गता शीघ्रं वीणादण्डकराऽबला ॥ २८ ॥
विश्वास-प्रस्तुतिः
विस्मयेनापि राजेन्द्रो महता व्यापितस्तदा
मया सम्भाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥ २९ ॥
मूलम्
विस्मयेनापि राजेन्द्रो महता व्यापितस्तदा
मया सम्भाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
पुनश्चिन्तां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृङ्गः सुवर्णकः ॥ ३० ॥
मूलम्
पुनश्चिन्तां समापेदे ययातिः पृथिवीपतिः
यो वै मृगो मया दृष्टश्चतुःशृङ्गः सुवर्णकः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ॥ ३१ ॥
मूलम्
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे
मायारूपमिदं सत्यं दानवानां भविष्यति ॥ ३१ ॥
विश्वास-प्रस्तुतिः
चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिन्तयते राजा तावन्नारी महावने ॥ ३२ ॥
मूलम्
चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः
यावच्चिन्तयते राजा तावन्नारी महावने ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अन्तर्धानं गता विप्र प्रहस्य नृपनन्दनम्
एतस्मिन्नन्तरे गीतं सुस्वरं पुनरेव तत् ॥ ३३ ॥
मूलम्
अन्तर्धानं गता विप्र प्रहस्य नृपनन्दनम्
एतस्मिन्नन्तरे गीतं सुस्वरं पुनरेव तत् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥ ३४ ॥
मूलम्
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
जलान्ते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ॥ ३५ ॥
मूलम्
जलान्ते पुष्करं चैव सहस्रदलमुत्तमम्
तस्योपरि वरा नारी शीलरूपगुणान्विता ॥ ३५ ॥
विश्वास-प्रस्तुतिः
दिव्यलक्षणसम्पन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादण्डकराविला ॥ ३६ ॥
मूलम्
दिव्यलक्षणसम्पन्ना दिव्याभरणभूषिता
दिव्यैर्भावैः प्रभात्येका वीणादण्डकराविला ॥ ३६ ॥
विश्वास-प्रस्तुतिः
गायन्ती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयन्ती चराचरान् ॥ ३७ ॥
मूलम्
गायन्ती सुस्वरं गीतं तालमानलयान्वितम्
तेन गीतप्रभावेण मोहयन्ती चराचरान् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥ ३८ ॥
मूलम्
देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान्
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥ ३९ ॥
मूलम्
संसारे नास्ति चैवान्या नारीदृशी चराचरे
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
सञ्चारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्सम्प्रजायते ॥ ४० ॥
मूलम्
सञ्चारितो महाकामस्तदासौ प्रकटोभवत्
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्सम्प्रजायते ॥ ४० ॥
विश्वास-प्रस्तुतिः
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥ ४१ ॥
मूलम्
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः ॥ ४२ ॥
मूलम्
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी
चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ॥ ४३ ॥
मूलम्
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा
कामाग्निना दह्यमानः कामज्वरेणपीडितः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ॥ ४४ ॥
मूलम्
कथं स्यान्मम चैवेयं कथं भावो भविष्यति
यदा मां गूहते बाला पद्मास्या पद्मलोचना ॥ ४४ ॥
विश्वास-प्रस्तुतिः
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः ॥ ४५ ॥
मूलम्
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्
एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥ ४६ ॥
मूलम्
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥ ४६ ॥
विश्वास-प्रस्तुतिः
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥ ४७ ॥
मूलम्
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥ ४८ ॥
मूलम्
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तव सङ्गमने चेतो भावमेवं प्रवाञ्छते
देहि मे सङ्गमं भद्रे कुरु सुप्रियमेव हि ॥ ४९ ॥
मूलम्
तव सङ्गमने चेतो भावमेवं प्रवाञ्छते
देहि मे सङ्गमं भद्रे कुरु सुप्रियमेव हि ॥ ४९ ॥
विश्वास-प्रस्तुतिः
यं यं हि वाञ्छसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥ ५० ॥
मूलम्
यं यं हि वाञ्छसे भद्रे तद्ददामि न संशयः
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥ ५० ॥
विश्वास-प्रस्तुतिः
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥ ५१ ॥
मूलम्
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
सङ्गमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥ ५२ ॥
मूलम्
सङ्गमे तव दास्यामि त्रैलोक्यमिदमेव ते
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥ ५२ ॥
विश्वास-प्रस्तुतिः
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥ ५३ ॥
मूलम्
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥ ५३ ॥
विश्वास-प्रस्तुतिः
ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वाञ्छितं ज्ञात्वा विशाला भूपतिं तदा ॥ ५४ ॥
मूलम्
ममापि भावमेकाग्रमस्याग्रे च निवेदय
तस्याश्च वाञ्छितं ज्ञात्वा विशाला भूपतिं तदा ॥ ५४ ॥
विश्वास-प्रस्तुतिः
उवाच मधुरालापैः श्रूयतां नृपनन्दन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शम्भुना ॥ ५५ ॥
मूलम्
उवाच मधुरालापैः श्रूयतां नृपनन्दन
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शम्भुना ॥ ५५ ॥
विश्वास-प्रस्तुतिः
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेन्द्र सा रतिर्न्यवसत्तदा ॥ ५६ ॥
मूलम्
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्
अस्मिन्सरसि राजेन्द्र सा रतिर्न्यवसत्तदा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥ ५७ ॥
मूलम्
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्
समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सञ्जाता राजराजेन्द्र शङ्करं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ॥ ५८ ॥
मूलम्
सञ्जाता राजराजेन्द्र शङ्करं वाक्यमब्रुवन्
जीवयस्व महादेव पुनरेव मनोभवम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥ ५९ ॥
मूलम्
वराकीयं महाभाग भर्तृहीना हि कीदृशी
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥ ५९ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पञ्चबाणो मनोभवः ॥ ६० ॥
मूलम्
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्
कायेनापि विहीनोयं पञ्चबाणो मनोभवः ॥ ६० ॥
विश्वास-प्रस्तुतिः
भविष्यति न सन्देहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥ ६१ ॥
मूलम्
भविष्यति न सन्देहो माधवस्य सखा पुनः
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनन्द्यैवं देव्याः कामं नरोत्तम ॥ ६२ ॥
मूलम्
महादेवप्रसादाच्च मीनकेतुः स जीवितः
आशीर्भिरभिनन्द्यैवं देव्याः कामं नरोत्तम ॥ ६२ ॥
विश्वास-प्रस्तुतिः
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ॥ ६३ ॥
मूलम्
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः
एवमाह महातेजाः स्थितिसंहारकारकः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥ ६४ ॥
मूलम्
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥ ६४ ॥
विश्वास-प्रस्तुतिः
दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥ ६५ ॥
मूलम्
दग्धे सति महाभागे मन्मथे दुःखधर्षिता
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥ ६५ ॥
विश्वास-प्रस्तुतिः
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥ ६६ ॥
मूलम्
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥ ६६ ॥
विश्वास-प्रस्तुतिः
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिन्दवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥ ६७ ॥
मूलम्
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिन्दवः
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥ ६८ ॥
मूलम्
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥ ६८ ॥
विश्वास-प्रस्तुतिः
दुःखसन्तापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥ ६९ ॥
मूलम्
दुःखसन्तापकौ चोभौ जज्ञाते दारुणौ तदा
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥ ६९ ॥
विश्वास-प्रस्तुतिः
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥ ७० ॥
मूलम्
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥ ७० ॥
विश्वास-प्रस्तुतिः
तस्याश्च अश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापाङ्गधारिणः ॥ ७१ ॥
मूलम्
तस्याश्च अश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापाङ्गधारिणः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
मूर्तिमन्तो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ॥ ७२ ॥
मूलम्
मूर्तिमन्तो महाराज सद्भावगुणसंयुताः
काम एष समायातः केनाप्युक्तं तदा नृप ॥ ७२ ॥
विश्वास-प्रस्तुतिः
महानन्देन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥ ७३ ॥
मूलम्
महानन्देन संयुक्ता दृष्ट्वा कामं समागतम्
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥ ७४ ॥
मूलम्
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तेभ्यो जज्ञे महानन्द शान्तिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसम्भोगदायिके ॥ ७५ ॥
मूलम्
तेभ्यो जज्ञे महानन्द शान्तिश्चान्या नृपोत्तम
जज्ञाते द्वे शुभे कन्ये सुखसम्भोगदायिके ॥ ७५ ॥
विश्वास-प्रस्तुतिः
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनन्दादश्रुबिन्दवः ॥ ७६ ॥
मूलम्
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप
रत्यास्तु वामनेत्राद्वै आनन्दादश्रुबिन्दवः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
जलान्ते पतिता राजंस्तस्माज्जज्ञे सुपङ्कजम्
तस्मात्सुपङ्कजाज्जाता इयं नारी वरानना ॥ ७७ ॥
मूलम्
जलान्ते पतिता राजंस्तस्माज्जज्ञे सुपङ्कजम्
तस्मात्सुपङ्कजाज्जाता इयं नारी वरानना ॥ ७७ ॥
विश्वास-प्रस्तुतिः
अश्रुबिन्दुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥ ७८ ॥
मूलम्
अश्रुबिन्दुमती नाम रतिपुत्री नरोत्तम
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥ ७८ ॥
विश्वास-प्रस्तुतिः
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥ ७९ ॥
मूलम्
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥ ७९ ॥
विश्वास-प्रस्तुतिः
अस्याश्चान्ते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥ ८० ॥
मूलम्
अस्याश्चान्ते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥ ८० ॥
विश्वास-प्रस्तुतिः
तपश्चचार राजेन्द्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥ ८१ ॥
मूलम्
तपश्चचार राजेन्द्र पतिकामा वरानना
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥ ८१ ॥
विश्वास-प्रस्तुतिः
मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वाञ्छते बाला तत्सर्वं तु ददाम्यहम् ॥ ८२ ॥
मूलम्
मामेवं हि भजत्वेषा रतिपुत्री वरानना
यमेषा वाञ्छते बाला तत्सर्वं तु ददाम्यहम् ॥ ८२ ॥
विश्वास-प्रस्तुतिः
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥ ८३ ॥
मूलम्
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥ ८३ ॥
विश्वास-प्रस्तुतिः
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ॥ ८४ ॥
मूलम्
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्
देवराजसमं राजन्धर्माचारसमन्वितम् ॥ ८४ ॥
विश्वास-प्रस्तुतिः
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥ ८५ ॥
मूलम्
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
लोक इन्द्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥ ८६ ॥
मूलम्
लोक इन्द्रसमं राजन्सुयज्ञैर्धर्मतत्परम्
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥ ८७ ॥
मूलम्
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥ ८७ ॥
विश्वास-प्रस्तुतिः
एवङ्गुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कान्तं मनसा वरमीप्सति ॥ ८८ ॥
मूलम्
एवङ्गुणैः समुपेतं त्रैलोक्येन प्रपूजितम्
सुमतिं सुप्रियं कान्तं मनसा वरमीप्सति ॥ ८८ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥ ८९ ॥
मूलम्
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम्
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥ ८९ ॥
विश्वास-प्रस्तुतिः
विशालोवाच-
भवन्तं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः सन्ति ते त्वयि ॥ ९० ॥
मूलम्
विशालोवाच-
भवन्तं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः सन्ति ते त्वयि ॥ ९० ॥
विश्वास-प्रस्तुतिः
एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ॥ ९१ ॥
मूलम्
एकेनापि च दोषेण त्वामेषा हि न मन्यते
एष मे संशयो जातो भवान्विष्णुमयो नृप ॥ ९१ ॥
विश्वास-प्रस्तुतिः
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वाङ्गी प्रसादसुमुखी भव ॥ ९२ ॥
मूलम्
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते
तत्त्वेन चारुसर्वाङ्गी प्रसादसुमुखी भव ॥ ९२ ॥
विश्वास-प्रस्तुतिः
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥ ९३ ॥
मूलम्
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥ ९३ ॥
विश्वास-प्रस्तुतिः
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥ ९४ ॥
मूलम्
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममाङ्गे वै तं न जाने जरागमम् ॥ ९५ ॥
मूलम्
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा
समुद्भूतं ममाङ्गे वै तं न जाने जरागमम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
यं यं हि वाञ्छते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥ ९६ ॥
मूलम्
यं यं हि वाञ्छते चैषा त्रैलोक्ये दुर्लभं शुभे
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥ ९७ ॥
मूलम्
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥ ९७ ॥
विश्वास-प्रस्तुतिः
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा सङ्क्राम्यते यस्य तस्याङ्गे परिसञ्चरेत् ॥ ९८ ॥
मूलम्
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके
जरा सङ्क्राम्यते यस्य तस्याङ्गे परिसञ्चरेत् ॥ ९८ ॥
विश्वास-प्रस्तुतिः
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥ ९९ ॥
मूलम्
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥ ९९ ॥
यथात्मदानपुण्यस्य कृपया यो ददाति च
फलं राजन्हि तत्तस्य जायते नात्र संशयः १००
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च
प्रगृह्यैव समागच्छ सुन्दरत्वेन भूपते १०२
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते
एवमाभाष्य सा भूपं विशाला विरराम ह १०३
सुकर्मोवाच-
एवमाकर्ण्य राजेन्द्रो विशालामवदत्तदा
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव १०४
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे सप्तसप्ततितमोऽध्यायः ७७