सुकर्मोवाच-
विश्वास-प्रस्तुतिः
विष्णुं कृष्णं हरिं रामं मुकुन्दं मधुसूदनम्
नारायणं विष्णुरूपं नारसिंहं तमच्युतम् ॥ १ ॥
मूलम्

केशवं पद्मनाभं च वासुदेवं च वामनम्
वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम् ॥ २ ॥

विश्वेशं विश्वरूपं च अनन्तमनघं शुचिम्
पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ॥ ३ ॥

श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम्
इत्येवं हि समुच्चारं नामभिर्मानवाः सदा ॥ ४ ॥

प्रकुर्वन्ति नराः सर्वे बालवृद्धाः कुमारिकाः
स्त्रियो हरिं सुगायन्ति गृहकर्मरताः सदा ॥ ५ ॥

आसने शयने याने ध्याने वचसि माधवम्
क्रीडमानास्तथा बाला गोविन्दं प्रणमन्ति ते ॥ ६ ॥

दिवारात्रौ सुमधुरं ब्रुवन्ति हरिनाम च
विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम ॥ ७ ॥

वैष्णवेन प्रभावेण मर्त्या वर्तन्ति भूतले
प्रासादकलशाग्रेषु देवतायतनेषु च ॥ ८ ॥

यथा सूर्यस्य बिम्बानि तथा चक्राणि भान्ति च
वैकुण्ठे दृश्यते भावस्तद्भावं जगतीतले ॥ ९ ॥

तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना
विष्णुलोकस्य समतां तथानीतं महीतलम् ॥ १० ॥

नहुषस्यापि पुत्रेण वैष्णवेन ययातिना
उभयोर्लोकयोर्भावमेकीभूतं महीतलम् ॥ ११ ॥
मूलम्
नहुषस्यापि पुत्रेण वैष्णवेन ययातिना
उभयोर्लोकयोर्भावमेकीभूतं महीतलम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
भूतलस्यापि विष्णोश्च अन्तरं नैव दृश्यते
विष्णूच्चारं तु वैकुण्ठे यथा कुर्वन्ति वैष्णवाः ॥ १२ ॥

भूतले तादृशोच्चारं प्रकुर्वन्ति च मानवाः
उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते ॥ १३ ॥

जरारोगभयं नास्ति मृत्युहीना नरा बभुः
दानभोगप्रभावश्च अधिको दृश्यते भुवि ॥ १४ ॥

पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः
प्रभुञ्जन्ति सुखेनापि मानवा भुवि सत्तम ॥ १५ ॥

विष्णोः प्रसाददानेन उपदेशेन तस्य च
सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा ॥ १६ ॥

स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले
पञ्चविंशप्रमाणेन वर्षाणि नृपसत्तम ॥ १७ ॥

गदैर्हीना नराः सर्वे ज्ञानध्यानपरायणाः
यज्ञदानपराः सर्वे दयाभावाश्च मानवाः ॥ १८ ॥

उपकाररताः पुण्या धन्यास्ते कीर्तिभाजनाः
सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः ॥ १९ ॥

राज्ञा तेनोपदिष्टास्ते सञ्जाता वैष्णवा भुवि
विष्णुरुवाच-
श्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः ॥ २० ॥

सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः
अब्दानां तत्र लक्षं हि तस्याप्येवं गतं भुवि ॥ २१ ॥

नूतनो दृश्यते कायः पञ्चविंशाब्दिको यथा
पञ्चविंशाब्दिको भाति रूपेण वयसा तदा ॥ २२ ॥

प्रबलः प्रौढिसम्पन्नः प्रसादात्तस्य चक्रिणः
मानुषा भुवमास्थाय यमं नैव प्रयान्ति ते ॥ २३ ॥

रागद्वेषविनिर्मुक्ताः क्लेशपाशविवर्जिताः
सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः ॥ २४ ॥

विस्तारं तेजनाः सर्वे सन्तत्यापि गता नृप
यथा दूर्वावटाश्चैव विस्तारं यान्ति भूतले ॥ २५ ॥

यथा ते मानवाः सर्वे पुत्रपौत्रैः प्रविस्तृताः
मृत्युदोषविहीनास्ते चिरं जीवन्ति वै जनाः ॥ २६ ॥

स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः
पञ्चविंशाब्दिकाः सर्वे नरा दृश्यन्ति भूतले ॥ २७ ॥

सत्याचारपराः सर्वे विष्णुध्यानपरायणाः
एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः ॥ २८ ॥

सञ्जाता मानवाः सर्वे दानभोगपरायणाः
मृतो न श्रूयते लोके मर्त्यः कोपि नरोत्तम ॥ २९ ॥

शोकं नैव प्रपश्यन्ति दोषं नैव प्रयान्ति ते
यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च ॥ ३० ॥

सञ्जातं मानवश्रेष्ठ प्रसादात्तस्य चक्रिणः
विभ्रष्टा यमदूतास्ते विष्णुदूतैश्च ताडिताः ॥ ३१ ॥

रुदमाना गताः सर्वे धर्मराजं परस्परम्
तत्सर्वं कथितं दूतैश्चेष्टितं भूपतेस्तु तैः ॥ ३२ ॥

अमृत्युभूतलं जातं दानभोगेन भास्करे
नहुषस्यात्मजेनापि कृतं देवययातिना ॥ ३३ ॥

विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम्
एवमाकर्णितं सर्वं धर्मराजेन वै तदा ॥ ३४ ॥

धर्मराजस्तदा तत्र दूतेभ्यः श्रुतविस्तरः
चिन्तयामास सर्वार्थं श्रुत्वैवन्नृपचेष्टितम् ॥ ३५ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे पञ्चसप्ततितमोऽध्यायः ७५