०७४

सुकर्मोवाच-

विश्वास-प्रस्तुतिः

दूतास्तु ग्रामेषु वदन्ति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु
लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयन्तु ॥ १ ॥

मूलम्

दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः
ध्यायन्तु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य ॥ २ ॥

एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः
तदाप्रभृत्येव यजन्ति विष्णुं ध्यायन्ति गायन्ति जपन्ति मर्त्याः ॥ ३ ॥

वेदप्रणीतैश्च सुसूक्तमन्त्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः
श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ॥ ४ ॥

विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः
लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयन्ति ॥ ५ ॥

इत्याज्ञातस्य भूपस्य वर्तते क्षितिमण्डले
वैष्णवेनापि भावेन जनाः सर्वे जयन्ति ते ॥ ६ ॥

नामभिः कर्मभिर्विष्णुं यजन्ते ज्ञानकोविदाः
तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ॥ ७ ॥

यावद्भूमण्डलं सर्वं यावत्तपति भास्करः
तावद्धि मानवा लोकाः सर्वे भागवता बभुः ॥ ८ ॥

विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः
आधिव्याधिविहीनास्ते सञ्जाता मानवास्तदा ॥ ९ ॥

वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः
सञ्जाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः ॥ १० ॥

आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः
सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ॥ ११ ॥

प्रसादात्तस्य देवस्य सञ्जाता मानवास्तदा
अमराः निर्जराः सर्वे धनधान्यसमन्विताः ॥ १२ ॥

मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलङ्कृताः
तेषामेव महाभाग गृहद्वारेषु नित्यदा ॥ १३ ॥

कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः
सर्वकामदुघा गावः सचिन्तामणयस्तथा ॥ १४ ॥

सन्ति तेषां गृहे पुण्याः सर्वकामप्रदायकाः
अमरा मानवा जाताः पुत्रपौत्रैरलङ्कृताः ॥ १५ ॥

सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः
सर्वसौभाग्यसम्पन्नाः पुण्यमङ्गलसंयुताः ॥ १६ ॥

सुपुण्या दानसम्पन्ना ज्ञानध्यानपरायणाः
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ॥ १७ ॥

तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा
वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः ॥ १८ ॥

तद्ध्यानास्तद्गताः सर्वे सञ्जाता भावतत्पराः
तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम ॥ १९ ॥

पताकाभिः सुशुक्लाभिः शङ्खयुक्तानि तानि वै
गदाङ्कितध्वजाभिश्च नित्यं चक्राङ्कितानि च ॥ २० ॥

पद्माङ्कितानि भासन्ते विमानप्रतिमानि च
गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः ॥ २१ ॥

सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः
वनानि सन्ति दिव्यानि शाद्वलानि शुभानि च ॥ २२ ॥

तुलस्या च द्विजश्रेष्ठ तेषु केशवमन्दिरैः
भासन्ते पुण्यदिव्यानि गृहाणि प्राणिनां सदा ॥ २३ ॥

सर्वत्र वैष्णवो भावो मङ्गलो बहु दृश्यते
शङ्खशब्दाश्च भूलोके मिथः स्फोटरवैः सखे ॥ २४ ॥

श्रूयन्ते तत्र विप्रेन्द्र दोषपापविनाशकाः
शङ्खस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु ॥ २५ ॥

विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम
गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः ॥ २६ ॥

गायन्ति केशवं लोका विष्णुध्यानपरायणाः ॥ २७ ॥

हरिं मुरारिं प्रवदन्ति केशवं प्रीत्या जितं माधवमेव चान्ये
श्रीनारसिंहं कमलेक्षणं तं गोविन्दमेकं कमलापतिं च ॥ २८ ॥

कृष्णं शरण्यं शरणं जपन्ति रामं च जप्यैः परिपूजयन्ति
दण्डप्रणामैः प्रणमन्ति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते ॥ २९ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे चतुःसप्ततितमोऽध्यायः ७४