पिप्पल उवाच-
विश्वास-प्रस्तुतिः
गते तस्मिन्महाभागे दूत इन्द्रस्य वै पुनः
किं चकार स धर्मात्मा ययातिर्नहुषात्मजः ॥ १ ॥
मूलम्

सुकर्मोवाच-
तस्मिन्गते देववरस्य दूते स चिन्तयामास नरेन्द्रसूनुः
आहूय दूतान्प्रवरान्स सत्वरं धर्मार्थयुक्तं वच आदिदेश ॥ २ ॥

गच्छन्तु दूताः प्रवराः पुरोत्तमे देशेषु द्वीपेष्वखिलेषु लोके
कुर्वन्तु वाक्यं मम धर्मयुक्तं व्रजन्तु लोकाः सुपथा हरेश्च ॥ ३ ॥

भावैः सुपुण्यैरमृतोपमानैर्ध्यानैश्च ज्ञानैर्यजनैस्तपोभिः
यज्ञैश्च दानैर्मधुसूदनैकमर्चन्तु लोका विषयान्विहाय ॥ ४ ॥

सर्वत्र पश्यन्त्वसुरारिमेकं शुष्केषु चार्द्रेष्वपि स्थावरेषु
अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेष्वपि जीवरूपम् ॥ ५ ॥

देवं तमुद्दिश्य ददन्तु दानमातिथ्यभावैः परिपैत्रिकैश्च
नारायणं देववरं यजध्वं दोषैर्विमुक्ता अचिराद्भविष्यथ ॥ ६ ॥

यो मामकं वाक्यमिहैव मानवो लोभाद्विमोहादपि नैव कारयेत्
स शास्यतां यास्यति निर्घृणो ध्रुवं ममापि चौरो हि यथा निकृष्टः ॥ ७ ॥

आकर्ण्य वाक्यं नृपतेश्च दूताःसंहृष्टभावाः सकलां च पृथ्वीम्
आचख्युरेवं नृपतेः प्रणीतमादेशभावं सकलं प्रजासु ॥ ८ ॥

विप्रादिमर्त्या अमृतं सुपुण्यमानीतमेवं भुवि तेन राज्ञा
पिबन्तु पुण्यं परिवैष्णवाख्यं दोषैर्विहीनं परिणाममिष्टम् ॥ ९ ॥

श्रीकेशवं क्लेशहरं वरेण्यमानन्दरूपं परमार्थमेवम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १० ॥

सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं सगुणं सुरेशम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ ११ ॥

श्रीपद्मनाथं कमलेक्षणं च आधाररूपं जगतां महेशम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १२ ॥

पापापहं व्याधिविनाशरूपमानन्ददं दानवदैत्यनाशनम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १३ ॥

यज्ञाङ्गरूपं चरथाङ्गपाणिं पुण्याकरं सौख्यमनन्तरूपम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १४ ॥

विश्वाधिवासं विमलं विरामं रामाभिधानं रमणं मुरारिम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १५ ॥

आदित्यरूपं तमसां विनाशं बन्धस्यनाशं मतिपङ्कजानाम्
नामामृतं दोषहरं सुराज्ञा आनीतमस्त्येव पिबन्तु लोकाः ॥ १६ ॥

नामामृतं सत्यमिदं सुपुण्यमधीत्य यो मानव विष्णुभक्तः
प्रभातकाले नियतो महात्मा स याति मुक्तिं न हि कारणं च ॥ १७ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने पितृतीर्थवर्णने ययाति-
चरिते त्रिसप्ततितमोऽध्यायः ७३