सुकर्मोवाच-
विश्वास-प्रस्तुतिः
सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः
द्रष्टुं तत्र सहस्राक्षं देववृन्दैः समावृतम् ॥ १ ॥
मूलम्
सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः
द्रष्टुं तत्र सहस्राक्षं देववृन्दैः समावृतम् ॥ १ ॥
विश्वास-प्रस्तुतिः
धर्मराजं समायान्तं ददर्श सुरराट्तदा
समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् ॥ २ ॥
मूलम्
धर्मराजं समायान्तं ददर्श सुरराट्तदा
समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् ॥ २ ॥
विश्वास-प्रस्तुतिः
पप्रच्छागमनं तस्य कथयस्व ममाग्रतः
समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ॥ ३ ॥
मूलम्
पप्रच्छागमनं तस्य कथयस्व ममाग्रतः
समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत्
धर्मराज उवाच-
श्रूयतां देवदेवेश यस्मादागमनं मम ॥ ४ ॥
मूलम्
धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत्
धर्मराज उवाच-
श्रूयतां देवदेवेश यस्मादागमनं मम ॥ ४ ॥
विश्वास-प्रस्तुतिः
कथयाम्यहमत्रापि येनाहमागतस्तव
नहुषस्यात्मजेनापि वैष्णवेन महात्मना ॥ ५ ॥
मूलम्
कथयाम्यहमत्रापि येनाहमागतस्तव
नहुषस्यात्मजेनापि वैष्णवेन महात्मना ॥ ५ ॥
विश्वास-प्रस्तुतिः
वैष्णवाश्च कृता मर्त्या ये वसन्ति महीतले
वैकुण्ठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ॥ ६ ॥
मूलम्
वैष्णवाश्च कृता मर्त्या ये वसन्ति महीतले
वैकुण्ठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
अमरा मानवा जाता जरारोगविवर्जिताः
पापमेव न कुर्वन्ति असत्यं न वदन्ति ते ॥ ७ ॥
मूलम्
अमरा मानवा जाता जरारोगविवर्जिताः
पापमेव न कुर्वन्ति असत्यं न वदन्ति ते ॥ ७ ॥
विश्वास-प्रस्तुतिः
कामक्रोधविहीनास्ते लोभमोहविवर्जिताः
दानशीला महात्मानः सर्वे धर्मपरायणाः ॥ ८ ॥
मूलम्
कामक्रोधविहीनास्ते लोभमोहविवर्जिताः
दानशीला महात्मानः सर्वे धर्मपरायणाः ॥ ८ ॥
विश्वास-प्रस्तुतिः
सर्वधर्मैः समर्चन्ति नारायणमनामयम्
तेन वैष्णवधर्मेण मानवा जगतीतले ॥ ९ ॥
मूलम्
सर्वधर्मैः समर्चन्ति नारायणमनामयम्
तेन वैष्णवधर्मेण मानवा जगतीतले ॥ ९ ॥
विश्वास-प्रस्तुतिः
निरामया वीतशोकाः सर्वे च स्थिरयौवनाः
दूर्वा वटा यथा देव विस्तारं यान्ति भूतले ॥ १० ॥
मूलम्
निरामया वीतशोकाः सर्वे च स्थिरयौवनाः
दूर्वा वटा यथा देव विस्तारं यान्ति भूतले ॥ १० ॥
विश्वास-प्रस्तुतिः
तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः
तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशान्तरं गताः ॥ ११ ॥
मूलम्
तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः
तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशान्तरं गताः ॥ ११ ॥
विश्वास-प्रस्तुतिः
एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः
मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै ॥ १२ ॥
मूलम्
एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः
मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै ॥ १२ ॥
विश्वास-प्रस्तुतिः
पदभ्रष्टोस्मि सञ्जातो व्यापारेण विवर्जितः
एतत्सर्वं समाख्यातं मम कर्मविनाशनम् ॥ १३ ॥
मूलम्
पदभ्रष्टोस्मि सञ्जातो व्यापारेण विवर्जितः
एतत्सर्वं समाख्यातं मम कर्मविनाशनम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु
एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया ॥ १४ ॥
मूलम्
एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु
एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया ॥ १४ ॥
विश्वास-प्रस्तुतिः
एतस्मात्कारणादिन्द्र आगतस्तव सन्निधौ
इन्द्र उवाच-
पूर्वमेव मया दूत आगमाय महात्मनः ॥ १५ ॥
मूलम्
एतस्मात्कारणादिन्द्र आगतस्तव सन्निधौ
इन्द्र उवाच-
पूर्वमेव मया दूत आगमाय महात्मनः ॥ १५ ॥
विश्वास-प्रस्तुतिः
प्रेषितो धर्मराजेन्द्र दूतेनास्यापि भाषितम्
नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः ॥ १६ ॥
मूलम्
प्रेषितो धर्मराजेन्द्र दूतेनास्यापि भाषितम्
नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमण्डलम्
इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः ॥ १७ ॥
मूलम्
स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमण्डलम्
इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः ॥ १७ ॥
विश्वास-प्रस्तुतिः
तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा
धर्म उवाच-
येनकेनाप्युपायेन तमानय सुभूपतिम् ॥ १८ ॥
मूलम्
तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा
धर्म उवाच-
येनकेनाप्युपायेन तमानय सुभूपतिम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
देवराज महाभाग यदीच्छसि मम प्रियम्
इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः ॥ १९ ॥
मूलम्
देवराज महाभाग यदीच्छसि मम प्रियम्
इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः ॥ १९ ॥
विश्वास-प्रस्तुतिः
चिन्तयामास मेधावी सर्वतत्वेन भूपते
कामदेवं समाहूय गन्धर्वांश्च पुरन्दरः ॥ २० ॥
मूलम्
चिन्तयामास मेधावी सर्वतत्वेन भूपते
कामदेवं समाहूय गन्धर्वांश्च पुरन्दरः ॥ २० ॥
विश्वास-प्रस्तुतिः
मकरन्दं रतिं देव आनिनाय महामनाः
तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः ॥ २१ ॥
मूलम्
मकरन्दं रतिं देव आनिनाय महामनाः
तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयः
काम उवाच-
युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः ॥ २२ ॥
मूलम्
यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयः
काम उवाच-
युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः ॥ २२ ॥
विश्वास-प्रस्तुतिः
राजानं पश्य मां चैव स्थितं चैव समा युधि
तथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः ॥ २३ ॥
मूलम्
राजानं पश्य मां चैव स्थितं चैव समा युधि
तथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः ॥ २३ ॥
विश्वास-प्रस्तुतिः
नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विज
आशीर्भिरभिनन्द्यैव ते च ऊचुः सुनाटकम् ॥ २४ ॥
मूलम्
नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विज
आशीर्भिरभिनन्द्यैव ते च ऊचुः सुनाटकम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः
सभां चकार मेधावी देवरूपां सुपण्डितैः ॥ २५ ॥
मूलम्
तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः
सभां चकार मेधावी देवरूपां सुपण्डितैः ॥ २५ ॥
विश्वास-प्रस्तुतिः
समायातः स्वयं भूपो ज्ञानविज्ञानकोविदः
तेषां तु नाटकं राजा पश्यमानः स नाहुषिः ॥ २६ ॥
मूलम्
समायातः स्वयं भूपो ज्ञानविज्ञानकोविदः
तेषां तु नाटकं राजा पश्यमानः स नाहुषिः ॥ २६ ॥
विश्वास-प्रस्तुतिः
चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः
रूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् ॥ २७ ॥
मूलम्
चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः
रूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
गायमाना जरा राजन्नार्यारूपेण वै तदा
तस्या गीतविलासेन हास्येन ललितेन च ॥ २८ ॥
मूलम्
गायमाना जरा राजन्नार्यारूपेण वै तदा
तस्या गीतविलासेन हास्येन ललितेन च ॥ २८ ॥
विश्वास-प्रस्तुतिः
मधुरालापतस्तस्य कन्दर्पस्य च मायया
मोहितस्तेन भावेन दिव्येन चरितेन च ॥ २९ ॥
मूलम्
मधुरालापतस्तस्य कन्दर्पस्य च मायया
मोहितस्तेन भावेन दिव्येन चरितेन च ॥ २९ ॥
विश्वास-प्रस्तुतिः
बलेश्चैव यथारूपं विन्ध्यावल्या यथा पुरा
वामनस्य यथारूपं चक्रे मारोथ तादृशम् ॥ ३० ॥
मूलम्
बलेश्चैव यथारूपं विन्ध्यावल्या यथा पुरा
वामनस्य यथारूपं चक्रे मारोथ तादृशम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
सूत्रधारः स्वयं कामो वसन्तः पारिपार्श्वकः
नटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ॥ ३१ ॥
मूलम्
सूत्रधारः स्वयं कामो वसन्तः पारिपार्श्वकः
नटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नेपथ्यान्तश्चरी राजन्सा तस्मिन्नृत्यकर्मणि
मकरन्दो महाप्राज्ञः क्षोभयामास भूपतिम् ॥ ३२ ॥
मूलम्
नेपथ्यान्तश्चरी राजन्सा तस्मिन्नृत्यकर्मणि
मकरन्दो महाप्राज्ञः क्षोभयामास भूपतिम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशः
तथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ॥ ३३ ॥
मूलम्
यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशः
तथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ॥ ३३ ॥
इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थे ययातिचरित्रे षट्सप्ततितमोऽध्यायः ७६