०७२

पिप्पल उवाच-

विश्वास-प्रस्तुतिः

मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद ॥ १ ॥

मूलम्

मातलेश्च वचः श्रुत्वा स राजा नहुषात्मजः
किं चकार महाप्राज्ञस्तन्मे विस्तरतो वद ॥ १ ॥

विश्वास-प्रस्तुतिः

सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा ॥ २ ॥

मूलम्

सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी
श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा ॥ २ ॥

विश्वास-प्रस्तुतिः

सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ॥ ३ ॥

मूलम्

सुकर्मोवाच-
सर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः
तमुवाचागतं दूतं मातलिं शक्रसारथिम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः
शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ ॥

मूलम्

ययातिरुवाच-
शरीरं नैव त्यक्ष्यामि गमिष्ये न दिवं पुनः
शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ ॥

विश्वास-प्रस्तुतिः

यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ॥ ५ ॥

मूलम्

यद्यप्येवं महादोषाः कायस्यैव प्रकीर्तिताः
पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः
इत्याचक्ष्व इतो गत्वा देवदेवं पुरन्दरम् ॥ ६ ॥

मूलम्

नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः
इत्याचक्ष्व इतो गत्वा देवदेवं पुरन्दरम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

एकाकिना हि जीवेन कायेनापि महामते
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ॥ ७ ॥

मूलम्

एकाकिना हि जीवेन कायेनापि महामते
नैव सिद्धिं प्रयात्येवं सांसारिकमिहैव हि ॥ ७ ॥

विश्वास-प्रस्तुतिः

नैव प्राणं विना कायो जीवः कायं विना नहि
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिन्द्र न ॥ ८ ॥

मूलम्

नैव प्राणं विना कायो जीवः कायं विना नहि
उभयोश्चापि मित्रत्वं नयिष्ये नाशमिन्द्र न ॥ ८ ॥

विश्वास-प्रस्तुतिः

यस्य प्रसादभावाद्वै सुखमश्नाति केवलम्
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ॥ ९ ॥

मूलम्

यस्य प्रसादभावाद्वै सुखमश्नाति केवलम्
शरीरस्याप्ययं प्राणो भोगानन्यान्मनोनुगान् ॥ ९ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक
सम्भवन्ति महादुष्टा व्याधयो दुःखदायकाः ॥ १० ॥

मूलम्

एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक
सम्भवन्ति महादुष्टा व्याधयो दुःखदायकाः ॥ १० ॥

विश्वास-प्रस्तुतिः

मातले किल्बिषाच्चैव जरादोषात्प्रजायते
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ ॥

मूलम्

मातले किल्बिषाच्चैव जरादोषात्प्रजायते
पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च
तथापि नूतनो भावः कायस्यापि प्रजायते ॥ १२ ॥

मूलम्

जन्मप्रभृति मे कायः शतार्धाब्दं प्रयाति च
तथापि नूतनो भावः कायस्यापि प्रजायते ॥ १२ ॥

विश्वास-प्रस्तुतिः

मम कालो गतो दूत अब्दा प्रनन्त्यमनुत्तमम्
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते ॥ १३ ॥

मूलम्

मम कालो गतो दूत अब्दा प्रनन्त्यमनुत्तमम्
यथा षोडशवर्षस्य कायः पुंसः प्रशोभते ॥ १३ ॥

विश्वास-प्रस्तुतिः

तथा मे शोभते देहो बलवीर्यसमन्वितः
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा ॥ १४ ॥

मूलम्

तथा मे शोभते देहो बलवीर्यसमन्वितः
नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा ॥ १४ ॥

विश्वास-प्रस्तुतिः

मातले मम कायेपि धर्मोत्साहेन वर्द्धते
सर्वामृतमयं दिव्यमौषधं परमौषधम् ॥ १५ ॥

मूलम्

मातले मम कायेपि धर्मोत्साहेन वर्द्धते
सर्वामृतमयं दिव्यमौषधं परमौषधम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा
तेन मे शोधितः कायो गतदोषस्तु जायते ॥ १६ ॥

मूलम्

पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतम्पुरा
तेन मे शोधितः कायो गतदोषस्तु जायते ॥ १६ ॥

विश्वास-प्रस्तुतिः

हृषीकेशस्य सन्ध्यानं नामोच्चारणमुत्तमम्
एतद्रसायनं दूत नित्यमेवं करोम्यहम् ॥ १७ ॥

मूलम्

हृषीकेशस्य सन्ध्यानं नामोच्चारणमुत्तमम्
एतद्रसायनं दूत नित्यमेवं करोम्यहम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे ॥ १८ ॥

मूलम्

तेन मे व्याधयो दोषाः पापाद्याः प्रलयं गताः
विद्यमाने हि संसारे कृष्णनाम्नि महौषधे ॥ १८ ॥

विश्वास-प्रस्तुतिः

मानवा मरणं यान्ति पापव्याधि प्रपीडिताः
न पिबन्ति महामूढाः कृष्ण नाम रसायनम् ॥ १९ ॥

मूलम्

मानवा मरणं यान्ति पापव्याधि प्रपीडिताः
न पिबन्ति महामूढाः कृष्ण नाम रसायनम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

तेन ध्यानेन ज्ञानेन पूजाभावेन मातले
सत्येन दानपुण्येन मम कायो निरामयः ॥ २० ॥

मूलम्

तेन ध्यानेन ज्ञानेन पूजाभावेन मातले
सत्येन दानपुण्येन मम कायो निरामयः ॥ २० ॥

विश्वास-प्रस्तुतिः

पापर्द्धेरामयाः पीडाः प्रभवन्ति शरीरिणः
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः ॥ २१ ॥

मूलम्

पापर्द्धेरामयाः पीडाः प्रभवन्ति शरीरिणः
पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः
पञ्चभूतात्मकः कायः शिरासन्धिविजर्जरः ॥ २२ ॥

मूलम्

तस्माद्धर्मः प्रकर्तव्यः पुण्यसत्याश्रयैर्नरैः
पञ्चभूतात्मकः कायः शिरासन्धिविजर्जरः ॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं सन्धीकृतो मर्त्यो हेमकारीव टङ्कणैः
तत्र भाति महानग्निर्द्धातुरेव चरः सदा ॥ २३ ॥

मूलम्

एवं सन्धीकृतो मर्त्यो हेमकारीव टङ्कणैः
तत्र भाति महानग्निर्द्धातुरेव चरः सदा ॥ २३ ॥

विश्वास-प्रस्तुतिः

शतखण्डमये विप्र यः सन्धत्ते सबुद्धिमान्
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥ २४ ॥

मूलम्

शतखण्डमये विप्र यः सन्धत्ते सबुद्धिमान्
हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥ २४ ॥

विश्वास-प्रस्तुतिः

पञ्चात्मका हि ये खण्डाः शतसन्धिविजर्जराः
तेन सन्धारिताः सर्वे कायो धातुसमो भवेत् ॥ २५ ॥

मूलम्

पञ्चात्मका हि ये खण्डाः शतसन्धिविजर्जराः
तेन सन्धारिताः सर्वे कायो धातुसमो भवेत् ॥ २५ ॥

विश्वास-प्रस्तुतिः

हरेः पूजोपचारेण ध्यानेन नियमेन च
सत्यभावेन दानेन नूत्नः कायो विजायते ॥ २६ ॥

मूलम्

हरेः पूजोपचारेण ध्यानेन नियमेन च
सत्यभावेन दानेन नूत्नः कायो विजायते ॥ २६ ॥

विश्वास-प्रस्तुतिः

दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले
बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ २७ ॥

मूलम्

दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले
बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ २७ ॥

विश्वास-प्रस्तुतिः

शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् ॥ २८ ॥

मूलम्

शुचिस्ततो भवेत्सूत प्रसादात्तस्य चक्रिणः
नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

तपसा चैव भावेन स्वधर्मेण महीतलम्
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः ॥ २९ ॥

मूलम्

तपसा चैव भावेन स्वधर्मेण महीतलम्
स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरन्दरम्
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ॥ ३० ॥

मूलम्

एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरन्दरम्
सुकर्मोवाच-
समाकर्ण्य ततः सूतो नृपतेः परिभाषितम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

आशीर्भिरभिनन्द्याथ आमन्त्र्य नृपतिं गतः
सर्वं निवेदयामास इन्द्राय च महात्मने ॥ ३१ ॥

मूलम्

आशीर्भिरभिनन्द्याथ आमन्त्र्य नृपतिं गतः
सर्वं निवेदयामास इन्द्राय च महात्मने ॥ ३१ ॥

विश्वास-प्रस्तुतिः

समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः
तस्याथ चिन्तयामासानयनार्थं दिवं प्रति ॥ ३२ ॥

मूलम्

समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः
तस्याथ चिन्तयामासानयनार्थं दिवं प्रति ॥ ३२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरिते द्विसप्ततितमोऽध्यायः ७२